ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 288, कुल 304 में से
संदर्भ में पढ़ेंअध्या०३ ख० २(१३)] ऐतरेयारण्यकम् । २८३
उक्थे समाप्ते सत्युक्थसंपदङ्गं होता जपेत् । उक्थं वाचीन्द्रायेत्येतावदेव जपेदित्यर्थः ।
वीर्यभागे प्रतिनिधिं विधत्ते—
उक्थवीर्यस्य स्थान उक्थदोहः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १२ )
योऽयमुक्तवीर्यभाग उपशृण्वते त्वेत्येवंरूपस्तत्सस्थान उक्थदोहाख्यो मन्त्रः पठनीयः । शाखान्तरगतो मूर्धा लोकानामित्यारभ्य यज्ञसमार्द्धं मे धुक्ष्वेत्यन्तो मन्त्रस- मूह उक्थदोहसंज्ञकः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये पञ्चमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( १२ )
अथ द्वितीयः खण्डः । ( त्रयोदशः )
तस्मिन्नुक्थदोहे प्रथमं मन्त्रमाह—
मूर्धा लोकानामसि वाचो रसस्तेजः प्राणस्याऽऽयतनं मनसः संवेशश्चक्षुषः संभवः श्रोत्रस्य प्रतिष्ठा हृदयस्य सर्वम् । इन्द्रः कर्माक्षितममृतं व्योम । ऋतं सत्यं विजिग्यानं विवाचनमन्तो वाचो विभुः सर्वस्मादुत्तरं ज्योतिरुधरप्रतिवादः पूर्वं सर्वे वाक्परागर्वाक्सप्तु सलिलं धेनु पिन्वति । चक्षुः श्रोत्रं प्राणः सत्यसंमितं वाक्प्रभूतं मनसो विभूतं हृदयोद्यं ब्राह्मणभर्तृमन्नशुभे वर्षपवित्रं गोभगं पृथिव्युपरं वरुणवयिव्रतं तपस्तन्विन्द्रज्येष्ठं सहस्रधारमयुताक्षरममृतं दुहानम्, इति ।
निष्ककेवल्यनामक हे उक्थ त्वं पृथिव्यादिलोकानां सर्वेषां मूर्धा शिरःस्थानी- योऽसि । वागिन्द्रियस्य सारभूतमसि । प्राणस्य तेजः शक्तिरूपमसि । मनस आयतनमाश्रयोऽसि । चक्षुरिन्द्रियस्य संवेशः स्वविषये प्रवेशनसामर्थ्यमसि । श्रोत्रेन्द्रियस्य संभवः शब्दग्रहणाद्योत्पन्नवृत्तिरूपमसि । हृदयस्याष्टदलस्य प्रति- ष्ठाऽऽधारभूतो देहोऽसि । निष्केवल्य नैतावदेव त्वं किं तु जगति यद्विद्यते तत्सर्वं त्वमसि । इन्द्र इत्यारभ्य दुहानमित्यन्तेन ग्रन्थेन तदेव सर्वं प्रत्येकमुदाहृत्य
^१ क. ख. घ. ङ. 'स्थानमसि ।