ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 295, कुल 304 में से
संदर्भ में पढ़ें२९० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [५पञ्चमारण्यके-
इदानीमध्यापननियमान्दर्शयति—
तदिदमहर्नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नो
एवासंवत्सरवासिने नाब्रह्मचारिणे नासब्रह्मचारिणे
नो एवासब्रह्मचारिणे नानभिप्रान्तायैतं देशम् , इति ।
अध्यापकस्य गुरोरन्ते समीपे वस्तुं शीलमस्येत्यन्तेवासी । तन्नियमाश्च स्मृतिषु दर्शिताः— “गुरुरनुगन्तव्योऽभिवाद्यश्च” इति गौतमस्मृतिः । “आहूतश्चाप्यधीयीत लब्धं चास्मै निवेदयेत्” इति याज्ञवल्क्यः । “अक्रोधनोऽनसूयः सर्वं लाभं चाऽऽहरन्गुरवे, सायं प्रातरमन्त्रेण भिक्षाचर्यं चरेद्भिक्षमाणोऽन्यत्रापपात्रेभ्योऽभशस्ताच्च” इत्यापस्तम्बः । एतैर्नियमैरुपतोऽन्तेवासी, तद्रहितोऽनन्तेवासी तादृशाय नियमरहिताय तदिदं महाव्रतप्रतिपादकं वाक्यं न ब्रूयात् । नियमवानपि य आचार्यसमीपे संवत्सरं शुश्रूषां कृत्वा न तिष्ठेत्तादृशायापि न ब्रूयात् । नियतिमवलोक्य दाक्षिण्येन संवत्सरवासाभावेऽपि कदाचित्स ग्रन्थः प्रोच्येत इत्याशङ्क्य नो एवेति पुनर्निषेधति । अष्टविधस्त्रीसङ्गरहितो ब्रह्मचारी ।
तथा च स्मर्यते—
“श्रवणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।
संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं वदन्ति ब्रह्मवादिनः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम्” इति ॥
तथाविधब्रह्मचर्यरहिताय न ब्रूयात् । उक्तविधैर्ब्रह्मचारिभिः सह वसतीति सब्रह्मचारी । यद्वैकस्मादाचार्यात्सहाध्येतारः सब्रह्मचारिणः । तद्विपरीतैः सह वसतीत्यसब्रह्मचारी, तादृशाय न ब्रूयात्। सहवासिनां ब्रह्मचर्याभावेऽपि तस्य ब्रह्मचर्यसद्भावमात्रेण योग्यतामाशङ्क्य “संसर्गजा दोषगुणा भवन्ति” इति न्यायेन स्वकीयब्रह्मचर्यस्यापि कथंचिच्छैथिल्यं संभवेदित्यभिप्रेत्य नो एवेति पुनर्निषेधति । आचार्यो यस्मिन्देशे निवसत्येतं देशमनभिप्रान्ताय न ब्रूयात् । धनदाक्षिण्यादिनिमित्तेन स्वयं तद्गृहे गत्वा न कथयेदित्यर्थः ।
बहुकृत्वोऽध्यापनं निषेधति—
न भूयः सकृद्गदनाद्विर्गदनाद्वा द्वय्येव, इति ।
एकस्मिन्पर्याये शिष्याणामध्यापनं सकृद्गदनम् । पर्यायद्वयेऽध्यापनं द्विर्गदनम् । ततो भूयो न प्रब्रूयात् । तृतीयचतुर्थादिपर्यायप्राप्ताञ्शिष्यान्नाध्यापयेत् । किं तु द्वय्येव द्विधैवाध्यापनप्रवृत्तिः कार्या न तु ततोऽधिका । अत्यन्तरहस्यत्वेन गोपनीयत्वात् ।
१ क. ख. घ. ङ. ॰भ्योऽतिशं । २ ग. कर्तव्या ।