ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 280, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० ४ (१०) ऐतरेयारण्यकम् । २७५
“मा चिदन्यत्” इत्यादिकं चतुस्त्रिंशद्भिर्ऋग्भिरुपेतं सूक्तं तस्य सूक्तस्यावसानभागस्थाः “स्तुहि स्तुहि” [ऋ० सं० म० ८ सू० १ ऋ० ३०] इत्यादिकाः पञ्च परित्यज्य “स्तोमासो अवृत्सत” [ऋ० सं० म० ८ सू० १ ऋ० २९] इत्यन्तमेवैकोनत्रिंशद्भिर्ऋग्भिरुपेतं पठेत् । “पिबा सुतस्य” इत्येतस्मिंश्चतुर्विंशद्भि(तिभि)र्ऋग्भिरुपेते सूक्ते विंशतिसंख्याया ऊर्ध्वम् “यं मे दुः” [ऋ० सं० म० ८ सू० ३ ऋ० २१] इत्याद्याश्चतस्र ऋचः परित्यजेत् । अवशिष्टायां विंशतावपि “अभि त्वा पूर्वपीतये” [ऋ० सं० म० ८ सू० ३ ऋ० ७] इत्येतां सप्तमीम् । “अस्येन्द्रो वावृधे” [ऋ० सं० म० ८ सू० ३ ऋ० ८] इत्येतामष्टमीं च परित्यज्यावशिष्टाभिरष्टादशभिर्ऋग्भिरुपेतं सूक्तं पठेत् । “यदिन्द्र प्रागपागुदक्” इत्यादिकमेकविंशतिभिर्ऋग्भिरुपेतं सूक्तम् । तत्रान्तिमाः “प्र पूषणम्” [ऋ० सं० म० ८ सू० ४ ऋ० १९] इत्यादिकाः सप्त परित्यज्य “वहन्तु सवने दुप” [ऋ० सं० म० ८ सू० ४ ऋ० १४] इत्यन्तमेव चतुर्दशभिर्ऋग्भिरुपेतं पठेत् । “वयं घ त्वा” इति सूक्तमेकोनविंशतिभिर्ऋग्भिः समेतं [तस्मिन्सूक्ते] “न हि षस्तव” [ऋ० सं० म० ८ सू० ३३ ऋ० १] इत्यादिकाश्चतस्रः परित्यज्य “मदाय धुक्ष सोमपाः” [ऋ० सं० म० ८ सू० ३३ ऋ० १९] इत्यन्तमेव पञ्चदशभिर्ऋग्भिरुपेतं पठेत् । “मो षु त्वा” इत्यादिकं सप्तविंशतिभिर्ऋग्भिरुपेतं तस्मिन्सूक्ते “रायस्कामः” [ऋ० सं० म० ७ सू० ३२ ऋ० ३] इत्येतां द्विपदामृचमुद्धरेत् । तथा रथंतरसामसंबन्धिप्रगाथम् “अभि त्वा शूर” [ऋ० सं० म० ७ सू० ३२ ऋ० ऋ० २२] इत्यादिकमृगद्वयमुद्धरेत् । ततोऽवशिष्टं चतुर्विंशतिभिर्ऋग्भिरुपेतं तत्सूक्तं पठेत् । तत्रापि “नकिः सुदासः” इत्येतं प्रगाथमुद्धृत्य तस्य स्थाने “त्वामिदा ह्यो नरः” इत्येतं प्रगाथं प्रक्षिप्य पठेत् । “अभि प्र वः” [ऋ० सं० म० ८ वाल० सू० १] इत्यादिकानि वालखिल्यानां संहितायामाम्नातानि षट्पञ्चाशद्भिर्ऋग्भिरुपेतनि षट्सूक्तानि पठेत् । “त्वामिद्धि हवामहे” इत्यादिकं चतुर्दशभिर्ऋग्भिरुपेतं सूक्तं तस्मिन्नादित आरभ्य द्वे ऋचौ परित्यज्य “यः सत्राहा” इत्यादिकं द्वादशभिर्ऋग्भिरुपेतं सूक्तशेषं पठेत् । “अयं ते अस्तु” इति पञ्चर्चमेकं सूक्तम् । “आ मन्द्रैः” [ऋ० सं० म० ३ सू० ४९ ऋ० १] इति पञ्चर्चं द्वितीयं सूक्तं ते उभे सूक्ते पठेत् । “उभयं शृणवच्च नः” इत्यादिकमष्टादशर्चं सूक्तं तस्य मध्ये “त्वं होहि” [ऋ० सं० म० ८ सू० ६१ ऋ० ७] इत्यादिकां सप्तमीम् । “त्वं पुरू सहस्राणि” [ऋ० सं० म० ८ सू० ६१ ऋ० ८] इत्यादिकामष्टमीं चोद्धृत्यावशिष्टं षोडशर्चं सूक्तं पठेत् । “तरोभिर्वः” इत्यादिकं पञ्चदशर्चं सूक्तं तस्मिन्नुत्तमाम् “सोम इन्द्रः”