ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
३२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
अथ चतुर्थः खण्डः । ( अष्टमः )
भूमिप्रेङ्खयोर्मध्ये व्यवधानस्येयत्तां निश्चेतुं पूर्वपक्षमुपन्यस्य निराचष्टे—
अरत्नमात्र उपरि भूमेः प्रेङ्खः स्यादित्याहुरेतावता वै
स्वर्गा लोकाः संमिता इति तत्तन्नाऽऽदृत्यम्, इति।
अरत्निः प्रादेशद्वयमात्रप्रमाणम् । भूमेरुपरि तावन्मात्रव्यवधाने प्रेङ्खः कार्यः । अन्तरिक्षादुपरि वर्तमानभोगहेतवो ये स्वर्गलोकास्ते प्रजापतेररत्निमात्रेण सदृशा भवन्ति, तत्प्रशस्तत्वादरत्नेरुपरि प्रेङ्खः स्थापनीय इति केचिदाहुः । त[त्त]स्मिन्प्रेङ्खे तन्मतं नाऽऽदरणीयम् ।
पुनरपि पूर्वपक्षत्वेन मतान्तरमुपन्यस्य दूषयति—
प्रादेशमात्रे स्यादित्याहुरेतावता वै प्राणाः
संमिता इति तत्तन्नाऽऽदृत्यम् , इति ।
प्राणवायवो हि देहस्यान्तर्हृदयादूर्ध्वं प्रादेशमात्रं संचरन्ति मुखाद्बहिरपि संचरतां प्रादेशमात्रेण संमिता भवन्ति । अन्यत्पूर्ववद्व्याख्येयम् ।
सिद्धान्तं दर्शयति—
मुष्टिमात्रे स्यादेतावता वै सर्वमन्नाद्यं क्रियत एतावता
सर्वमन्नाद्यमभिपन्नं तस्मान्मुष्टिमात्र एव स्यात्, इति ।
एतावता मुष्टिपरिमितेन द्रव्येण मोदकदधूपूरिकादिरूपं सर्वमन्नाद्यं निष्पाद्यते, एतावता मुष्टिपरिमितेन ग्रासेन सर्वमन्नाद्यं मुखे प्राप्तं भवति, तस्मादन्नप्राप्त्यै मुष्टिमात्र एवोर्ध्वप्रदेशे प्रेङ्खो भवेत् ।
अथ प्रेङ्खारोहणे कंचित्पूर्वपक्षमुपन्यस्य दूषयति—
पुरस्तात्प्रत्यञ्चं प्रेङ्खमधिरोहेदित्याहुरेतस्य रूपेण य एष तपति
पुरस्ताद्ध्येष इमाँल्लोकान्प्रत्यङ्ङधिरोहतीति तत्तन्नाऽऽदृत्यम्, इति ।
होता स्वयं पूर्वस्यां दिश्यवस्थाय प्रत्यञ्चं पश्चिमदिश्यवस्थितं प्रेङ्खमधिरोहेदित्याहुः । तत्रेयमुपपत्तिः—य आदित्योऽस्ति स एष एतस्य रूपेण पुरस्तादवस्थाय पश्चिमारोहणरूपेण तपति । उदयादूर्ध्वमामध्याह्नं पश्चिमाभिमुखस्याऽऽदित्यस्याऽऽरोहदर्शनात् । अयमेवार्थः प्रसिद्धिवाचकेन हिशब्देनोत्तरवाक्ये स्पष्टीकृतः । तस्मात्पुरस्तादवस्थायाधिरोहेदिति, सोऽयं पूर्व पक्षो नाऽऽदरणीयः ।
पुनरप्यन्यं पूर्वपक्षमुपन्यस्य दूषयति—
तिर्यञ्चमधिरोहेदित्याहुस्तिर्यञ्चं वा अश्वमधिरोहन्ति
अध्या० २ ख० ४ (८)] ऐतरेयारण्यकम् । ३३
तेनो सर्वान्कामानवामवामेति तत्तन्नाऽऽदृत्यम्, इति ।
पूर्वपश्चिमयोरायँततस्य* प्रेङ्खस्योत्तरदक्षिणविस्तारस्तिर्यक्त्वं तस्यान्यतरस्यां दिश्य- वस्थाय तिर्यक्त्वेनावस्थितं प्रेङ्खमधिरोहेदित्यन्य आहुः । तत्रेयमुपपत्तिः—अश्वस्य पार्श्वेऽवस्थाय तिर्यञ्चमश्वं जना अधिरोहन्ति । तेनो तेनैव तिर्यगधिरोहेण सर्वकाम- प्राप्तिरिति तेषामभिप्रायः । अयमपि पक्षो नाऽऽदरणीयः ।
सिद्धान्तिनां मतं दर्शयति—
अन्वश्वमधिरोहेदित्याहुरनूचीं वै नाव-
मधिरोहन्ति नौर्वैषा स्वर्ग्याणी यत्प्रेङ्ख
इति तस्मादन्वश्वमेवाधिरोहेत् , इति ।
प्रागग्रस्य प्रेङ्खस्य पश्चिमदिश्यवस्थाय प्रागाभिमुख्येनाऽऽरोहणमन्वगारोहणं तदेव कुर्यादिति सिद्धान्तिन आहुः । लोके नौर्यदा पश्चिमतीरेऽवस्थाय प्राचीनतीरं गच्छति तदानीं जना अपि पश्चिमतीरेऽवस्थाय प्राङ्मुखा अधिरोहन्ति । तदिदं नावोऽ- न्वगारोहणम् । प्रेङ्ख इति यदस्त्येषा स्वर्गप्रापिका नौरेव, तस्मादन्वगारोहणं युक्तमिति सिद्धान्तः ।
तस्मिन्नधिरोहणे कंचिद्विशेषं विधत्ते—
छुबुकेनोपस्पृशेच्छुको वै यं वृक्षमधिरोहति स उ
वयसामन्नादतम इति तस्माच्छुबुकेनोपस्पृशेत्, इति ।
छुबुकशब्देन मुखस्याधरफलकमुच्यते । तेन प्रेङ्खमुपस्पृशेत् । लोके हि शुक- नामकः पक्षी छुबुकस्पर्शनपुरःसरं वृक्षमधिरोहति । स तु शुकः पक्षिणां मध्येऽतिश- येनान्नादः, राजामात्यादयो विनोदार्थं शुकं रक्षन्तः क्षीरादिकं भोजयन्ति । तस्मादन्न- प्राप्त्यै तु च्छुबुकेनोपस्पृशेत् ।
यथा छुबुकस्पर्शनमेवमरत्निस्पर्शनं विधत्ते—
बाहुभ्यामधिरोहेदेवं श्येनो वयांस्यभिनिविशत एवं वृक्षं स
उ वयसां वीर्यवत्तम इति तस्माद्बाहुभ्यामधिरोहेत् , इति ।
बाहुशब्देनात्र कूर्परमारभ्याग्रभागोऽरत्निशब्दवाच्यो विवक्षितः । तथा च पञ्चमे पठ्यते—“पश्चार्धे फलकेऽरत्नी प्रतिष्ठापयति” [ ऐ० आ० ५ अ० १ ख० ४ ] [इति] । ताभ्यामरण्तिभ्यामधिरोहणं कुर्यात् । अनेनैव प्रकारेण श्येनो बलवान्पक्षी वयांस्य- न्यान्पक्षिणोऽभिलक्ष्य तद्दर्शनार्थं तेषां दुर्बलानां पक्षिणामुपर्यरत्निभ्यामुपस्पृश्योपविशति ।
* आयतस्येति पाठ्यम् ।
१ ख. ग. घ. 'न्ति । तेनै' ।
५
३४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
किंचानेनैव प्रकारेणारातन्स्पिर्शनपूर्वकं वृक्षमधिरोहति । यत्तु(स तु?)श्येनः पक्षिणां मध्येऽतिशयेन शक्तिमान् । यस्मादेवं श्येनसादृश्यं भवति तस्मादरत्नी प्रतिष्ठापयेत् । अरत्निस्थापनादूर्ध्वं प्रेङ्खमScreen(ारूढवतो) होतुरेकेन पादेन भूमिस्पर्शनं विधत्ते—
अस्यै पादं नोच्छिन्द्यान्नेदस्यै प्रतिष्ठाया उच्छिद्या इति, इति ।
अस्या भूमेः सकाशात्स्वकीयं दक्षिणं सव्यं वा पादमेकमुच्छिन्नं न कुर्यात्किंतु भूमौ पादं प्रतिष्ठापयेत् । नेदित्यव्ययसमूहः परिभयार्थे वर्तते । यद्यहं पादं भूमेर्वि- युक्तं कुर्यां तदानीं प्रतिष्ठास्वरूपाया अस्या भूमेः सकाशादहमेवोच्छिन्नो भूयासमित्य- भिप्रेत्य स्वकीयं भयं द्योतयन्भीतिपरिहाराय भूमिं स्पृष्ट्वैव तिष्ठेत् ।
होतुरुद्गातृश्चाऽऽरोहणस्थानव्यवस्थां विधाय प्रशंसति—
प्रेङ्खं होताऽधिरोहल्यौदुम्बरीमासन्दीमुद्गाता
वृषा वै प्रेङ्खो योषाऽऽसन्दी तन्मिथुनं मिथु-
नमेव तदुक्थमुखे करोति प्रजात्यै, इति ।
मञ्चकवच्चतुष्पदोन्नताऽऽसन्दी । होत्रा समारूढः प्रेङ्खः पुँल्लिङ्गशब्देनाभिधाना- द्वृषा रेतःसेचनसमर्थः पुमान् । आसन्दी तु स्त्रीलिङ्गनिर्देशाद्योषा । तदुभयं मिलित्वा मिथुनं संपद्यते । तत्तेनोभयावरोहणेनोक्थमुखे निष्केवल्यशस्त्रस्य प्रारम्भ मिथुनमेव संपादयति । तच्च प्रजोत्पत्त्यै भवति ।
एतद्वेदनं प्रशंसति—
प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।
प्रकारान्तरेणोभयं प्रशंसति—
अथान्नं वै प्रेङ्खः श्रीरासन्द्यन्नं चैव
तच्छ्रियं चान्वधिरोहतः , इति ।
पूर्वोक्तमिथुनरूपत्वप्रशंसया सह समुच्चयार्थोऽथशब्दः । प्रेङ्खस्यौदुम्बरत्वादन्नरूपत्वं तच्च फलकविधाने प्रतिपादितम् । श्रियं प्राप्ता राजादय उच्चासनमधिरोहन्ति । अतः श्रीरासन्दी । तदुभयमन्नश्रीरूपमेतावुभावानुक्रमेणाधिरोहतः । तदेतदुभयं यजुर्वेदे आम्नातम्—" आसन्दीमुद्गाताऽऽरोहति साम्राज्यमेव गच्छन्ति प्रेङ्खं होता नाकस्यैव पृष्ठं रोहन्ति " इति ।
इतरेषामासनानि विधत्ते—
बृसीर्होतृकाः समधिरोहन्ति सब्रह्मकाः, इति ।
तृणविशेषवंशशकलादिविनिर्मिता आसनविशेषा बृस्यः कूर्चशब्दाभिधेयाः । अत एव पञ्चमे वक्ष्यते—"कूर्चान्होत्रकाः समारोहन्ति ब्रह्मा च"
अध्या०२ख०४(८)] ऐतरेयारण्यकम् । ३५
. अ० १ ख० ४ ] इति। प्रशास्ता ब्राह्मणाच्छंसी पोता नेष्टाऽऽग्नीध्रोऽच्छावाकश्चेत्येते होत्रकास्ते च ब्रह्मणा सहिता बृसीरधिरोहेयुः । तदधिरोहणं प्रशंसति—
समुत्सृप्य वा ओषधिवनस्पतयः फलं गृह्णन्ति तद्य- देतस्मिन्नहनि सर्वशः समधिरोहन्तीषमेव तदू- र्जमन्नाद्यमधिरोहन्त्यूर्जोऽन्नाद्यस्यावरुद्ध्यै, इति ।
ओषधयो ब्राहीधवाद्या वनस्पतयः पनसोदुम्बराद्यास्ते च सर्वे समुत्सृप्य सम्य- गुन्नता भूत्वा पश्चात्फलन्ति । तत्तथा सति यद्येतस्मिन्महाव्रतनामकेऽह्नि सर्वे ब्रह्मादय आसनान्यधिरोहेयुस्तत्तेनाधिरोहणेनेषमन्नमूर्जं तद्रसमन्नाद्यं भक्षणयोग्यप्रशस्तान्नं चाधिरूढा भवन्ति । तस्मात्क्षीरादिरसस्य शाल्याद्यन्नस्य च प्राप्त्यै तदधिरो- हणं संपद्यते । यद्यप्यवरोहस्य नायं कालस्तथाऽप्यारोहणप्रसङ्गाद्बुद्धिस्थावरोहणं विधातुं कंचि- त्पूर्वपक्षमुपन्यस्य दूषयति—
वषट्कृत्यावरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामपश्यते करोति, इति ।
होता वषट्शब्दमुच्चार्यानन्तरमेव प्रेङ्खादवरोहेदिति केचिदाहुस्तन्मतं नाऽऽद- रणीयम् । कुतः । भक्षस्यापचित्यर्थं हि प्रेङ्खादवरोहणं सा वा(चा)पचितिः पूजनीये भक्षे समागत्य निरीक्षमाणे सति कर्तव्या । यद्यप्यपश्यते भक्षस्यापचितिः क्रियेत तदा- नीमियमकृतैव स्यान्नहि वषट्कारानन्तर्यं भक्ष्यागमनस्यावसरस्तस्यानुवषट्कारादूर्ध्व- भावित्वात् । पुनरप्यन्यं पक्षमुपन्यस्य दूषयति—
निगृह्य भक्षमवरोहेदित्याहुस्तत्तन्नाऽऽदृत्यमकृता वै साऽपचितिर्यामभ्युत्थाय करोति, इति ।
निगृह्य नितरां हस्ते गृहीत्वा पश्चादवरोहणमित्येतदपि मतं नाऽऽदरणीयम् । अवरोहलक्षणोपचारकालस्यातिक्रान्तत्वात् । अभ्युत्थायाविकृतेन समीप¹ प्राप्ताय याऽ- पचितिः सेयं कृताऽपि कालातिक्रमादकृतैव भवेत् । सिद्धान्तं दर्शयति—
प्रतिख्याय भक्षमवरोहेदेषा वा अपचितिर्यां पश्यते करोति तस्मात्प्रतिख्यायैव भक्षमवरोहेत्, इति ।
. १ ख. ॰मीपप्रा॰ ।
३६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
प्रतिरूपायाऽऽगच्छन्तं भक्षं दृष्ट्वा तदानीमेव तस्मिन्भक्षे पश्यति सति येयमवरो- हणरूपाऽपचितिः सा मुख्या पूजा । लोकेऽपि हि शिष्टा आचार्यादीनामागमनात्प्रा- गपि स्वासनान्नोत्तिष्ठन्ति । तेष्वागत्योपविष्टेषु पश्चादपि नोत्तिष्ठन्ति । किं तर्हि यावता देशव्यवधानेन ते पश्यन्ति तावति देशे तद्दृष्टिपातकाल एव सहसोत्तिष्ठन्ति, तस्मा- त्प्रत्यक्षं(क्षं) प्रतिरूपायावरोहेदित्येष एव सिद्धान्तः ।
तस्मिन्नवरोहे कंचिन्नियमं विधत्ते—
प्राङवरोहेन्प्राग्वै देवरेत[:?] संप्रजायते तस्मात्प्राङ्वरोहेदवरोहेत् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( ८ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयोऽध्यायः ॥ २ ॥
पश्चिमदिशि समारूढो होता स्वयं प्राङ्मुखः सन्प्राच्यां दिश्यवरोहेत् । प्राग्वै प्राच्या- मेव दिशि देवानामिन्द्रादीनां रेतः पुत्रादिरूपेणोत्पद्यते । देवलोकस्य पूर्वदिग्वर्ति- त्वात् । तस्माद्देवत्वाय प्राङेवावरोहेन्न तु प्रत्यङ् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( ८ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यकभाष्ये प्रथमारण्यके द्वितीयोऽध्यायः ॥ २ ॥
अथ प्रथमारण्यके तृतीयोऽध्यायः ।
तत्र प्रथमः खण्डः । (नवमः)
पूर्वाध्याये निष्केवल्यशस्त्रप्रशंसनार्थं पूर्वाधिरोहणमुक्तम् । अतस्तच्छंसनं विवि- च्यते । तत्राऽऽदौ पक्षिणामित्येतस्य शब्दस्योच्चारणं विधत्ते—
हिङ्कारेणैतदहः प्रतिपद्येतेत्याहुः, इति ।
अहःशब्देनात्र तदीयं शस्त्रमुपलक्ष्यते । तच्च हिंकारेण प्रारभेतेत्येवमभिज्ञा आहुः । यद्ययं हिंकारशब्दश्चोदकेनैव प्राप्तस्तह्यर्थवादसंबन्धार्थं तद्विध्यनुवाद इति द्रष्टव्यम् । एवमन्यत्राप्राप्तो विधिः प्राप्तस्य प्रशंसार्थमनुवादः ।
१ ग. घ. अत्र तच्छं ।
अध्या० १ ख० १ ( ९ ) ] ऐतरेयारण्यकम् । १७
हिंकारवेदनं प्रशंसति—
ब्रह्म वै हिंकारो ब्रह्मैव तदहर्ब्रह्मणैव
तद्ब्रह्म प्रतिपद्यते य एवं वेद, इति ।
हिंकारस्याह्नश्च ब्रह्मप्राप्तिहेतुत्वाद्व्रह्मत्वम् । अतो ब्रह्मरूपेणैव हिंकारेणैतद्ब्रह्मरू- पमहः प्राप्नोति ।
पुनरपि हिंकारं प्रशंसति—
यदेव हिंकारेण प्रतिपद्यता३इ वृषा वै हिंकारो
योषर्क्तन्मिथुनं मिथुनमेव तदुक्तमुखे करोति
प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।
आ(अ)कारः प्लुत इकारश्चेत्येतदुभयं प्रतिपद्यत इत्येकारस्य स्थाने विहितम् । आद- रातिशयद्योतनार्थं प्लुतिः । हिंकारेण शस्त्रं प्रारभ्यत इति यदस्ति तत्र हिंकारस्य पुंलि- ङ्गशब्देन निर्देशादृचश्च स्त्रीलिङ्गशब्देन व्यवहारादुभयं मिलित्वा मिथुनं संपद्यते । मिथुनमेवेत्यादि पूर्ववद्व्याख्येयम् ।
पुनः प्रकारान्तरेण प्रशंसति—
यद्वेव हिंकारेण प्रतिपद्यता३इ यथा वा
अभ्रिरेवं ब्रह्मणो हिंकारो यद्वै किंचाभ्रि-
याऽभितितृत्सत्यभ्यैवेनत्तृणत्त्येवम् , इति ।
यदुशब्दोऽपि चेत्यस्मिन्नर्थे वर्तते । स च पूर्वप्रशंसया समुच्चयार्थः । हिंकारेणैव प्रारभ्यत इति यदस्ति तत्र यथैव लोकेऽभ्रिः खननहेतुः काष्ठविशेष एवं ब्रह्मणो वेदस्य हिंकारो वेदसारस्य निधिस्थानीयस्य खननहेतुः । एवं च सति लोके यदेव किंचित्कठिनं भूतलमभ्रिया खननसाधनभूतयाऽभितितृत्सति सर्वतस्तर्दितुं खनितुमि- च्छति स पुमानेतत्कठिनं भूतलमभितृणत्त्येव सर्वथा खनत्येवमयं होता वेदे दुर्लभं लभत इत्यर्थः ।
हिंकारवेदनं प्रशंसति—
यं कामं कामयते हिंकारेणाभ्यैवेनं तृणत्ति य एवं वेद, इति ।
पुनरपि प्रकारान्तरेण हिंकारं प्रशंसति—
यद्वेव हिंकारेण प्रतिपद्यता३इ वाचो वा एषा व्याव्रुत्ति-
र्देव्यै च मानुष्यै च यद्धिंकारः स यद्धिंकृत्य प्रतिपद्यते
वाचमेव तद्व्यावर्तयति दैवीं च मानुषीं च , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
प्रथमः खण्डः ॥ १ ॥ ( ९ )
३८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
स्तोत्रशस्त्रादिरूपा वैदिकी वाग्दैवी । अशनाच्छादनादिविषया लौकिकी वाङ्मानुषी । एवं सति हिंकार इति यदस्ति सैषा द्विविधाया वाचः परस्परव्यावृत्तिहेतुः । दैव्या वाचा हिंकारः प्रयुज्यते न तु मानुष्या तदेतद्धिंकारस्य व्यावर्तकत्वम् । अतो यदि हिंकृत्य शस्त्रं प्रारभेत तदानीमयं होता द्विविधामपि वाचं परस्परव्यावृत्तां करोति ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये प्रथमः खण्डः ॥ १ ॥ ( ९ )
अथ द्वितीयः खण्डः । ( दशमः )
शस्त्रप्रारम्भकाले मनोवाचोरत्यन्तसाधनत्वमभिप्रेत्य प्रश्नोत्तराभ्यां तदुभयं प्रशंसति —
तदाहुः कैतस्याह्नः प्रतिपदिति मनश्च वाक्चेति ब्रूयात्, इति ।
अह्रुपलक्षितस्यैवास्य शस्त्रस्य का प्रतिपत्किं प्रारम्भसाधनमिति तदाहुस्तस्मिन्शस्त्रे जिज्ञासवः पृच्छन्ति । तत्र मनश्चेत्यभिक्षुश्चो(स्यो)त्तरम् । मनश्च वाक्चेत्येतदुभयं प्रारम्भसाधनमित्युत्तरं ब्रूयात् । अप्रमत्तेन मनसा प्रथमं शस्त्रं पर्यालोच्य पश्चादप्रमत्तया वाचा शंसेदित्यर्थः । निष्केवल्यस्य बहुविधविप्रकीर्णमन्त्रसमुदायरूपत्वाद्वाङ्मनसयोरत्र विशेषेणाप्रमत्तत्वाभिधानम् ।
मनश्च वाक्चेत्यनयोः पृथगुपयोगं दर्शयति—
सर्वेऽन्यस्मिन्कामाः श्रिताः सर्वानन्यान्कामान्दुहे, इति ।
तयोरुभयोर्मध्ये यदन्यन्मनःशब्दवाच्यं तस्मिन्सर्वे कामाः श्रिताः प्राप्ताः । या त्वन्या वागस्ति सा सर्वान्कामान्दुहे दुग्धे संपादयति ।
मनसः कामाधारत्वं विशदयति—
मनसि वै सर्वे कामाः श्रिता मनसा
हि सर्वान्कामान्ध्यायति, इति ।
कामा अभिलाषा मनोवृत्तिविशेषत्वान्मनस्येवावताऽपि(स्थिताः?) । अत एव सर्वे लोकाः काम्यमानानपदार्थान्मनसा ध्यायन्ति ।
एतद्वेदनं प्रशंसति—
सर्वे हास्मिन्कामाः श्रयन्ते य एवं वेद, इति ।
वाचः कर्मसंपादकत्वं विशदयति—
वाग्वै सर्वान्कामान्दुहे वाचा हि सर्वान्कामान्वदति, इति ।
. १ क. ख. ॰स्येताव॰ ।
अध्या० ३ ख० ३ (११)] ऐतरेयारण्यकम् । ३९
वागेव सर्वानभिलषितान्पदार्थान्संपादसति। यस्माल्लोके ममैते पदार्थाः सन्विति दातृणामग्रे वाचा याचते ते च दातारः प्रयच्छन्ति तदिदं वाचः कामसंपादकत्वम् ।
वेदनं प्रशंसति— सर्वान्हास्मै कामान्वाग्दुहे य एवं वेद, इति ।
वाङ्मनसयोरप्रमत्तत्वं विधाय हिंकारादूर्ध्वं व्याहृतित्रयोच्चारणं विधातुं प्रस्तौति— तदाहुर्नैतदहर्कचा न यजुषा न साम्ना प्रत्यक्षात्मति- पद्येत नर्चो न यजुषो न साम्न इयादिति, इति ।
अयं कर्मविशेष ऋगादिभ्यो नेयान्नापगच्छेदित्यभिप्रेत्य तदेतदहः प्रत्यक्षादव्य-वधानादृगादिभिर्न प्रारभेतेत्येव तदाहुः, तस्मिञ्शस्त्रेऽभिज्ञाः कथयन्ति ।
तदव्यवधानं वारयितुं व्यवधानहेतुमन्त्रं विधत्ते— तदेता व्याहृतीः पुरस्ताज्जपेत्, इति ।
यस्माद्धिंकारस्यर्गादीनां च मध्ये व्यवधानमपेक्षितं तस्मादृगादिभ्यः पुरस्तादेता एव वक्ष्यमाणा व्याहृतीर्जपेत् ।
व्याहृतीनां स्वरूपं तत्प्रशंसां च दर्शयति— भूर्भुवः स्वरित्येता वाव व्याहृतय इमे त्रयो वेदा भूरित्येव ऋग्वेदो भुव इति यजुर्वेदः स्वरिति सामवेदस्तन्नर्चा न यजूषा न साम्ना प्रत्यक्षा- त्मतिपद्यते नर्चो न यजुषो न साम्न एति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १० )
भूरित्यादिमन्त्रत्रयरूपा एव व्याहृतयः । इमे च मन्त्रा वेदत्रयप्रतिनिधिरूपाः । स एवार्थो भूरित्येवेत्यादिना स्पष्टी क्रियते । तत्तथा सति व्याहृतीनां मध्ये प्रयोगा-दृगादिभिरव्यवधानात्प्रारम्भो न भवति तस्मादृगादिभ्यो नापगच्छति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-भाष्ये प्रथमारण्यके तृतीयाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १० )
अथ तृतीयः खण्डः । ( एकादशः )
निष्केवल्यशस्त्रस्याऽऽदौ हिंकारं व्याहृतीश्च विधाय “तदिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्यादिसूक्तस्याऽऽदौ यस्तच्छब्दस्तमेनं(तं) प्रशंसति—
तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिमतिपद्यते, इति ।
४० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् — [१प्रथमारण्यके-
तदित्यनेन शब्देन शस्त्रं प्रतिपद्यते । लोके हि देशान्तरे कालान्तरे च यदप्यन्नं समीचीनं भुक्तं तत्सर्वमन्नं पुनः पुनस्तत्तदित्येवमनुस्मर्यते । अतोऽत्रापि तच्छब्दोपक्र- मेणान्नेमेवाभिलक्ष्य प्रारब्धवान्भवति । प्रकारान्तरेण तच्छब्दं प्रशंसति— एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदेकाक्षरम्यक्षरां ततेति तातेति *तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरम्य- क्षरां ततेति तातेति तयैव तत्ततवत्या वाचा प्रतिपद्यते, इति । पुरा प्रजापतिर्जगत्सृष्टेतामेव तकारादिकां प्रथमां वाचमुक्तवान् । कीदृशीं वाचम् । एकाक्षरद्वयक्षराम् । एकेन ह्रस्वेनोपेतैकाक्षरा । द्वाभ्यां ह्रस्वदीर्घाभ्यामुपेता द्व्यक्षरा । सैवोभयविधोदाहृत्य प्रदर्श्यते । ततेत्येकाक्षरा । तातेति द्व्यक्षरा । स प्रजा- पतिर्जगदीश्वरः प्रथमतः सृष्टं हिरण्यगर्भं पुत्रमभिलक्ष्योपात्तयोस्तस्मिन्नयथोक्तं पितृवा- चकं शब्दद्वयं प्रयुक्तवान् । अत एवेदानींतना अपि स्तनंधयं पुत्रं पितृवाचकशब्दे- नोपलालयन्ति । यद्वा प्रजापतिर्हिरण्यगर्भः प्रथमं भाषामभ्यस्यत्त(स्यंस्त)तेति वा तातेति वा वाचं व्याहरति । एवं सति सूक्तादौ तच्छब्दं प्रयुञ्जानो होता ततशब्दो- पेतया प्रजापतिप्रयुक्तया तयैव [प्रारब्धवान्भवति ] । ईषद्वैलक्षण्येऽपि तच्छब्दस्य तत- शब्दोपक्रमसाम्यात् । (+यथोक्तस्य तच्छब्दस्योपक्रमसाम्यात् ।) यथोक्तस्य तच्छब्दस्य महिमानं प्रकाशयितुं कांचिदृचमुदाहरति— तदुक्तमृषिणा, इति । यत्पूर्वेण ब्राह्मणवाक्येन तच्छब्दमाहात्म्यमुदितं तदेवर्षिणाऽतीन्द्रियार्थदर्शिना मन्त्रेणोक्तम् । स च मन्त्रविशेषोऽत्रैव दाशतय्यामेवमाम्नातः— “ बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः । यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाऽऽविः ” (ऋ० सं० म० १० सू० ७१ ऋ० १) इति । तस्य मन्त्रविशेषस्यायमर्थः—हे बृहस्पते जातस्य पुत्रस्य नामधेयं दधानाः पित्रा- दयो विचार्यैतरस्या वाचोऽग्रं श्रेष्ठं यत्पदं प्रथमं प्रैरत प्रयुक्तवन्तः । हे कुमार त्वं विष्णुशर्मा रुद्रशर्माऽसीत्येवमादि दक्षिणकर्णे पठन्ति । यन्नामैषां तदीयबन्धुभिर्व्यवहि- यमाणानां मध्ये श्रेष्ठं “ द्वयक्षरं चतुरक्षरं वा ” इत्यादिशाखीयलक्षणोपेतमासीद्यन्ना- मारिप्रं पापरहितं लोकशास्त्रविरोधरहितमासीत् । एषां संभावितानां मध्ये यन्नामधेयं यद्यथा प्रोक्तं नाम प्रेणा प्रेम्णा बृहस्पतिसंबन्धिना स्नेहेन च[नि]हितं संपादितम्,
* अत्र घ. पुस्तकातिरिक्तैषु भाष्यपुस्तकेषु यथैवेति पाठो वर्तते । + एतच्चिह्नान्तर्गतमधिकं सर्वेषु पुस्तकेषु ।
अध्या० ३ ख० ३ (११)] ऐतरेयारण्यकम् । ४१
तच्च नाम कीदृशम् । गुहा गूढमुपनयनात्पूर्वं मातापितृभ्यां गोपितम् । तथा चाऽऽश्वला- यनः—" तन्मातापितरौ विद्यातामोपनयनात् " इति । यथा मनुष्येषु यन्नाम गूढं तथा देवेष्वाविः प्रकटम् । देवा हि सर्वज्ञत्वादगूढमपि जानन्ति ।
एतस्य मन्त्रस्य प्रथमपादमनूद्य व्याचष्टे— बृहस्पते प्रथमं वाचो अग्रमित्येतद्ध्येव प्रथमं वाचो अग्रम्, इति ।
प्राथमिकनामधेयस्य विचार्य निर्मितत्वादितरवाचामपेक्षया श्रेष्ठार्थत(ता)द्योतनार्थो हिशब्दः ।
द्वितीयपादमनूद्य व्याचष्टे— यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते, इति ।
यस्मान्नामधेयानां वाङ्निष्पाद्यत्वं तस्मादुच्चारणवाचिनः प्रैरतेति शब्दस्य प्रयोगो युक्त इत्यर्थः ।
तृतीयपादमनूद्य व्याचष्टे— यदेषां श्रेष्ठं यदरिप्रमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रम्, इति ।
विचार्य संपादितस्य नाम्नो लक्षणोपेतत्वं विरोधराहित्यं च प्रसिद्धम् ।
चतुर्थपादमनूद्य व्याचष्टे— प्रेणा तदेषां निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद उ आविराधिदैवतमित्येतत्तदुक्तं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ (११)
आत्मानं लोकप्रसिद्धं देहेन्द्रियादिसंघातमधिकृत्य वर्तत इत्यध्यात्मं तस्मिन्देहा- दिसंघात आस्थिता इमा अग्न्यादिदेवताः, " अग्निर्वाग्भूत्वा मुखं प्राविशद्वायुः प्राणो भूत्वा नासिके प्राविशत् " [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिश्रुतेः । तासां देवतानामस्मच्छरीरे गूढं यत्स्वरूपमिदमेवात्र गुहेत्युच्यते । शरीरमध्ये गुहा देवा एवैतन्नाम जानन्ति न मनुष्या इति गुहाशब्दस्य तात्पर्यम् । दैवतानि स्वर्गलोकनिवा-
बृहस्पते प्रथमं वाचो अग्रम्०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यत्प्रैरत नामधेयं गुहाऽऽ०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यदेषां श्रेष्ठं यदरि- प्रमासीत्०—ऋ० सं० म० १० सू० ७१ ऋ० १ । प्रेणा तदेषां निहितं गुहाऽऽ०—ऋ० सं० म० १० सू० ७१ ऋ० १ ।
१ ख. ग. घ. 'र्थयो' ।
६
४२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
सीन्यधिकृत्य वर्तत इत्यधिदैवतम्। +स्वर्गनिवासिषु देवेषु प्रसिद्धं यन्नामादं उ एत- देव प्रकटमित्युच्यते। इत्येतदभिप्रायद्वयं तत्तेन चतुर्थपादेनोक्तं भवति। अस्मिन्मन्त्रे प्राथमिकनाम्नः प्राशस्त्यं प्रतीयते । प्राथमिकं च तद्यत्तदिदासेति सूक्तादावपि तकारः प्रयुक्तस्तस्मात्सूक्तं प्रशस्तमित्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये तृतीयः खण्डः ॥ ३ ॥ ( ११ )
अथ चतुर्थः खण्डः । ( द्वादशः )
इत्थं महता प्रबन्धेन सूक्तादिस्तच्छब्दः प्रशस्तः । अथ सूक्तादौ यस्तृचो राज- नसाम्नः “स्तोत्रियो राजनस्तोत्रियेण प्रतिपद्यते” [ ऐ० आ० १ अ० १ ख० ५ ] इति पञ्चमे वक्ष्यमाणत्वात्तमिमं तृचं क्रमेण व्याचिख्यासुरादौ प्रथमाया ऋचः प्रथमं पादं “तदिदास” इत्यादिनाऽनुवदति । सेयमृग्दशतय्यामेवमाम्नाता—
“तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेष नृम्णः।
सद्यो जज्ञानो निरिणाति शत्रूननु यं विश्वे मदन्त्यूमाः” इति ।
[ ऋ० सं० म० १० सू० १२० ऋ० १ ]
भुवनेषु पृथिव्यादिषु मध्ये तदित्सर्ववेदप्रसिद्धं जगत्कारणं ब्रह्म ज्येष्ठमासातिशयेन वृद्धं बभूव कारणत्वेन जगतः पूर्वं विद्यमानत्वात् । यतो यस्मात्कारणाद्ब्रह्मणस्त्वेष नृम्णः प्रदीप्तानल उग्रः स्वभावतोऽग्निर्जज्ञे समुत्पन्नः । सोऽग्निर्जज्ञान उत्पन्न एव सन्सद्यस्तदानीमेव शत्रून्निरिणाति निराकरोति । अवन्तीत्यूमा रक्षका विश्वे सर्वे देवा- दयः प्राणिनो यमग्निं हृष्यन्तमनु स्वयमपिहृष्यन्ति, नोऽग्निर्नोत इति पूर्वत्रानुच्चयः ।
अस्या ऋचः प्रथमपादमनूद्य व्याचष्टे—
तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यत
एतद्वाव भुवनेषु ज्येष्ठम् , इति ।
तदित्यादिना शस्त्रं प्रारभेत । तच्छब्दोक्तस्य परब्रह्मण आदित्यमण्डलोपाधिकत्वेन दृश्यमानत्वादेतद्वावेत्युक्तम् ।
तदिदास भुव०—ऋ० सं० म० १० सू० १२० ऋ० १ ।
- अत्र ख. ग. पुस्तकयोर्बहिः शोधितः पाठोऽस्मच्छरीरेष्विति वर्तते ।
१ क. ॰म् । अस्मच्छरीरेषु । २ क. ॰द आविरेत॰ । ३ घ. ॰नुषंगः ।
द्वितीयपादार्थस्य हिशब्देन प्रसिद्धतां दर्शयति—
अध्या० ३ ख० ४(१२)] ऐतरेयारण्यकम् । ४३
द्वितीयपादार्थस्य हिशब्देन प्रसिद्धतां दर्शयति— यतो जज्ञ उग्रस्त्वेष नृम्ण इत्यतो ह्येष जात उग्रस्त्वेष नृम्णः, इति । तृतीयपादे शत्रून्निरिणातीति पदद्वयस्य पापविनाशपरत्वं दर्शयति — सद्यो जज्ञानो निरिणाति शत्रूनिति सद्यो ह्येष जातः पाप्मानमपाहत , इति । चतुर्थपादे विश्व उमा इत्यनेन पदद्वयेन सर्वप्राणिविवक्षां दर्शयति— अनु यं विश्वे मदन्त्यूमा इति भूतानि वै विश्व ऊमास्त एनमनु मदन्त्युदगादुदगादिति, इति । ब्रह्मरूपोपाधिभूत आदित्यो दिव्युदितवानग्निश्च भूमावुदितवान् । अतः सर्वव्यवहारसिद्धिरित्येवं प्राणिनां हर्षः ।
द्वितीयामृचं संहितायामेवमामनन्ति— “वावृधानः शवसा भूर्योजाः शत्रुर्दसाय भियसं दधाति । अव्यनच्च व्यनच्च सस्त्रि सं ते नवन्त प्रभृता मदेषु” इति । [ऋ० सं० म० १० सू० १२० ऋ २]
अयमादित्यमण्डलस्थः परमेश्वरो वह्नयुपाधिविशेषो(देवो) वा शवसा बलेन वावृधानोऽतिशयेन वर्धमानो भूर्योजाः प्रभूततेजोयुक्तो भवति । शत्रुः शत्रुशातयिता सन् दासायोपक्षयणीयाय वैरिणेऽतिभीतिं बाधां ते(च) संपादयन्ति(ति) । विशेषेणानिति चेष्टत व्यनत्प्राणोपेतं जङ्गममव्यनत्प्राणरहितं स्थावरं तदुभयमप्यग्निः [सस्त्रि] सूयते(शोधयति) । इति तवोदये सँति प्रभृताः संध्यावन्दनार्थं प्रकर्षेणोद्युक्तानि प्राणिजातानि मदेषु निमित्तभूतेषु संनवन्त सम्यगेव स्तुवन्तीत्येतस्या ऋचोऽर्थः ।
तत्र प्रथमपादे प्रतिपाद्ये मण्डले लक्ष्यमाण आदित्य इत्येतद्दर्शयति— वावृधानः शवसा भूर्योजा इत्येष वै वावृधानः शवसा भूर्योजा इति, इति ।
यतो जज्ञ उग्रः०—ऋ० सं० म० १० सू० १२० ऋ० १ । सद्यो जज्ञानो निरिणाति०—ऋ० सं० म० १० सू० १२० ऋ० १ । अनु यं विश्वे०—ऋ० सं० म० १० सू० १२० ऋ० १ । वावृधानः शवसा०—ऋ० सं० म० १० सू० १२० ऋ० २ ।
१ क. ग. घ. सहसा । २ ख. ग. घ. 'या वेरिणीतीदं भी' । ३ ख. ग. घ. सूर्योदये ते । ४ ख. घ. सन्ति । ५ ख. लब्धमभक्ष्यमान आं । ग. घ. लब्धमभशामान आं ।
तृतीयपादे स्थावरजङ्गमविवक्षां दर्शयति—
४४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
द्वितीयपादे सर्वं जगदेतस्मादादित्यमण्डलवर्तिनोऽन्तर्यामिणो भीतं बभूवेत्यमुमर्थं दर्शयति— शत्रुर्दासाय भियसं दधाति, इति । सर्वं जगदेतस्माद्बिभेति । तृतीयपादे स्थावरजङ्गमविवक्षां दर्शयति— अव्यनच्च व्यनच्च सस्नीति यच्च प्राणि यच्चाप्राणकमित्येव तदाह, इति । चतुर्थपादे सर्वस्य जगतः सूर्याधीनत्वलक्षणमभिप्रायं दर्शयति— सं ते नवन्त प्रभृता मदेष्विति तव सर्वं वश इत्येव तदाह, इति । तृतीयामृचं संहितायामेवमामनन्ति— "त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः । स्वादोः स्वादीयः स्वादुना सृजा समदः सुमधु मधुनाऽभियोधीः"इति । [ ऋ० सं० म० १० सू० १२० ऋ० ३ ]
अस्या [अ]यमर्थः । हे सूर्य विश्वे सर्वे प्राणिनः क्रतुमपि क्रियमाणं कर्मापि त्वे त्वयि वृञ्जन्ति समर्पयन्ति । न केवलं कर्म किं तु सर्वे प्राणिनस्तेषां च सर्वाणि मनांसि त्वय्येव समर्पयन्त इत्येवेमपिशब्दस्यार्थः । किंच यद्द्वौ पुरुषौ द्विः पूर्वं द्विसंख्योपेतौ भूत्वा पश्चादेते पुत्रेण सहितास्त्रिखिः(स्त्रि)संख्याकाः परस्पररक्षका भवन्ति । हे सूर्य स्वादोः स्वादीयः प्रीतिविषयाद्गृहक्षेत्रधनादेरप्यत्यन्तं प्रियमप्यपत्यं स्वादुनाऽपि रसातिप्रियहेतुना मातृ(ता)पितृरूपेण मिथुनेन संयोजय । स्वादीय इत्यनेन यदपत्यमुक्तं तदेवादःशब्देन परमुच्यते । तच्च पुत्ररूपमपत्यं स्नुषया सह मिथुनं भूत्वा सुष्ठु मधु प्रियं भवति । तादृशं मधु मधुना पौत्ररूपेण प्रियेण संयोज्याभियोधीः सर्वतः संपादय । धातूनामनेकार्थत्वाद्युधिधातुरत्र संपादने वर्तते ।
एतस्या ऋचः प्रथमं पादं व्याचष्टे— त्वे क्रतुमपि वृञ्जन्ति विश्व इति त्वयीमानि सर्वाणि भूतानि सर्वाणि मनांसि सर्वे क्रतवोऽपि वृञ्जन्तीत्येव तदाह, इति ।
शत्रुर्दासाय भियसं०—ऋ० सं० म० १० सू० १२० ऋ० २ । अव्यनच्च व्यनच्च०—ऋ० सं० म० १० सू० १२० ऋ० २ । सं ते नवन्त प्रभृता०—ऋ० सं० म० १० सू० १२० ऋ० २ । त्वे क्रतुमपि वृञ्जन्ति०—ऋ० सं० म० १० सू० १२० ऋ० ३ ।
१ ख. ॰स्येवं शं॰ । २ ग. घ. ॰व शं॰ । ३ ख. ग. घ. मानः षिं॰ ।
द्वितीयपादं व्याचष्टे—
अध्या० ३ ख० ४ (१२)] ऐतरेयारण्यकम् । ४५
अत्र क्रतुशब्दः प्राणिना(नां) मनसा(सां) चोपलक्षणेण(णेन) व्याख्यातः । द्वितीयपादं व्याचष्टे— द्विर्यदेते त्रिर्भवन्त्युमा इति द्वौ वै सन्तौ मिथुनौ प्रजायेते प्रजात्यै , इति । वेदनं प्रशंसति— प्रजायते प्रजया पशुभिर्य एवं वेद, इति । तृतीयपादं व्याचष्टे— स्वादोः स्वादीयः स्वादुना सृजा समिति मिथुनं वै स्वादु प्रजा स्वादु मिथुनेनैव तत्प्रजां संसृजति, इति । चतुर्थपादं व्याचष्टे— अदः सुमधु मधुनाऽभियोधीरिति मिथुनं वै मधु प्रजा मधु मिथुनेनैव तत्प्रजामभियुध्यति, इति । इत्थं सूत्रोक्तं स्तोत्रीयं तृचं व्याख्याय तदीयेऽर्थे संवादाय शाखान्तरीयमृक्पाद- मुदाहृत्य व्याचष्टे— तदुक्तमृषिणा स्वां यत्तन्नूं तन्वामैरयतेत्यस्यां शारीर्यामिमां छन्दोमयीमित्येव तदाह, इति । “स्वादोः स्वादीयः ” [ ऋ० सं० म० १० सू० १२० ऋ० ३ ] इत्यादिना पादद्वयेन मातापितृजन्यं शरीरं प्रकृतशस्त्रोपयुक्तं प्रतिपादितं यदस्ति तदेवमृषिणा स्वां यदिंत्यादिना मन्त्रभागेन(ण) प्रकटीकृतम् । यद्वा “तद्दिदास ” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकस्य कृत्स्नस्य शस्त्रस्य तात्पर्यं यदस्ति तत्सर्वमृषिणा मन्त्रपादेन संगृह्योक्तम् । स तु पाद एवं योजनीयः । यद्यस्मात्कार- णात्पूर्वोक्ततृचप्रतिपाद्य आदित्योपाधिक ईश्वरः स ❊स्वां तनूं यजमानरूपं शरीरं तदीयमातापितृरूपशरीर ऐरयत प्रेरितवांस्तस्मात्स्वादोः स्वादीय इत्यादिकमुपपन्नम् । अथवा तन्वां यजमानशरीरे स्वां तनूं स्वकीयां तदतिशयेत्यादिकानन्दरूपां तनूं
द्विर्यदेते त्रिर्भव०—ऋ० सं० म० १० सू० १२० ऋ० ३ । स्वादोः स्वादीयः स्वादुना०—ऋ० सं० म० १० सू० १२० ऋ० ३ । अदः सुमधु मधुना०— ऋ० सं० म० १० सू० १२० ऋ० ३ ।
* अत्र स्वां यत्तमूमित्येव पाठः सकलादर्शपुस्तकेषु ।
१ ग. घ. सूत्रान्तं । २ ख. ग. घ. ˚र्वोक्तं तृचं प्र˚ ।
४६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
यजमानसंस्कारकत्वेन यस्मात्संपादितवांस्तस्मादिदं निष्केवल्यशस्त्रं प्रशस्तम् । तदेतद्द्वितीयं व्याख्यानमस्यामित्यादिना ब्राह्मणेन स्पष्टी क्रियते । अस्यां दृश्यमानायां शारीर्या यजमानशरीरसंबन्धिन्यामावृतामिमां तदिदासेत्यादिकां छन्दोमयीं वेदरूपां तनूं संस्कारकत्वेन संपादितवानित्येतन्मन्त्रवाक्यं ब्रूते १। तेन( तस्य? ) २ शस्त्रस्य शिरःपक्षादिकल्पनाया वक्ष्यमाणत्वात् [ऐ० आ० १ अ० ४ ख० २ ]छन्दोमयशरीरत्वं युक्तम् ।
पुनरपि शस्त्रस्तुत्यर्थमन्यमन्त्रपादं शब्दतो व्याचष्टे—
तनूरेव तन्वो अस्तु भेषजमित्यस्यै शारीर्या इयं छन्दोमयीत्येव तदाह, इति ।
शारीर्याशब्दः पूर्वोदाहरणेन समुच्चयार्थः । न केवलमृषिणा पूर्वेणैव तदुक्तं किं तु तनूरेवेत्यादिनाऽप्यृषिणा तदुक्तम् । मन्त्रपादश्चैवं योजनीयः । तनूः ३ “तदिदास” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका छन्दोमयी तन्वौ ४ यजमानशरीरस्य भेषजं पापव्याधिनिवर्तकमौषधमस्तु । मन्त्रे तनू[स्तन्व]रि(इ)त्यनयोः षष्ठ्यन्तप्रथमान्तयोरर्थो ब्राह्मणेन स्पष्टीकृतः ।
इत्थं मन्त्रद्वयोदाहरणेन शस्त्रं प्रशस्य बहुविधच्छन्दोन्तर्भावेनापि शस्त्रं प्रशंसति—
तस्यै यान्यष्टावक्षराणि सा गायत्री यान्येकादश सा त्रिष्टुब्यानि द्वादश सा जगत्यथ यानि दश सा विराड्दशिन्येषु त्रिषु च्छन्दःसु प्रतिष्ठिता, इति ।
“तदिदास भुवनेषु” (ऋ० सं० म० १० सू० १२० ऋ० १) इत्यादिका [या ऋक्,] तस्या ऋचः प्रथमपादो दशाक्षरः । तस्यै तस्या ऋचः संबन्धीनि यान्यष्टौ प्रथमपादाक्षराणि सन्ति सेयमष्टाक्षररूपा गायत्री संपद्यते । यानि तृतीयपाद एकादशाक्षराण्याम्नातानि सेयमेकादशाक्षरा त्रिष्टुप्संपद्यते । प्रथमपादे यदवशिष्टमक्षरद्वयं तद्द्वितीये (* चतुर्थे वा) दशाक्षरयुक्ते पादे योजनीयम् । तथा सति यानि द्वादशाक्षराणि सा जगती संपद्यते । अथ प्रथमे द्वितीये तृतीये चतुर्थे वा पादे यान्याम्नातानि दशाक्षराणि सा विराक्छन्दोरूपा । एवमेषा दशिनी दशाक्षरोपेता स्वतः सिद्धा विराट् । एवमुक्तरीत्या संपादितेषु गायत्रीत्रिष्टुब्जगतीरूपेषु त्रिषु छन्दःसु विरात्प्रतिष्ठिता पर्यवस्थिता ।
* अत्र किंचित्रुटितमिति भाति । अधिकं वैतत् “चतुर्थे वा” इति ।
१ ग. ॰तेति शं । २ ख. घ. ते शं । ३ ख. तन्वस्तदिं । ग. घ. तन्यस्तदिं । ४ ख. ग. घ. ॰न्वो न यं । ५ ख. ग. घ. ॰सु त्रिष्टुप्प्रति॑ ।
अध्या०३ख०५(१३)] ऐतरेयारण्यकम्। ४७
अथैतस्यां प्रथमायां^१मुच्यक्षरत्रयप्रक्षेपं विधत्ते—
पुरुष इति त्र्यक्षरं स उ विराजि, इति ।
यदेतत्त्र्यरूपं पदं तदेतस्यामृचि प्रक्षेपणीयमित्यध्याहारैः^३। स यः सोऽप्यक्षरः(?) ।
[*पूर्वोक्तच्छन्दश्चतुष्टयस्य सकलच्छन्दोरूपत्वकथनपुरःसरं तद्वेदनफलं दर्शयति—]
एतानि वाव सर्वाणि च्छन्दांसि यान्येतानि
विराट् चतुर्थान्येवमु हैवं विदुष एतदहः
सर्वैश्छन्दोभिः प्रतिपन्नं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके द्वितीयाध्याये
चतुर्थः खण्डः ॥ ४ ॥ ( १२ )
विराट्छन्दश्चतुःसंख्यापूरकं येषां गायत्र्यैत्रिष्टुब्जगतीनां तानि विराट्सचतुर्थानी-दृशानि यान्येतानि चत्वारि सन्ति तान्येतानीति निर्द्वन्यववा(^४न्येव सकलान्यव )शिष्टश्छ(च्छ)न्दोरूपाणि । गायत्र्यादीनां स्तवननिष्पादकत्वेन मुख्यत्वात्सर्वच्छन्दोरूपत्वोपचारः। एवमु हैव यथोक्तेन प्रकारेण विराजि गायत्र्यादीनां त्रयाणामन्तर्भावो विराट्-सहितानां चतुर्णां सर्वच्छन्दोरूपत्वोपचार इत्येवं विदुषो यजमानस्यैतन्महाव्रतमहः सर्वैश्छन्दोभिः संपादितं भवति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
प्रथमारण्यके तृतीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १२ )
अथ पञ्चमः खण्डः । ( त्रयोदशः )
अथ शस्त्रस्य विहरणं^५ विधत्ते—
ता नदेन विहरति पुरुषो वै नदस्तस्मा-
त्पुरुषो वदन्सर्वः संनदतीव, इति ।
ताः शस्त्रगताः “ तदिदास ” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिका ऋचो नदेन नदलिङ्गकेन मन्त्रेण विहरति व्यतिषजति मिश्रयेदित्यर्थः । नदशब्दः पुरुषस्वरूप एव यस्मात्तस्माल्लोके सर्वः पुरुषो भाषमाणः सम्यग्ध्वनिं करोतीव दृश्यते । गम्भीरो हि पुरुषस्य ध्वनिः । नदलिङ्गकश्च मन्त्रः संहितायामेवमाम्नातः—
“ नदं व ओदतीनां नदं योयुवतीनाम् ।
पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ” इति ।
[ ऋ० सं० म० ८ सू० ६९ ऋ० २ ]
* एतच्चिह्नान्तर्गतो ग्रन्थः प्रकल्प्यात्र निवेशित इति बोध्यम् ।
^१ ग. घ. 'मायां दिश्यक्षं'। ^२ ख. 'यामक्ष'। ^३ क. °रः । ए° । ^४ क. 'ति च्छन्दो'।
^५ क. विवरणं । ख. विहरणां ।
४८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
एतन्मिश्रप्रकरणं पञ्चमे स्पष्टमभिधास्यते—‘‘ नदं व ओदतीनामित्येतयैतानि व्यतिषजति पादैः पादान्नृहतकारम् ’’ ( ऐ० आ० ५ अ० १ ख० ६ ) इति । तत्तथा तत्रैवोदाहृत्यापीति प्रदर्शितम्—‘‘ तदिदास भुवनेषु ज्येष्ठं पु नदं व ओद- तीनां यतो जज्ञ उग्रस्त्वेष नृम्णोरु नदं योयुवतीनां सद्यो जज्ञानो निरिणाति शत्रू- न्पतिं वो अघ्न्यानामनु यं विश्वे मदन्त्यूमाः षो धेनूनामिषुध्यसोम् ’’ [ ऐ० आ० ५ अ० १ ख० ६ इति । नदलिङ्गकस्य मन्त्रस्यायमर्थः—ओदतीनां तृतीयसवन ऋजी- षमुन्दतीनामहन्तव्यानां वो युष्माकं पतिं पालकं यजमानं रक्षत । हे इन्द्र त्वं धेनूनां धेनुवत्प्रीणयितॄणामपामिषुध्यसि, ईश्वरोऽसि । ‘‘ इषुध ऐश्वर्ये ’’ [ क० ग० प० ] इति धातुः ।
अस्या ऋचः प्रथमपादं व्याचष्टे—
नदं व ओदतीनामिती३ँ आपो वा ओदत्यो या दिव्यास्ता हीदं सर्वमुन्दन्त्यापो वा ओदत्यो या मुख्यास्ता हीदं सर्वमन्नाद्यमुन्दन्ति, इति ।
अस्मिन्पादे ओदतीशब्देनाऽऽप एव विवक्षिताः । यस्माद्या आपो दिव्यभवन्वृ- ष्टिद्वारेणाऽऽगतास्ता आपः सर्वमिदं भूत[जात]मुन्दन्ति क्लेदयन्ति, तथा मुखे भवा आस्योदकरूपा या आपस्ताः सर्वमन्नाद्यं शुष्कमपि पृथगिव शष्कुल्यादिकं सर्वं खाद्यं द्रवी कुर्वन्ति, तस्मादोदत्य इत्युच्यन्ते । इति शब्दस्योपरि योऽयं सानुनासिकः प्लुतः सोऽयं पादप्रतिग्रहणेऽन्यतमादरार्थः ।
[*द्वितीयपादं व्याचष्टे—
नदं योयुवतीनामिती३ँ आपो वाव योयुवत्यो या अन्तरिक्ष्यास्ता हि पोप्लूयन्त इवाऽऽपो वाव योयु- वत्यो याः स्वेदते ता हि सरीसृप्यन्त इव, इति ।]
तृतीयपादं व्याचष्टे—
पतिं वो अघ्न्यानामिती३ँ आपो वा अघ्न्या या अग्नेर्धूमा-
नदं व ओदतीनामि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । नदं योयुवतीना०—ऋ० सं० म० ८ सू० ६९ ऋ० २ । पतिं वो अघ्न्यानाम्—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थत्रुटितत्वात्प्रकल्प्य निवेशितः । मूलं तु मूलपुस्तकेभ्य उद्धृत्य निवेशितम् ।
१ क. ख. घ. ॰च्यते । इ° ।
चतुर्थपादं व्याचष्टे—
अध्या०३ख०५(१३)] ऐतरेयारण्यकम् । ४९
जायन्त आपो वा अघ्न्या याः शिश्नात्प्रसृज्यन्ते, इति । अग्नेरुत्पन्नो योऽयं धूमः स एव मेघाकारो भूत्वा वृष्टिरूपेण वा अन्नं जनयति । यदा(तो) धूमोऽग्निरित्येतदुभययुक्तस्यान्नाद्यानिष्पादकत्वमत एव कैश्चिदुक्तम्— "धूमज्योतिःसलिलमरुतां संनिपातः क्व मेघः" ( पूर्वमे० श्लो० ५ ) इति । तस्मान्मेघादुत्पन्ना आप ओषधिवनस्पतिरूपेण परिणताः सत्यो न केनापि हननीयाः, किंतु सर्वेणापि वर्धनीया एवम्(एव) । तथा शिश्नादुत्पन्ना रेतोरूपा आपः पुत्रादिरूपेण परिणताः सत्यो न केनापि हननीयाः ।
चतुर्थपादं व्याचष्टे— धेनूनामिषुध्यसीतीँ२ आपो वाव धेनवस्ता हीदं सर्वं धिन्वन्तीषुध्यसीति यदाह पतीयसीत्येव तदाह, इति । यथा धेनवः क्षीरप्रदानेन प्रीणयन्त्येवमाप ओषधिवनस्पत्यादिकं प्रीणयन्त्यतो धेनुसाम्याद्धेनुत्वम् । इषुध्यसीति शब्दो यदभिधेयं धत्ते तत्पतीयसीत्यस्यैव शब्दस्याभिधेयं ब्रूते । पतित्वत्स्वामिवदाचरती(सी)त्यर्थः ।
“नदं वः” [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकामृचं व्याचक्षुं(रुयाय) तदुभयोर्विहरणं [*लौकिकोदाहरणोक्तिपूर्वकं प्रशंसति— त्रिष्टुभं चानुष्टुभं च विहरति वृषा वै त्रिष्टु- ब्योषाऽनुष्टुन्मिथुनं तस्मादपि पुरुषो जायां वित्त्वा कृत्स्नतरमिवाऽऽत्मानं मन्यते, इति । विहरणं] नाम स्त्रीपुरुषवत्परस्परव्यतिषङ्गः । तत्र त्रिष्टुभः प्रवृद्धत्वाद्वृषत्वं सेचनसमर्थपुरुषत्वमनुष्टुभो न्यूनत्वायोषित्त्वम् । तदुभयं मिलित्वा मिथुनं संपद्यते । यस्मान्मेलनेन मिलितत्वं प्रशस्तं तस्माल्लोकेऽपि पुरुषो ब्रह्मचारी विवाहेन जायां लब्ध्वाऽतिशयेन संपूर्णा जातोऽस्मीत्येवं परितुष्यति ।
प्रथमायामृच्यावृत्तिविधिपूर्विकां संख्यां प्रशंसति — तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश- स्तमिममात्मानं पञ्चविंशं संस्कुरुतेऽथो पञ्चविंशं
धेनूनामिषुध्यसि०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
* एतच्चिह्नान्तर्गतो मूलग्रन्थो मूलपुस्तकेभ्य उद्धृत्यान्यश्च प्रकल्प्यात्र निवेशितः ।
१ क. विधत्ते ।
पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
५० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
वा एतदहः पञ्चविंश एतस्याहः स्तोमस्तत्समेन समं प्रतिपद्यते तस्माद्वे एव पञ्चविंशतिर्भवन्ति, इति ॥ इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
“तदिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिकं सूक्तं नवर्चं “तां सुते” [ ऋ० सं० म० १० सू० ९४ ऋ० १ ] इति सूक्तं षडृर्चं “भूय इद्धावृधे” [ ऋ० सं० म० ६ सू० ३१ ऋ० १ ] इति पञ्चर्चं “नृणामु त्वा” [ ऋ० सं० म० ३ सू० ९१ ऋ० ४ ] इत्यमेकस्तृच इत्येताः सर्वास्त्रयोविंशति- र्भवन्ति । तत्र प्रथमायास्त्रिरावृत्तौ सत्यां पञ्चविंशतिः संपद्यते । आत्मा यजमानः । अथाधिदैवं प्रजापतिश्चतुर्मुखोऽपि पञ्चविंशावयवोपेतः । दश हस्त्या इत्यादि पूर्वव- द्व्याख्येयम् [ ऐ० आ० १–१–२ ] ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ ( १३ )
अथ षष्ठः खण्डः । ( चतुर्दशः )
“तदिति प्रतिपद्यते ” [ऐ० आ० १ अ० ३ ख० ३] इत्ययं खण्डः पूर्वं तच्छ- ब्दस्य व्याख्यानार्थं पठितोऽपि पुनः कृत्स्नशस्त्रप्रशंसार्थं पठ्यते— तदिति प्रतिपद्यते तत्तदिति वा अन्नमन्नमेव तदभिम्र- तिपद्यत एतां वाव प्रजापतिः प्रथमां वाचं व्याहरदे- काक्षरद्व्यक्षरां ततेति तातेति तथैवैतत्कुमारः प्रथमवादी वाचं व्याहरत्येकाक्षरद्व्यक्षरां ततेति तातेति तयैवै तत्तत- वत्या वाचा प्रतिपद्यते तदुक्तमृषिणा बृहस्पते प्रथमं वाचो अग्रमित्येतद्धयेव प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधाना इति वाचा हि नामधेयानि धीयन्ते यदेषां श्रेष्ठं यदद्रिपमासीदित्येतद्ध्येव श्रेष्ठमेतदरिप्रं प्रेणा तदेषां निहितं गुहाऽऽविरितीदमु ह गुहाऽध्यात्ममिमा देवता अद
बृहस्पते प्रथमं वाचो अग्र०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यत्प्रैरत नाम०—ऋ० सं० म० १० सू० ७१ ऋ० १ । यदेषां श्रेष्ठं०—ऋ० सं० म० १० सू० ७१ ऋ० १ । प्रेणा तदेषां०—ऋ० सं० म० १० सू० ७१ ऋ० १ ।
अध्या० ३ ख० ७ (१६)] ऐतरेयारण्यकम् । ५१
उ आविर्धिदैवतमित्येतत्तदुक्तं भवति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १४ )
अक्षरार्थः पूर्वमेव [ ऐ० आ० १ अ० ३ ख० ३ ] व्याख्यातः । इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके तृतीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १४ )
अथ सप्तमः खण्डः । ( पञ्चदशः )
सूक्तमपि प्रशस्य सामान्येन प्रशंसामभिधाय पुनर्विशेषाकारेण प्रशंसाऽभिधीयते । तत्र प्रथमं सूक्तं प्रशंसति—
तदिदास भुवनेषु ज्येष्ठमिति प्रतिपद्यते यद्वै ज्येष्ठं तन्महन्महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
प्रथमे शस्त्रं प्रारभते । अतिशयेन बहुवृद्धं ज्येष्ठं तादृशम् ।
[*तां सु त इत्यादि प्रशंसति—
तां सु ते कीर्ति मघवन्महित्वेति महद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
भूय इत्यादि प्रशंसति—]
भूय इद्धावृधे वीर्यायेति वीर्यवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
भूय इदित्थमिन्द्रो वीर्याय शौर्यार्थं वावृधे वृद्धिं प्राप्तवान् । वीर्यशब्दस्य श्रुतत्वादह्नो रूपस्य वीर्यवत्त्वम् ।
अथ तृचं प्रशंसति—
नृणामु त्वा नृतमं गीर्भिरुक्थैरित्युक्थं वा एतदहरुक्थवद्रूपसमृद्धमेतस्याह्नो रूपम्, इति ।
उत्तिष्ठत्युत्कर्षं प्राप्नोत्येभिरित्युक्थानि शस्त्राणि तद्रूपाभिर्गीर्भिर्हे इन्द्र नृणामु
तदिदास भुवनेषु०—ऋ० सं० म० १० सू० १२० ऋ० १ । तां सु ते की०—ऋ० सं० म० १० सू० ९४ ऋ० १ । भूय इद्धावृ०—ऋ० सं० म० ६ सू० ३१ ऋ० १ । नृणामु त्वा०—ऋ० सं० म० ३ सू० ५१ ऋ० ४ ।
* एतच्चिह्नान्तर्गतो मूलग्रन्थो मूलपुस्तकेभ्य उद्धृत्यान्यश्च प्रकल्प्यात्र निवेशितः ।