ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 278, कुल 304 में से
संदर्भ में पढ़ेंअध्या०२ख०४(१०)] ऐतरेयारण्यकम्। २७३
“महाँ इन्द्रः” इत्येतत्सूक्तमष्टाचत्वारिंशद्भिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “शतमहम्” [ऋ० सं० म० ८ सू० ६ ऋ० ४६] इत्यादिकाः सूक्तावसानभागस्थास्तिस्र ऋच उद्धृत्य “सोमपेयाय वक्षतः” [ऋ० सं० म० ८ सू० ६ ऋ० ४९] इत्यन्तमेव पञ्चचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । तत ऊर्ध्वम् “पुरोळाशं नो अन्धसः” इत्यादिकास्तिस्र ऋचः पठेत् । “ इदं वसो सुतमन्धः ” [ ऋ० सं म० ८ सू० २ ऋ० १ ] इत्यस्मिन्द्विचत्वारिंशद्भिर्ऋग्भिरुपेते सूक्ते प्रथमतः पठितास्तिस्र ऋचः परित्यज्य “इन्द्र इत्सोमपाः ” इत्यादिकं पठेत् । तत्रापि “ इत्था धीवन्तम् ” [ ऋ० सं म० ८ सू० २ ऋ० ४० ] इत्यादिका अवसानभागस्थास्तिस्र ऋच उद्धृत्य “ ये अस्मिन्काममाश्रियन् ” [ ऋ० सं० म० ८ सू० २ ऋ० ३९ ] इत्यन्तमेव षट्त्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । तस्यापि मध्ये “ स्वाद्वः सोमाः ” इत्येतामृचमुद्धृत्य तस्याः स्थाने “ न ह्यन्यम् ” इत्येतामृचं प्रत्यवदध्यात् । तया प्रत्यवहितया सहितं षट्त्रिंशदृक्समूहं पठित्वा तदूर्ध्वं “ जज्ञानो नु ” इत्येकामृचं पठेत् । “ पान्तमा वः ” [ ऋ० सं० म० ८ सू० ९२ ऋ० १ ] इत्यस्मिन्सूक्ते त्रयस्त्रिंशद्भिर्ऋग्भिरुपेते प्रथमामृचं परित्यज्य “ पुरुहूतम् ” इत्यारम्य द्वात्रिंशद्भिर्ऋग्भिरुपेतः सूक्तशेषः पठनीयः । “ उद्घेदभि ” इत्यस्मिन्सूक्ते चतुस्त्रिंशद्भिर्ऋग्भिरुपेते “ इन्द्र इषे ” [ ऋ० सं० म० ८ सू० ९३ ऋ० ३४] इत्यादिकामुत्तमामृचमुद्धृत्यावशिष्टं त्रयस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् । “ प्रकृतानि ” इत्यादिकं त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं पठेत् ।
“ आ घा ये अग्निम् ” इति सूक्तं द्विचत्वारिंशद्भिर्ऋग्भिरुपेतं पठेत् । “ आ तू न इन्द्र ” इत्यादिकं नवभिर्ऋग्भिरुपेतमेकं सूक्तं तत उपरितनम् । “ आ प्रद्रव ” [ ऋ० सं० म० ८ सू० ८२ ऋ० १ ] इत्यादिकं नवर्चं सूक्तं ते द्वे अपि सूक्ते पठेत् । ततः सूददोहाः पठनीया । एवं सति सूददोहसः प्राचीनाश्चत्वारिंशदधिकशतद्वयसंख्याका ऋचः, ततस्तृचाशीतिः संपद्यते ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ९ )
अथ चतुर्थः खण्डः । ( दशमः )
गायत्र्यास्तृचाशीतेरूर्ध्वं शंसनीयं भागं दर्शयति—
बार्हती तृचाशीतिः, इति ।
* अत्रैकवचनान्तः पाठः साधुः, विंशत्याद्याः सदैकत्व इत्यनुशासनात् । एवमग्रेऽपि तत्र तत्र बोध्यम् ।
३५