भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 276, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 276

अध्या० २ ख० २ (८)] ऐतरेयारण्यकम् । २७१

षष्ठीमृचमाह— त्वं ह्येक ईशिषे सनादमृक्त ओजसा, इति । हे इन्द्र त्वं हि त्वमेवैक एवौजसा परकीयेन बलेनामृक्तोऽमार्जितोऽतिरस्कृतः सनात्सनितुमस्मभ्यं धनादिकं दातुमीशिषे समर्थोऽसि ।

सप्तमीमृचमाह— विश्वस्य प्रस्तोभ विद्वान्पुरा वा यदि वेहाऽऽस नूनम् , इति । विश्वस्य सर्वस्य जगतः प्रस्तोभ प्रकर्षेणोत्साहजनक हे इन्द्र पुरा वाऽस्मदनुष्ठानात्प्रागेव वा भवान्विद्वानासास्मद्ऋत्वैर्ज्ञानोपपन्नः । यदि वाऽथवेहास्मिन्कर्मणि नूनमवश्यं भवान्विद्वानास ।

अष्टमीमृचमाह— इषं नो मित्रावरुणा कर्तनेळां पीवरीमिषं कृणुही न इन्द्र, इति । मित्रावरुणा हे मित्रावरुणौ युवां नोऽस्माकमिषमन्नमिर्लां भूमिं च कर्तन कुरुतम् । हे इन्द्र नोऽस्माकं पीवरीं प्रभूतामिषमन्नं कुरु ।

नवमीमृचमाह— शं पदं मघं रयिषणि न सोमो अव्रतं हिनोति न स्पृशद्रयिः, इति । हे इन्द्र रयिषणि हविर्लक्षणस्य धनस्य दातरि मयि शं सुखं पदं निवासस्थानं मघं धनं च संपादयेति शेषः । योऽयं सोमः सोऽयमव्रतमनुष्ठानरहितं न हिनोति न पणयति । रयिः फलभूतं धनमपि न स्पृशदनुष्ठानरहितं पुरुषं न प्राप्नोति । ता एता नवसंख्याका अस्यां संहितायाम समाम्नाता ऋचः ।

पुनरप्यसमाम्नाताः सूत्रगते षष्ठाध्याये पठिता द्विपदा ऋचो दर्शयति— एष ब्रह्मेति तिस्रः, इति । "एष ब्रह्मा य ऋत्वियः" इत्येका । "विसृतयो यथा" इति द्वितीया । त्वामिच्छवसस्पत इति तृतीया ।

संहितायां समाम्नातान्यृगन्तराणि चत्वारि दर्शयति — आधूर्ष्वस्मा इत्येका सूददोहा यद्वावानेति धाय्या सूददोहाः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८) ॥


आधूर्ष्वस्मै०—ऋ० सं० म० ७ सू० ३४ ऋ० ४ । यद्वावान०—ऋ० सं० म० १० सू० ७४ ऋ० ६ । १ क. ॰मेक । २ ग. ॰पत्न्रैः । यं॰ ।