ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 283, कुल 304 में से
संदर्भ में पढ़ें२७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
इत्यादिकमेकादशर्चं गायत्रीच्छन्दस्कं सूक्तं तत्रोत्तमाम् "अर्वावतो नः" [ ऋ० सं० म० ३ सू० ३७ ऋ० ११ ] इत्येतामृचमुद्धृत्य "उत्ते शुष्मं तुरामसि" [ऋ० सं० म० ३ सू० ३७ ऋ० १] इत्यन्तमेव दशर्चं पठेत्। "सुरूपकृत्नुम्" इत्यादिकं गायत्रीच्छन्दस्कं दशर्चमेकं सूक्तम्, "आ त्वेता निषीदत" [ ऋ० सं० म० १ सू० ५ ऋ० १ ] इत्यादिकमपि गायत्रीच्छन्दस्कं दशर्चं तच्च द्वितीयं सूक्तम्, "युञ्जन्ति ब्रघ्नम्" [ ऋ० सं० म० १ सू० ६ ऋ० १ ] इत्यादिकमपि गायत्रीच्छन्दस्कं तत्तृतीयं सूक्तम्, तान्येतानि त्रीणि सूक्तानि पठेत्। "इन्द्र सानसिम्" इति गायत्रीच्छन्दस्कं दशर्चमेकं सूक्तम्, "इन्द्रे हि मत्स्यन्धसः" [ ऋ० सं० म० १ सू० ९ ऋ० १ ] इत्येतदपि गायत्रीच्छन्दस्कं दशर्चं द्वितीयं सूक्तम्, एते उभे पठेत्। "य आनयत्" इत्यादिकं त्रयस्त्रिंशदृचं गायत्रीच्छन्दस्कं सूक्तं तस्मिन्नुत्तमाः "अधिब्रुवुः" [ ऋ० सं० म० ६ सू० ४५ ऋ० ३१ ] इत्यादिकास्तिस्र ऋच उद्धृत्य "अस्मान्राये महे हिनु" [ ऋ० सं० म० ६ सू० ४५ ऋ० ३० ] इत्यन्तं त्रिंशदृचं सूक्तं पठेत्। "रेवतीर्नः" इत्यादिका गायत्रीच्छन्दस्कास्तिस्र ऋचः पठेत्। "यदिन्द्राहम्" इत्यारभ्य "रेवतीर्नः" इति तृचान्तास्त्रयस्त्रिंशदधिका(क)शतसंख्याका गायत्र्योऽत्र पठनीयाः, ताश्च पूर्वोक्तप्रकारेण सप्तसु सप्तसु षट्पळ्(ङ्)ष्णिकः संपद्यन्ते। तथा सति चतुर्दशाधिकशतसंख्याका उष्णिकः संपन्नाः। "य इन्द्र सोमपातमः" इत्याद्यासु स्वतः सिद्धा उष्णिकः षड्विंशत्यधिकाः(क) शतसंख्याकाः। तासां सर्वासां मेलनादौष्णिही तृचाशीतिः संपद्यते। तां पठित्वाऽन्ते सूदोहसं पठेत्।
तृचाशीतिशंसनं कंचिद्विशेषं विधत्ते—
इत्येतास्तिस्रस्तृचाशीतयः सर्वा अर्धर्चशः, इति ।
इत्येवं पूर्वमुक्ता गायत्रीबृहत्युष्णिच्छन्दस्कास्तृचाशीतयो याः सन्ति ताः सर्वा अर्धर्चशोऽर्ध[र्च?]मर्हन्ति। प्रथमेऽर्धर्चेऽवसाय पश्चादुत्तरमर्धर्चं पठेहित्यर्थः।
अशीतिष्वन्नबुद्धिमभिप्रेत्यान्नरूपेण ताः प्रशंसति—
अन्नमशीतयः, इति ।
या उक्ता अशीतयस्ताः पक्ष्याकारस्य शस्त्रस्यान्नस्थानीयाः। तथात्वेन मनसि तां भावयेदित्यर्थः।
वक्ष्यमाणस्य वशानाम्न ऋक्समूहस्योदरत्वानुस्मरणमभिप्रेत्य प्रशंसति—
उदरं वशः, इति ।
वशाख्य ऋक्संघः पक्ष्याकारस्य शस्त्रस्योदरम्। तथात्वेन भावयेदित्यर्थः।