भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 290, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 290

अध्या० ३ ख० २ (१३)] ऐतरेयारण्यकम् । २८५

हे उक्थ निष्केवल्यशस्त्र मूर्धा लोकानामित्यादिना सर्वमिन्द्र इत्यादिना [च] त्वया पूर्वमभिहिता एताः सर्वास्ते तव भूतय ऐश्वर्याणि । न केवलं तैः शब्दैः प्रतिपाद्यानामर्थानामेव विभूतित्वं किंन्त्वेता वाचः शब्दा अपि तव विभूतयः । ताभिर्विभूतिभिः सर्वाभिर्मे मदर्थमिहास्मिन्कर्मण्यमृतस्य विनाशरहितस्य स्वर्गसंबन्धिनीं महीं श्रियं प्रौढां संपदं धुक्ष्व संपादय ।

तृतीयं मन्त्रमाह— प्रजापतिरिदं ब्रह्म वेदानां ससृजे रसम् । तेनाहं विश्वमाप्यासं सर्वान्कामान्दुहां महत्, इति ।

पुरा प्रजापतिर्वेदानां रसं सारभूतमिदं ब्रह्म प्रौढं महाव्रतं निष्केवल्यं वा सृष्टवान् । तेन कर्मणा शस्त्रेण वाऽहं होता विश्वं सर्वं फलमाप्यासम् । प्राप्तो भूयासम् । तथा सर्वान्कामान्भोगान्महदतिशयेन दुहां संपादयामि ।

चतुर्थं मन्त्रमाह— भूर्भुवः स्वस्त्रयो वेदोऽसि । ब्रह्म प्रजां मे धुक्ष्व, इति ।

ये भूरादयस्त्रयो लोका यश्च वेदो हे उक्थ तत्सर्वं त्वमसि । मह्यं ब्रह्म वेदं प्रजां च पुत्रादिकां धुक्ष्व संपादय ।

पञ्चमषष्ठसप्तमाष्टमान्मन्त्रानाह— आयुः प्राणं मे धुक्ष्व । पशून्विशं मे धुक्ष्व । श्रियं यशो मे धुक्ष्व । लोकं ब्रह्मवर्चसमभयं यज्ञसमृद्धिं मे धुक्ष्व, इति ।

विशं धनसंपादिनीं प्रजाम् । लोकं स्वर्गाख्यम् । स्पष्टमन्यत् । मूर्धा लोकानामित्यादिकमुक्थदोहार्यं मन्त्रसंघं होता प्रथमं स्वयं जपित्वा पश्चादध्वर्युं वाचयेदिति विधत्ते—

इति वाचयत्यध्वर्युमबुद्धं चेदस्य भवति, इति ।

अस्याध्वर्योरिदं मन्त्रस्वरूपमबुद्धं चेदनवगतं यदि भवति तदा होता पाठयेत् । अवगतत्वे स्वयमेव जपेदित्यर्थः ।

तस्माज्जपादूर्ध्वं होतुः कर्तव्यं विधत्ते— ओमुक्थशा यज सोमस्येतीज्यायै संप्रेषितो ये यजामह इत्यागूर्य नित्ययैव यजति व्यवान्येवानुवषट्करोति, इति ।


१ ग. 'ति । प्र' ।