ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 37, कुल 304 में से
संदर्भ में पढ़ें३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
अथ चतुर्थः खण्डः । ( अष्टमः )
भूमिप्रेङ्खयोर्मध्ये व्यवधानस्येयत्तां निश्चेतुं पूर्वपक्षमुपन्यस्य निराचष्टे—
अरत्नमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै
स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति।
अरत्निः प्रादेशद्वयमात्रप्रमाणम् । भूमेरुपरि तावन्मात्रव्यवधाने प्रेङ्खः कार्यः । अन्तरिक्षादुपरि वर्तमानभोगहेतवो ये स्वर्गलोकास्ते प्रजापतेररत्निमात्रेण सदृशा भवन्ति, तत्प्रशस्तत्वादरत्नेरुपरि प्रेङ्खः स्थापनीय इति केचिदाहुः । त[त्त]स्मिन्प्रेङ्खे तन्मतं नाऽऽदरणीयम् ।
पुनरपि पूर्वपक्षत्वेन मतान्तरमुपन्यस्य दूषयति—
प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः
संमिता इति तत्तन्नाऽऽदृत्यम् , इति ।
प्राणवायवो हि देहस्यान्तर्हृदयादूर्ध्वं प्रादेशमात्रं संचरन्ति मुखाद्बहिरपि संचरतां प्रादेशमात्रेण संमिता भवन्ति । अन्यत्पूर्ववद्व्याख्येयम् ।
सिद्धान्तं दर्शयति—
मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता
सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति ।
एतावता मुष्टिपरिमितेन द्रव्येण मोदकदधूपूरिकादिरूपं सर्वमन्नाद्यं निष्पाद्यते, एतावता मुष्टिपरिमितेन ग्रासेन सर्वमन्नाद्यं मुखे प्राप्तं भवति, तस्मादन्नप्राप्त्यै मुष्टिमात्र एवोर्ध्वप्रदेशे प्रेङ्खो भवेत् ।
अथ प्रेङ्खारोहणे कंचित्पूर्वपक्षमुपन्यस्य दूषयति—
पुरस्तात्प्रत्यञ्चं प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति
पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यङ्ङधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति ।
होता स्वयं पूर्वस्यां दिश्यवस्थाय प्रत्यञ्चं पश्चिमदिश्यवस्थितं प्रेङ्खमधिरोहेदित्याहुः । तत्रेयमुपपत्तिः—य आदित्योऽस्ति स एष एतस्य रूपेण पुरस्तादवस्थाय पश्चिमारोहणरूपेण तपति । उदयादूर्ध्वमामध्याह्नं पश्चिमाभिमुखस्याऽऽदित्यस्याऽऽरोहदर्शनात् । अयमेवार्थः प्रसिद्धिवाचकेन हिशब्देनोत्तरवाक्ये स्पष्टीकृतः । तस्मात्पुरस्तादवस्थायाधिरोहेदिति, सोऽयं पूर्व पक्षो नाऽऽदरणीयः ।
पुनरप्यन्यं पूर्वपक्षमुपन्यस्य दूषयति—
तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति