ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 33, कुल 304 में से
संदर्भ में पढ़ें२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
अत्र स्तोत्रियानुरूपयोः षडृचः । षट्सु प्रगाथेषु प्रथमानिष्पन्नोऽष्टा¹(ष्टा अष्टा)- दशर्चः । धाय्यास्तिस्रः । “असत्सु” [ऋ०सं०म०१०सू०२७ऋ०१] इति सूक्ते चतुर्विंशतिः । “पिबा सोमम्” (ऋ० सं० म० ६ सू० १७ ऋ० १ ) इत्यत्र पञ्च- दश । “कया शुभा” ( ऋ० सं० म० १ सू० १६९ ऋ० १) इत्यत्रापि पञ्च- दश । “मरुत्वाँ इन्द्र” [ ऋ० सं० म० ३ सू० ४७ ऋ० १ ] इत्यत्र पञ्च । “जनिष्ठा उग्रः” [ ऋ० सं० म० १० सू० ७३ ऋ० १ ] इत्यत्रैकादश । ताः सर्वा मिलित्वाऽऽवृत्तिरहितेन पाठेन सप्ताधिका नवतिर्भवन्ति । तत्र या ऋचो नव- तिसंख्याका[स्ता]स्त्रेधा विभक्ताः सत्यः प्रत्येकं त्रिंशत्संख्यायुक्ता विराजो भवन्ति । “त्रिंशदक्षरा विराट्” इति श्रुतेः । यादृशो विराजस्तिस्रः । अथ नवतिसंख्याया ऊर्ध्वं या ऋचः सप्तसंख्या अतियन्त्यतिरिच्यन्ते। एवं सति साप्तस्य सप्तत्वव्यतिरेकनि- मित्ता याः(या) प्रशस्तिरेषा तस्या एव [नवतेरेव?] न त्वन्तरेण [तां] प्रशंसा संपद्यते । सप्ताधिकनवतिरित्येवं व्यवह्रियमाणत्वात् ।
आवृतिविधानपूर्वकं कृत्स्नसंख्यां प्रशंसति— तास्त्रिः प्रथमया त्रिरुत्तमयैकशतं भवन्ति, इति । त्रिरावृत्त्या प्रथमया चोत्तमया सहिताः पूर्वोक्ता ऋच एकाधिकशतसंख्याकाः संपद्यन्ते ।
उक्तस्य प्राशस्त्यस्य सिद्धये पुरुषावयवसंख्यासाम्यं दर्शयति— पञ्चाङ्गुलयश्चतुष्पर्वा द्वे कक्षसी दोर्बाह्वक्षं- सफलकं च सा पञ्चविंशतिः पञ्चविंशानीत- राणि बह्वङ्गानि तच्छतमात्मैकशततमः, इति ।
एकस्मिन्हस्ते पञ्चसंख्याका अङ्गुलयः । एकैकस्याङ्गुलौ चत्वारि पर्वाणि । पर्व- शब्दो भागवाची । अग्रभागो मध्यभागो मूलभागस्तन्मूलभागश्चेति चत्वारो भागाः । यद्यप्यङ्गुष्ठे भागत्रयमेवोपलक्ष्यते तथाऽपीतरसामान्याय भागचतुष्टयं कृत्वा गणनी- यम् । एवं सत्यङ्गुलिगतपर्वसंख्या विंशतिः संपद्यते । कक्ष[:]शब्देन कक्षस्य पार्श्वद्वयं विवक्षितम् । ततः कक्षे द्विसंख्यासंपत्तिः । दोर्बाहूरेकः । एकोऽक्षश्चक्षुरिन्द्रियमे- कम् । अंसफलकमेकम् । एवं दक्षिणभागे पञ्चविंशतिः संपद्यते । एवं वामभाग- गतान्यङ्गान्यपि पञ्चविंशतिर्भवन्ति । मिलित्वा पञ्चाशत्संख्या संपन्ना । अनेनैव न्यायेन नाभेरधस्तादुभयोः पादयोरपि पञ्चाशत्संख्योन्नेया । दक्षिणपादे पूर्ववदङ्गुलि- पर्वसंख्या विंशतिरूरू जङ्घे द्वे संधयस्त्रय इत्येवं पञ्चविंशतिः । एवं वामपादेऽपि
¹ ग. घ. ॰त्रोद॰ ।