ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 260, कुल 304 में से
संदर्भ में पढ़ेंअध्या० १ ख० ५] ऐतरेयारण्यकम्। २६५
अथ पञ्चमः खण्डः।
प्रेङ्खारूढस्य होतुः कर्तव्यानन्तरं विधत्ते—
प्रस्तोतारं संशास्ति पञ्चविंशस्य स्तोमस्य तिसृष्वर्धतृतीयास्वर्धत्रयोदशासु वा परिशिष्टासु प्रथमं प्रतिहारं प्रब्रूतादिति, इति।
यः प्रस्तोता साम्नः प्रस्तावभागं गायति तं प्रस्तोतारं प्रत्यसौ होता पञ्चविंशस्येत्यादिवाक्यं प्रब्रूयात्। राजनाख्यस्य साम्न आधारभूततृचावृत्त्या यः पञ्चविंशः स्तोमः संपाद्यते तस्मिन्स्तोमे प्रथमां स्तोत्रीयामारभ्यैकविंशस्तोत्रीयासु गतासु परिशिष्टासु त्रयोविंशस्तोत्रीयामारभ्य तिसृषु परिशिष्टासु सतीषु मध्यवर्तिनी येयं द्वाविंशस्तोत्रीया तस्याः प्रतिहारभागः पञ्चवारमावर्तनीयः “पञ्चकृत्वः प्रतिहरति” इति श्रुतेः। तत्र यः प्रथमः प्रतिहारस्तं प्रतिहारं हे प्रस्तोतर्मदग्रे कथय, अयं प्रथमः प्रतिहारो वर्तत इति। प्रतिहर्तुरनुष्ठीयमानं प्रथमं प्रतिहारं प्रति मां स्मारयेत्यर्थः । तिसृष्ववशिष्टास्वेकः पक्षः। अर्धतृतीयास्ववशिष्टास्विति द्वितीयः पक्षः। अर्धत्रयोदशास्ववशिष्टास्विति तृतीयः पक्षः। अन्तिमां स्तोत्रीयामारभ्यावरोहप्रकारेण या तृतीया तस्या उत्तरार्धं यासु तिसृष्ववस्थितं तास्तिस्रोऽर्धतृतीया। अनेनैव न्यायेन त्रयोदश्या उत्तरार्धं यासु त्रयोदशसु वर्तते ता अर्धत्रयोदशाः। इतिशब्दः प्रस्तोतारं प्रति होत्रा प्रयुक्तस्य प्रैषवाक्यस्य समाप्त्यर्थः।
प्रैषवाक्ये शाखान्तरपाठमाश्रित्य मतान्तरं दर्शयति—
अर्धत्रयोदशासु प्रवाचयतेति जातूकर्ण्यः, इति ।
अर्धत्रयोदशास्वित्येष तृतीयपक्ष एव जातूकर्ण्याख्यस्य मुनेरभिप्रेतः । तथा प्रब्रूतादित्यस्मिन्नेवार्थे प्रवाचयतेति पाठोऽभिप्रेतः।
प्रैषवाक्यादूर्ध्वं होतुर्जपं विधत्ते—
प्रोक्ते जपति, इति ।
प्रस्तोत्रा प्रथमप्रतिहारकाले प्रोक्ते सति होता वक्ष्यमाणमन्त्रं जपेत् ।
तं मन्त्रं दर्शयति—
सुपर्णोऽसि गरुत्मान्प्रेमां वाचं वदिष्यामि बहु वदिष्यन्तीं
बहु पतिष्यन्तीं बहु करिष्यन्तीं बहु सनिष्यन्तीं
बहोर्भूयः करिष्यन्तीं स्वर्गच्छन्तीं *स्वर्वदिष्यन्तीं स्वः
* स्वर्वदिष्यन्तीमिति पदद्वयं क. ख. ग. पुस्तकेषु नास्ति ।
१ घ. ङ. 'स्तोत्रिया'। २ ग. द्वादशं । ३ घ. ङ. 'स्तोत्रिया । ४ ग. घ. ङ. स्तोत्रिया'।