ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 293, कुल 304 में से
संदर्भ में पढ़ें२८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [५पञ्चमारण्यके-
रत्नाऽग्निं न स्ववृक्तिभिरिति तावतीरनुरूपः, इति ।
यज्ञायज्ञीयमित्येकं साम । इलान्दमित्यपरं साम । ते उभे सामनी महाव्रते छन्दोगैर्विकल्पेन प्रयुज्येते । तत्र यदा यज्ञायज्ञीयं प्रयुक्तं तदानीं बह्वृचैराग्निमारुतशस्त्रकृतिरेवं क्रियते । “ वैश्वानराय धिषणाम् ” [ ऋ० सं० म० ३ सू० २ ऋ० १ ] इत्येकं सूक्तम् । “ शं नः करति ” [ ऋ० सं० म० १ सू० ४३ ऋ० ६ ] इत्येका । “ प्रयज्यवः ” [ ऋ० सं० म० ५ सू० ५५ ऋ० १ ] इत्येकं सूक्तम् । “ यज्ञायज्ञा वः ” [ ऋ० सं० म० ६ सू० ४८ ऋ० १ ] इत्येकः प्रगाथः । “ देवो वः ” [ ऋ० सं० म० ७ सू० १७ ऋ० ११ ] इत्यपरः “ जातवेदसे ” [ ऋ० सं० म० १ सू० ९९ ऋ० १ ] इत्येका । “ आपो हि ष्ठा ” [ ऋ० सं० म० १० सू० ९ ऋ० १ ] इत्यादिः प्राकृतः शस्त्रशेष इति । यदा तु सामगैर्यज्ञायज्ञीयं साम परित्यज्य तस्य स्थाने इलान्दनामकं साम गीयते तस्मिन्पक्षे पूर्वोक्तं प्रगाथद्वयं परित्यज्य तस्य स्थाने “ अग्ने तव ” इत्यादयः षडृचः पठनीयाः । तत्राऽऽद्यस्तृचः स्तोत्रियः । “ इरज्यन् ” [ ऋ० सं० म० १० सू० १४० ऋ० ४ ] इत्यादिको द्वितीयस्तृचोऽनुरूपः । तत्रेलान्दं साम प्रथमतृचे गीयत इत्येकः पक्षः । तृचद्वयेऽपि गीयत इत्यपरः पक्षः । एकतृचगानपक्षे स्तोत्रियानुरूपावृक्तौ । भूयसीषु तृचद्वयगतासु सर्वासूवृक्षु यदि सामगाः स्तुवीरंस्तदानीं स्तोत्रियाणामृचां षट्संख्योपेतत्वादनुरूपेऽपि “ आऽग्निं न स्ववृक्तिभिः ” [ ऋ० सं० म० १० सू० २१ ऋ० १ ] इत्याद्यास्तावतीः षट्संख्याका ऋचः शंसेत् । स एतावानाग्निमारुतशस्त्रे विशेषः ।
आरण्यकादौ य उपक्रान्तो महाव्रतप्रयोगस्तमिममुपसंहरति—
संपन्नं महाव्रतं संतिष्ठत इदमहराग्निष्टोमो यथा-
कालमवभृथं प्रेड्रं हरेयुः संदहेयुर्बृसीः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे पञ्चमारण्यके तृतीयाध्याये
द्वितीयः खण्डः ॥ २ ॥ (१३)
महाव्रतविषयं यद्धौत्रं तत्संपूर्णम् । इदं महाव्रताख्यमहश्च समाप्तम् । तच्चाहरग्निष्टोमसंस्यं तस्यावभृथकाले प्रेड्रं होमपात्रैः सह जलसमीपे हरेयुः । याश्च बृस्य इतरेषामासनार्थं निर्मितास्ताः सर्वा बृसीर्वेदिदहनकाले दहेयुः ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये
पञ्चमारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १३ )
आऽग्निं न स्ववृक्तिभिः०—ऋ० सं० म० १० सू० २१ ऋ० १ ।
१ ग. घ. ङ. ॰ब्दोष । २ ग. ॰तू । ए' ।