ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 267, कुल 304 में से
संदर्भ में पढ़ें२६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
सूक्तेषु समाम्नाता असमाम्नाताश्चेति । तत्र " तदिदास " इत्यादिकासु राजनसामगान- पक्षे पूर्वोक्त एव शस्रोपक्रमः । यदा तु तदिदासेत्यादिभ्योऽन्यासु यथोक्तसूक्तगतासु समाम्नातास्वृक्षूद्गातारो राजनेन स्तुवीरंस्तदानीं पूर्वोक्तन्यायेन राजनसामाधारभूताभि- रन्याभिर्ऋग्भिः शस्रोपक्रमः प्रसज्येत, तथोपक्रमो न कर्तव्यः । किंतु ता अन्याः सामाधारभूता ऋचः स्वस्थान एव पठनीयाः । इमाः "तदिदास" इत्यादिका इहैव शस्रोपक्रम एव पठनीयाः । यदा पुनरुद्गातारो यथोक्तसूक्तेष्वसमाम्नातासु कासुचि- न्नवीनास्त्वृक्षु राजनेन स्तुवीरंस्तदानीं समाम्नातस्य सूक्तस्य मध्ये तावतीर्नूतनाना- मृचां संख्यया संख्याताः काश्चिदृच उद्धृत्य तत्र तासामृचां स्थाने ता नवीना ऋचः शंसेत् । इमास्तु "तदिदास" इत्यादिका इहो एव॑^१ शस्रोपक्रम एव पठनीयाः ।
उद्धारपक्षे तु तदुद्धारनूतनप्रक्षेपयोः स्थानं दर्शयति—
अन्यास चेत्प्राक्सूद्दोहसस्ताः, इति ।
उदाहृतेषु सूक्तेषु या असमाम्नाता अन्या ऋचस्तासु यद्युद्गातारो राजनेँ^३ साम गायेयुस्तदानीं सूद्दोहोनामिकायाः " ता अस्य सूददोहसः " [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येतस्याः पूर्वं काश्चिदृचाऽऽम्नाता अपनीय ता नवीना राजन- सामाधारभूता ऋचस्तत्र प्रक्षिपेत् ।
पक्षत्रयेऽपि शस्रोपक्रमस्य नास्त्यन्यथात्वमित्येतद्दर्शयति—
तदिदासेत्येतदादि शस्त्रम्, इति ।
यदि "तदिदास" इत्यादिषु राजनँसामगानं यदि वा ततोऽन्यासु समाम्नातासु यदि वा नवीनासु सर्वथाऽप्युपक्रम एकविध एव ।
होत्रा शस्रे शस्यमानेऽध्वर्योर्यः प्रतिगरो विहितः स द्विविधः, प्राकृतो विह्वृ- तश्चेति । तत्र सर्वत्र शस्रेषु सामान्येन प्राकृतप्राप्तौ सत्यां तदपवादेन विह्वृते षोडशि-^४ शस्रे विह्वतः प्रतिगरः प्रयुक्तस्तद्दृष्टान्तेनात्रापि विह्वतः प्रतिगर इत्याशङ्क्य तैँ^५द्वारयति—
अविह्वतश्चात्र प्रतिगरः, इति ।
प्रकृतावाम्नातात्प्रतिगरमन्त्राद्विशेषस्य कस्यचिद्धारर्णं^६ संपादनं यस्मिन्प्रतिगरे सोऽयं विह्वतः प्रतिगरः, सोऽत्र न कर्तव्यः किंतु प्राकृत एव कर्तव्यः ।
"तदिदास" इत्यारभ्य गीर्भिरुक्थैरिति तिस्र इत्यन्तेन ग्रन्थेन निष्केवल्यशस्त्रस्य योऽयमात्मभाग उक्तस्तस्यावसाने कांचिदृचं विधत्ते—
१ घ. ङ. °व पूर्ववच्छस्रो° । २ ग. °नं गा° । ३ ग. °नगा° । ४ क. घ. षोलशि° । ५ क. ख. तद्धार° । ६ ग. ङ. °चिद्धार° ।