ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 282, कुल 304 में से
संदर्भ में पढ़ेंअध्या० २ ख० १(११)] ऐतरेयारण्यकम् । २७७
उत्तरस्योत्तमे उद्धरति वार्त्रहत्याय शवस इत्युत्तमा-
मुद्धरति सुरूपकृत्नुमूतय इति त्रीण्येन्द्रसानसिं रयि-
मिति सूक्ते य आनयत्परावत इति तिस्र उत्तमा उद्ध-
रति रेवतीर्नः सधमाद इति तिस्रः सूददोहाः, इति ।
“य इन्द्र” इत्येतत्त्रयस्त्रिंशदृचमेकं सूक्तम् । “इन्द्रः सुतेषु” [ ऋ० सं म० ८ सू० १३ ऋ० १ ] इतीदमपि त्रयस्त्रिंशदृचं सूक्तं ते उभे सूक्ते पठेत्। “तम्वभि” इत्यादिके सूक्ते चरमम् “अरं क्षयाय” [ ऋ० सं० म० ८ सू० १९ ऋ० १३ ] इत्यादिकामृचमुद्धृत्य “अस्माकेभिर्नृभिरत्रा खर्जय” [ ऋ० सं० म० ८ सू० १९ ऋ० १२ ] इत्येतदन्तं द्वादशर्चं सूक्तं पठेत् । “इन्द्राय साम” इत्यादिकं द्वादशर्चं सूक्तं तदपि पठेत् । “सखायः” इत्यादिकं त्रिंशदृचं सूक्तं तस्मिन्नन्तिमा “यथा वरो” [ ऋ० सं० म० ८ सू० २४ ऋ० २८ ] इत्यादिकास्तिस्र ऋच उद्धृत्य “वभ्रदासस्य तुविनृम्ण नीनमः” [ ऋ० सं० म० ८ सू० २४ ऋ० २७] इत्यन्तं सप्तविंशत्यृचं सूक्तं पठेत् । “य एकः” इत्यादिकरेकस्तृचः, “आयाहि” इत्यादिद्वितीयस्तृचः । “यस्य त्यत्” इत्यादिस्तृतीयस्तृचः । त एते त्रयस्तृचाः पठनीयाः । इत ऊर्ध्वं गायत्रीछन्दस्का ऋचः पठनीयाः । ताश्च गायत्र्य उष्णिक्त्वेन संपादनीयाः । तत्संपादनं कथमिति [तदुच्यते-] । सप्त गायत्र्यो मिलित्वा षळु(डु)ष्णिहः संपद्यन्ते । सप्तम्यां गायत्र्यामक्षरचतुष्काणि षड्विद्यन्ते । तेष्वेकैकं चतुष्कमेकैकस्यां गायत्र्यां योजनीयम् । ततोऽष्टाविंशत्यक्षरत्वादुष्णिगेव संपद्यते । एवं सप्तसु गायत्रीषु षळु(डु)ष्णिहः संपन्ना भवन्ति । सर्वासपि गायत्रीष्वेवमुष्णिक्त्वं संपादनीयम् । सप्त सप्त गायत्र्यः षट्षळुष्णिहो भवन्ति” इति वीप्सा पठिता । “यदिन्द्राहम्” इत्यादिकं पञ्चदशर्चं गायत्रीछन्दस्कं सूक्तं पठेत् । “प्र सम्राजम्” इत्यादिकं द्वादशर्चं सूक्तम्, “आयाहि सुषुमा हि ते” [ ऋ० सं० म० ८ सू० १७ ऋ० १ ] इति पञ्चदशर्चं सूक्तम् , ते उभे गायत्रीछन्दस्के सूक्ते पठनीये । तत्रोत्तरसूक्तस्योत्तमे द्वे “वास्तोष्पते” [ ऋ० सं० म० ८ सू० १७ ऋ० १४ ] इत्यादिके उद्धृत्यावशिष्टं त्रयोदशर्चम् “न्यास्मिन्दध्र आ मनः” [ऋ० सं० म० ८ सू० १७ ऋ० १३ ] इत्येतदन्तमेव पठनीयम् । “वार्त्रहत्याय”
वार्त्रहत्याय शवसे०—ऋ० सं० म० ३ सू० ३७ ऋ० १ । सुरूपकृत्नुमूतये०—ऋ० सं० म० १ सू० ४ ऋ० १ । ऐन्द्र सानसिं०—ऋ० सं० म० १ सू० ८ ऋ० १ । य आनयत्परावतः०—ऋ० सं० म० ६ सू० ४९ ऋ० १ । रेवतीर्नः सधमादे०—ऋ० सं० म० १ सू० ३० ऋ० १३ ।