ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 298, कुल 304 में से
संदर्भ में पढ़ेंअध्या०३ ख०३(१४)] ऐतरेयारण्यकम् । २९३
आत्मनः पुरुषार्थाय महाव्रतविस्मृत्यभाव ❊एवालमिति निश्चिनुयात् । तत्रान्याद्वाक्यं केचित्पठन्ति— अलं सत्यं विद्यात् , इति । महाव्रतमेव पुरुषार्थायालमिवि यदुक्तं तत्सत्यं प्रामाणिकं न तत्र शङ्कितव्यमिति निश्चिनुयात् ।
इदमपि वाक्यान्तरमादरा्थम् । अविस्मृतग्रन्थस्य पुनरन्यं नियमं विधत्ते— नेदंविदानिदंविदा समुद्दिशेन्न सह- भुञ्जीत न सधमादी स्यात् , इति । इदं महाव्रतग्रन्थजातं वेत्तीतीदंवित् । तादृशः पुमाननिदंविदा तद्ग्रन्थज्ञानरहितेन पुरुषेण सह न समुद्दिशेत् । तस्य पुरतो ग्रन्थमेतं न पठेहित्यर्थः । तादृशेन महाव्रतानभिज्ञेन पुरुषेण सहैकस्यां पङ्क्तौ न भुञ्जीत । सधमादी तेन सार्धं हर्षादिविनोदवानपि न स्यात् ।
यथोक्तमहाव्रताध्ययननियमप्रसङ्गेन कृत्स्नवेदाध्ययननियममपि दर्शयति— अथातः स्वाध्यायधर्मं व्याख्यास्याम उप पुराणे नाऽऽपीते कक्षोदके पूर्वाह्ने न संभिन्नासु च्छायास्वपराह्ने नाव्यूहळे मेघेऽपतौ वर्षे त्रिरात्रं वैदिकेनाध्यायेनान्तरियान्नास्मिन्कथां वदेत नास्य रात्रौ च न च कीर्तयिषेत् , इति ।
वेदैकदेशस्य महाव्रतस्य +नियमकथनानन्तर्यमथशब्देनोच्यते । एकदेशनियमेन कृत्स्ननियमस्य बुद्धिस्थत्वादानन्तर्यं युक्तम् । अतःशब्दो हेत्वर्थः । यस्मान्नियमेनाधीतः स्वाध्यायः फलप्रदस्तस्मादित्यर्थः । स्वस्याध्यायः स्वाध्यायः स्वशाखा, तस्य धर्मो निषिद्धकालाध्ययनवर्जनम् । तद्धर्मं विस्पष्टं साकल्येन कथयिष्यामः । उप पुराण इत्यादिवाक्येन पौष्याः पौर्णमास्या उपरितनः काल उपलक्ष्यते । तथा हि—पुराणे कक्षोदक उपापीते सति नाधीयीतेति वाक्ययोजना । कक्षशब्देन लतादिपुञ्जमभिधीयते । तस्य मूले वृष्टिकालसंपादितमुदकं द्रवत्वरूपेण कंचित्कालमनुवृत्तं सत्पौषादिमासेषु प्रायेण शुष्यति, तदिदमत्राभिधीयते । पुराणे पूर्वसंपादिते कक्षोदक उपापीते लतादिमूलसमीपे विलीने शुष्के सति नाधीयीत ।
* अत्र सर्वेष्वप्यादर्शपुस्तकेषु—‘‘एवाखिलम्’’ इति पाठो वर्तते । + ‘‘नियमकथनानन्तर्यार्थमथशब्देन’’ इत्येव पाठः सकलादर्शपुस्तकेषु ।
१ ग. ॰त् । अथ मं ।