भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 291, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 291

२८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-

यदाऽध्वर्युरोमुक्थशा इत्यादिप्रैषमन्त्रं पठति तदानीं होता यागार्थं संप्रेषितः सन्नादौ ये यजामह इत्युच्चार्य नित्ययैव प्रकृतिगतया “ पिबा सोममिन्द्र ” [ ऋ० सं० म० ७ सू० २३ ऋ० १ ] इत्यनयैव यजेत् । तामेव याज्यां पठेदि-त्यर्थः । तत उच्छ्वासमकृत्वैवानुवषट्कारं कुर्यात् । सोमस्याग्ने वीहीत्येतं प्राकृतमेवानु-वषट्कारमन्त्रं पठेत् ।

अनुमन्त्रणे विशेषाभावं दर्शयति—

उक्तं वषट्कारानुमन्त्रणम्, इति ।

प्रकृतौ वौगोज इत्यादिकं यदनुमन्त्रणमुक्तं तदेवात्रापि द्रष्टव्यम् ।

अध्वर्योः कर्तव्यं होत्राऽपेक्षणीयं दर्शयति—

आहरत्यध्वर्युरुक्थपात्रमतिग्राह्यांश्चमसांश्च, इति ॥

भक्षणार्थमुक्थपात्रातिग्राह्येषु चमसेषु च यः सोमरसोऽवशेषितस्तमध्वर्युर्होतारं प्रत्यानयेत् ।

होतुः कर्तव्यं विधत्ते—

भक्षं प्रतिख्याय होता प्राङ्मेङ्खादवरोहति, इति ।

अध्वर्युणा समाहृतं भक्षं ज्ञात्वा प्राङ्मुखो भूत्वा [होता] प्रेङ्खादवरोहेत् ।

अध्वर्यूणां कृत्यं विधत्ते—

अथैतं प्रेङ्खं प्रत्यञ्चमवबध्नन्ति यथा शंसि- तारं भक्षयिष्यन्तं नोपहनिष्यसीति, इति ।

शंसिता होता प्रेङ्खस्य स्थाने स्वयमुपविश्य सोमं भक्षयिष्यति तदानीं तस्य होतुः प्रेङ्खेनो(णो)पपातो मा भूदित्यभिप्रेत्य तं प्रेङ्खं पश्चान्नीत्वोपरि बध्नीयुः ।

भक्षणस्थानं विधत्ते—

प्रेङ्खस्य ह्यायतनमासीनो होता भक्षयति, इति ।

समन्त्रकं भक्षणं विधत्ते—

अथैतदुक्थपात्रं होतोपसृष्टेन जपेन भक्षयति । वाग्देवी सोमस्य तृप्यतु । सोमो मे राजाऽऽ- युःप्राणाय वर्षतु । स मे प्राणः सर्वमायुर्दुह्वां महत्, इति ।

उपसृष्टेनेतरानुज्ञापूर्वकेण वाग्देवीत्यादिमन्त्रजपेन युक्त उक्थपात्रगतं सोमं भक्ष-येत् । सोमस्य रसेन वाग्देवता तृप्ता भवतु । स च सोमोऽस्माकं राजा सन्वायुर्हे-तुभूतप्राणार्थं वृष्टिं जनयतु । स च प्राणो मम सर्वमायुर्महत्संपूर्णं यथा भवति तथा दुह्वां संपादयतु ।


१ घ. ङ. वागौज । २ ग. ङ. ˚भूतः प्रा˚ ।