भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 275, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 275

२७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

सहेति नव समाम्नाता अथासमाम्नाताः , इति । “इमा नु कं भुवना” इत्यादि सूक्तं पञ्चर्चम् । “आयाहि” इत्यादिकमृक्च- तुष्टयोपेतम् । तदुभयमेलनादृचो नव संपद्यन्ते । ताश्चात्र संहिताग्रन्थे समाम्नाताः । अथान्याः काश्चिदसमाम्नाताः शाखान्तरगता विद्यन्ते । तासु प्रथमामाह— प्र व इन्द्राय वृत्रहन्तमाय विप्रा गाथं गायत यज्जुजोषत्, इति । हे विप्रा ऋत्विजो वो युष्माकं वृत्रहन्तमायातिशयेन शत्रुघातिन इन्द्रायेन्द्र- प्रीत्यर्थं गाथं गायत । गातव्यं यत्सामजातमस्ति तत्सर्वं प्रकर्षेण गायत । यत्साम स इन्द्रो जुजोषत्प्रीत्या सेवते तद्गायत । द्वितीयामृचमाह— अर्चन्त्यर्कं देवतावस्वर्का आस्तोभति श्रुतो युवा स इन्द्रः, इति । अर्का अर्चयितारो विप्रा देवतासु मध्येऽर्कमर्चनीयमिन्द्रमर्चन्ति पूजयन्ति । श्रुतो वेदेषु प्रख्यातो युवा यौवनसंपन्नः स इन्द्र आस्तोभति सर्वत उत्साहं करोति । तृतीयामृचमाह— उपप्रक्षे मधुमति क्षियन्तः पुष्यन्तो रयिं धीमहे तमिन्द्र, इति । हे इन्द्र तं त्वां धीमहे वयं ध्यायामः । कीदृशा वयं मधुमत्युपप्रक्षे क्षियन्तः । प्लक्षवृक्षसंपादितानि पात्राण्यत्र प्लक्षशब्देन विवक्षितानि, तेषां समीपवर्ती यागप्रदेश उपप्रक्षः । सरसो(चासौ) मध्वादिमाधुर्यरसोपेतत्वान्मधुमांस्तादृशे प्रदेशे क्षियन्तो निवसन्तः । तथा रयिं पुष्यन्तो धनं वर्धयन्तः । चतुर्थीमृचमाह— विश्वतो दावन्विश्वतो न आभर यं त्वा शविष्ठमीमहे, इति । हे इन्द्र शविष्ठमतिशयेन बलयुक्तं यं त्वामीमहे प्राप्नुमो याचामहे वा स त्वं हे विश्वतो दावन्सर्वेषां प्राणिनां धनादि दत्तत्तादृशस्त्वं नोऽस्माकं विश्वतः सर्व- स्माद्देशादाभर धनादिकमानय । पञ्चमीमृचमाह— स सुप्रणीते नृतमः स्वराळसि मंहिष्ठो वाजसातये, इति ॥ हे इन्द्र सुप्रणीते सुष्ठु संपादितेऽस्मिन्कर्मणि वाजसातयेऽस्मभ्यमन्नदानाय मंहि- ष्ठोऽतिशयेन पूजितः संस्त्वं नृतम उत्तमः पुरुषः स्वराट्स्वयमेव राजसि, न तु परतन्त्र इत्यर्थः ।


१ घ. ङ. देवेषु ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 275, कुल 304 में से · BharatKosha