ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 297, कुल 304 में से
संदर्भ में पढ़ें२९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
क्तृचाशीतिभ्यः समापयेदेवेत्याग्निवेश्याय-
नोऽन्यमन्यस्मिन्देशे शमयमान इति, इति ।
इदं महाव्रताध्ययनं यस्मिन्दिने प्रक्रान्तं तस्मिन्नेव समाप्तं न कुर्यादिति जातू-
कर्ण्यस्य मतम् । गालवस्य तु कुर्यादिति मतम् । आग्निवेश्यायनस्य तु कियदेव
समापयेदिति मतम् । गायत्र्यादिभ्यस्तृचाशीतिभ्यः प्राचीनमाज्यप्रउगादिकं
यदास्ति तदेवैकस्मिन्दिने समापयेत् । इतरभागं तु दिनान्तरे समापयेत् । यथैवोत्तर-
भागस्यान्यस्मिन्दिने समापनं तथैवान्यमुत्तरभागमन्यस्मिन्देशे शमयमानः समापयन्न-
वतिष्ठेत । इतिशब्दो मतद्वयसमाप्त्यर्थः ।
देशविषये पुनरन्यं विशेषं दर्शयति—
यत्रेदमधीयीत न तत्रान्यदधीयीत यत्र त्वन्य-
दधीयीत काममिदं तत्राधीयीत , इति ।
इदं महाव्रतप्रतिपादकं मन्त्रजातं यस्मिन्देशेऽधीतं तस्मिन्देशे स्थित्वा ग्रन्थान्त-
राध्ययनं न कुर्यात् । यस्मिंस्तु देशे ग्रन्थान्तरमधीतं तस्मिन्देशे स्वेच्छयेदमध्येतुं
शक्यम् ।
शाखान्तरे वेदमधीत्य स्नायादिति स्नानाख्यं यत्कर्म विहितं तस्मात्प्रागेव महाव्र-
ताध्ययनं विधत्ते—
नेदमनधीयन्त्स्नातको भवति यद्यप्यन्यद्बहुधी-
यान्नैवेदमधीयन्त्स्नातको भवति, इति ।
कृत्स्नमपि वेदमधीत्य स्नायादिति मुख्यः कल्पः । यदा तु वेदैकदेशमधीयीतेत्यनु-
कल्प आश्रीयेत तदानीं यद्यपि महाव्रतादन्यद्दर्शपूर्णमासादिकं बहुग्रन्थजातमधीतं
तथाऽपि महाव्रताध्ययनमकृत्वा तत्स्नानं न कुर्यात् ।
अधीतस्य महाव्रतग्रन्थस्य विस्मृतिं निषेधति—
नास्मादधीतात्प्रमाद्येद्यद्यप्यन्यस्मात्प्रमाद्येन्नैवास्मात्प्रमाद्येत, इति ।
प्रज्ञामान्द्यादिदोषेण यद्यप्यन्यस्माद्दर्शपूर्णमासादिग्रन्थात्प्रमाद्येद्ग्रन्थविस्मृतिं प्राप्नु-
यात्तथाऽपि प्रयत्नेन पुनः पुनरावृत्त्याऽस्मान्महाव्रतग्रन्थान्नैव प्रमाद्येत् ।
अत्र केचिदिदं वाक्यान्तरमपि पठन्ति—
नो एवास्मात्प्रमाद्येत् , इति ।
आदरातिशयार्थं तद्वाक्यं द्रष्टव्यम् ।
मन्दप्रज्ञस्य वेदभागविस्मृतिदोषोऽप्येताद्विस्मृत्यभावेन परिह्रियत इति दर्शयति—
अस्माच्चेन्न प्रमाद्येदलमात्मन इति विद्यात् , इति ।