भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 296, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 296

अध्या०३ख०३(१४)] ऐतरेयारण्यकम् । २९१

तस्मिन्नेव गोपने मतान्तरमाह—

एक एकस्मै प्रब्रूयादिति ह स्माऽऽह जातूकर्ण्यः, इति ।

जातूकर्ण्यनामकस्तु मुनिर्द्विरध्यापनं न सहते । एकस्मिन्नध्यापने शिष्यबाहुल्यं न सहते, किं तु संप्रदायविच्छेद निवारणार्थमेक आचार्य एकस्मै शिष्याय ब्रूयादित्येतावदेवाभ्युपगच्छति ।

शिष्याणां चाल्पवार्धक्ययोर्वयसोस्तदध्यापनं निषेधति—

न वत्से च. न तृतीय इति, इति ।

इतिशब्दः शिष्यप्रयुक्तनिषेधसमाप्त्यर्थः ।
शिष्याचार्ययोभयप्रयुक्तान्निषेधान्दर्शयति—

न तिष्ठंस्तिष्ठते न व्रजन्व्रजते न शयानः
शयानाय नोपर्यासीन उपर्यासीना-
याथ एवाऽऽसीनोऽध आसीनाय, इति ।

तिष्ठन्नाचार्यस्तिष्ठते शिष्याय न ब्रूयात् । एवमुत्तरत्रापि द्रष्टव्यम् । उपरि मञ्चकादौ । आचार्यः स्वयमध एव भूमावेवाऽऽसीनो भूमिष्ठायैव ब्रूयात् ।

पुनरपि शिष्यनियमान्दर्शयति—

नावष्टब्धो न प्रतिस्तब्धो नातिवीतो नाङ्कं कृत्वो-
र्ध्वञ्कुरनपश्रितोऽधीयीत न मांसं भुक्त्वा न
लोहितं दृष्ट्वा न गतासुं नात्रत्यमाक्रम्य नाक्त्वा
नाभ्यज्य नोन्मर्दनं कारयित्वा न नापितेन कार-
यित्वा न स्नात्वा न वर्णकेनानुलिप्य न स्रजमपि-
नह्य न स्त्रियमुपगम्य नोल्लिख्य नावलिख्य, इति ।

पृष्ठभागे कुड्याद्याश्रयणमवष्टम्भः । पुरोभागे हस्तयोर्दण्डाद्याधाराश्रयणं प्रतिस्तम्भनम् । वस्त्रेण सर्वाङ्गापिधानमतिवीति(त)त्वम् । पद्मासनादिकमङ्ककरणम् । एतत्सर्वं परित्यज्य जानुद्वयमूर्ध्वं कृत्वा योगपट्टवस्त्राद्याश्रयरहितो ग्रन्थमधीयीत । मांसभोजनलोहितदर्शनमृतप्राणिदर्शनोच्छिष्टाक्रमणनेत्राञ्जनदेहाभ्यङ्गशरीरमर्दननखनिकृन्तनाद्युष्णोदकस्नानचन्दनकुङ्कुमाद्यनुलेपनपुष्पमालाधारणस्त्रीसंगमलिप्यक्षराद्युल्लेखनावलेखनानि कृत्वा नाधीयीत ।

समाप्तौ मतभेदं दर्शयति—

नेदमेकस्मिन्नहनि समापयेदिति ह स्माऽऽह
जातूकर्ण्यः समापयेदिति गालवो यदन्यत्रा-