ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 287, कुल 304 में से
संदर्भ में पढ़ें२८२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [५प्रथमारण्यके-
ण्ययं पुमान्पू(मानायुषः पू)र्वप्रसिद्धादूर्ध्वं जीवितुमिच्छेत् । प्रक्षेपकाले यावन्तः संव- त्सरा अधिकजीवनायापेक्षितास्तेषु संवत्सरेष्वेकैकस्मात्संवत्सरान्निमित्तभूताद्दशतो दश बृहतीनां समूहान्वावपेत् । न वेति पक्षान्तरम् । एकैकसंवत्सरनिमित्तमेकैका बृहतीति तस्याभिप्रायः । एवं च सति प्रकृते त्रिष्टुप्छन्दस्कानां नवानां प्रक्षिप्तत्वा- दक्षरगणनया ता एकादश बृहत्यः संपद्यन्ते । ततस्तावदायुर्र्वर्धते । “त्यमू षु” इति तृचात्मकं सूक्तं पठेत् । तत ऊर्ध्वम् “इन्द्रो विश्वं विराजति” इत्येतामेक- पदामृचं शाखान्तरगतां पठेत् । “इन्द्रं विश्वाः” इत्यष्टर्चमनुष्टुप्छन्दस्कं सूक्तं तच्च व्यतिषङ्गेण शंसेत् । कोऽसौ व्यतिषङ्गप्रकारः सोऽयमभिधीयते—प्रथमायाः पूर्वार्धं (पूर्वमर्धर्चं) यथापाठं शस्त्रोत्तरेणार्धर्चेन सह द्वितीयस्या ऋचः पूर्व- मर्धर्चं व्यतिषजेत् । एवमुत्तरायाः । तत्र पादैः पादा अनुषञ्जनीयाः । प्राचीनासु सप्तस्वप्यृक्षु परस्परं व्यतिषङ्गं कृत्वा तेनैव व्यतिषङ्गेणानुष्टुभं कृत्वा शंसेत् । एवं च सति प्रथमायामृच्यध्ययनक्रमेणैव पादत्रयं पठित्वा द्वितीयस्या ऋचः प्रथमपाद- माकृष्य चतुर्थपादत्वेन योजयेत् । सेयमेकाऽनुष्टुप् । ततः प्रथमायामृचि चतुर्थपादं द्वितीयस्यां द्वितीयपादं च संयोज्य प्रथममर्धर्चं कुर्यात् । ततो द्वितीयस्यां तृतीयपादं तृतीयस्यां प्रथमपादं च संयोज्य द्वितीयमर्धर्चं कुर्यात् । सेयं द्वितीयाऽनुष्टुप् । एवमु- त्तराष्वप्येकैकपादान्तरितत्वेन द्वौ द्वौ पादौ संयोज्यार्धर्चान्कृत्वा द्वाभ्यां द्वाभ्याम- र्धर्चाभ्यामेकैकाऽनुष्टुप्संपादनीया । उत्तमायाः प्रागेवं संपादितात्पूर्वस्मात्पूर्वस्मा- दर्धर्चादूर्ध्वं संपादितमुत्तरमुत्तरमर्धर्चं संयोजयेत् । ता एताः परस्परव्यतिषक्ताः सप्ता- नुष्टुभः पठित्वा तत ऊर्ध्वं प्रकृत्या यथाम्नातपाठेनैव शेषः शस्त्रस्यान्तिमो भाग एका- र्धर्चः पठनीयः । एवं सति सूक्तस्याऽऽद्यन्तयोरर्धर्चयोर्यथाम्नातपाठः, मध्यगतानां चतुर्दशानामर्धर्चानां व्यतिषङ्गपाठ इत्युक्तं भवति । “पिबा सोमम्” इति । नवर्चं सूक्तं तत्रान्तिमास्तिस्रः परित्यज्याऽऽदौ षडृचः पठेत् । “योनिष्ट इन्द्र” इति षडृचं सूक्तं तत्राऽऽदौ चतस्रः पठित्वा तदनन्तरं षष्ठीं पठेत् । पठित्वा च ततः पूर्वभाविन्या “एष स्तोमः” [ऋ० सं० म० ७ सू० २४ ऋ० ५] इत्यनया पञ्चम्या परिदधाति निष्केवल्यशस्त्रं समापयेत् ।
अथ होतृर्जपं विधत्ते—
परिहित उक्थ उक्थसंपदं जपति, इति ।
प्रकृतिभूतेऽग्निष्टोमे होता निष्केवल्यशस्त्रादूर्ध्वम् “उक्थं वाचीन्द्रायोपशृण्वते त्वा” इति मन्त्रं जपति । तत्रोक्थं वाचीन्द्रायेत्येतावानुक्थसंपदङ्गभागः । उपशृण्वते त्वेत्येतावानुक्थवीर्यभागः । उक्थशब्दः शस्त्रवाची । तथा सत्यत्र निष्केवल्यशस्त्रस्य
१ घ. ङ. 'त्वादृशाक्ष' । २ घ. ङ. द्वितीयपादं ।