भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 294, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 294

अध्या० ३ ख० ३(१४)] ऐतरेयारण्यकम् । २८९

अथ तृतीयः खण्डः । ( चतुर्दशः )

अथ महाव्रतशंसने नियमविशेषान्दर्शयति—

नादीक्षितो महाव्रतं शंसेन्नाग्नौ न परस्मै नासं- वत्सर इत्येके कामं पित्रे वाऽऽचार्याय वा शंसेदात्मनो हैवास्य तच्छस्तं भवति, इति ।

एकाहाहीनसतत्ररूपैस्त्रिविधो(धं) महाव्रत इ(तमि)त्युक्तम् । तत्र सत्ररूपे महाव्रते होतुरापे यजमानत्वात्सिद्धैव दीक्षा । एकाहाहीनयोस्तु होता न यजमानः, किं त्वन्य एव । स एव द्विविधः । स्वार्थेऽग्निष्टोमादौ दीक्षित एकः । सोमयागराहित्याददीक्षितोऽपरः । तयोर्मध्ये दीक्षित एकः परकीये महाव्रतकर्मणि शंसनं कुर्यात् । न त्वदीक्षितः । तच्च परकीयं महाव्रतं द्विविधं चित्याग्निसहितं तद्रहितं वा(च) । तयोर्मध्ये चित्याग्निसहिते महाव्रतप्रयोगे शंसनं मुख्यं न त्वनग्नौ चित्याग्निरहिते । परस्मै पित्राचार्यव्यतिरिक्तयजमानार्थं शंसनं न कुर्यात् । असंवत्सरे संवत्सरसत्रव्यतिरिक्ते क्रतौ क्वापि न शंसेदित्येकेषां पक्षः । पित्राचार्ययोः स्वस्मादन्यत्वेऽपि देहप्रदानेन विद्याप्रदानेन चोपकारित्वात्तयोरर्थे यच्छंसनं तत्स्वार्थमेव भवति । अतो न तत्र निषेधः ।

शंसने नियमानभिधाय ग्रन्थाध्यापने तदिदमित्यादिना नियमानभिधास्यति । अत्र केचिद्वाक्यान्तरमधीयते—

होत्रुशस्त्रेषूक्थशा यज सोमस्येत्येकः प्रैषः स नारांशंसेष्वनाराशंसेषु वा होत्रका- णामुक्थं⁺शा यज सोमानामिति, इति ।

तस्यैतस्याधिकस्य वाक्यस्यायमर्थः । यानि होतुः शस्त्राणि नाराशंसाख्यचमससहितानि तद्रहितानि च तेषु सर्वेष्वप्युक्थशा यज सोमस्येत्ययमेक एवाध्वर्योः प्रैषमन्त्रपाठः । होत्रकाणां शस्त्रेषूक्थशा यज सोमानामित्यध्याहृत्य बहुवचनान्तः प्रैषो द्रष्टव्यः । सोऽयमर्थः प्रकृतित एव प्राप्त इति मत्वा केचिदेतद्वाक्यं नाधीयते । अपरे त्वध्याहारं परित्यज्य सोमस्येत्येकवचनान्तमेव प्रैषमनुवर्त्य होत्रकाणां शस्त्रेषु विशेषविधानार्थमित्यभिप्रायेणैतद्वाक्यं पठन्ति ।


⁺ उक्थशा इत्यादिकमितीत्यन्तं मूलं भाष्यपुस्तकेषु नास्ति । केवलं मूलपुस्तकेषूपलभ्यते । एतच्च मूलं भाष्यकृन्मतेनाधिकम् ।
१ ग. 'चित्तद्वा' ।

३७