ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
५२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
सर्वेषामपि पुरुषाणां मध्ये नृतममुत्तमं पुरुषं त्वामृत्विजोऽर्चन्तीति *प्रष्टव्यम् । तदेतन्महाव्रताख्यमहहरुक्थमुत्कर्षहेतुत्वात् । उक्थवदित्यादि पूर्ववत् [ ऐ० आ० १ अ० २ ख० २ ] ।
सूक्तं प्रशस्य व्यतिषक्तपादयोरक्षरन्यूनतां प्रशंसति—
न्यूनाक्षरे प्रथमे पदे विहरति न्यूने वै रेतः सिच्यते
न्यूने प्राणा न्यूनेऽन्नाद्यं प्रतिष्ठितमेतेषां कामानामक-
रुद्ध्या एतान्कामानवरुन्धे य एवं वेद, इति ।
“तद्दिदास” [ऋ० सं० म० १० सू० १२० ऋ० १] इत्ययं प्रथमपादो दशाक्षरत्वादेकेनाक्षरेण त्रिष्टुभो न्यूनो “नदं वः” [ ऋ० सं म० ८ सू० ६९ ऋ० २ ] इत्ययं पादः सप्ताक्षरत्वादेकेनाक्षरेण न्यूनाऽनुष्टुप्पादद्वयं व्यतिषक्तं भवति । न्यूने वा इत्यादिकं पूर्वमेव [ ऐ० आ० १ अ० १ ख० २ ] व्याख्यातम् ।
“तद्दिदास” [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यस्यामृचि द्वितीयपादाक्षरसंख्यां प्रशंसति—
[+द्वे दशाक्षरे भवत उभयोरन्नाद्ययोरुपाप्त्यै यच्च
पदद्यच्चापादकमित्यष्टादशाष्टादशाक्षराणि भवन्ति यानि
दश नव प्राणा आत्मैव दशमः साऽऽत्मनः संस्कृति-
रष्टावष्टा उद्यन्तेऽश्नुते यद्यत्कामयते य एवं वेद, इति ।]
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्याये
सप्तमः खण्डः ॥ ७ ॥ ( १५ )
*शिरसि सप्तच्छिद्राणि, अधोभागे द्वे, तन्निष्ठत्वेन प्राणानां नवत्वम् । अनेनैवाभिप्रायेण श्रुत्यन्तरे पठ्यते—“सप्त वै शीर्षण्याः प्राणा द्वाववाञ्चाविति नव” [इति] । दशमाक्षरं तज्जीवात्मस्वरूपम् । यथोक्तनवप्राणापेक्षया दशमत्वात् । अतो या दशाक्षरोक्तिः सेयमात्मनः संस्कृतिः, अतिशयहेतुः । चतुर्विधेषु व्यतिषिक्तार्थेषु प्रत्यक्षरोपचये सत्याष्टावष्टावक्षराण्युद्यन्ते, अवशिष्टानि शिष्यन्ते । तान्येवमुक्तप्रकारेण यो वेद स पुमान्यद्यत्कामयते तत्तत्प्राप्नोति ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयाध्याये सप्तमः खण्डः ॥ ७ ॥ ( १९ )
* द्रष्टव्यमिति ग. पुस्तके शोधितः पाठः । + एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितम् । * एतस्मात्प्राक् किंचित्त्रुटितम् ।
१ ख. ग. घ. ‘रुक्थं चेदुक्तं’ । २ घ. ‘त्वादुक्तस्वरूपमेव । उ° ।
अध्या० १ ख० ८(१६)] ऐतरेयारण्यकम् । ५३
अथाष्टमः खण्डः । ( षोडशः )
"तदिदास" [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यादिसूक्तगताना- मृचां "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकया सह यो व्यतिषङ्गः पूर्वं [ ऐ० आ० १ अ० ३ ख० ९ ] विहितस्तमेतं विधिमनूद्य नद- शब्दं व्याचष्टे—
ता नदेन विहरति प्राणो वै नदस्त- स्मात्प्राणो नदन्सर्वः संनदतीव, इति ।
नदशब्दवान्मन्त्रो नद् इत्युच्यते । ताः सूक्तगता ऋचो नदशब्दोपेतमन्त्रेण सह विहरति व्यतिषजति । तस्मिन्मन्त्रे यो नदशब्दः स प्राणमाचष्टे । प्राणस्य कायो- पेतत्वात् । यस्मादेवं तस्मादखिलेषु देहेष्ववस्थितः सर्वः प्राणो नदञ्शब्दं कुर्वन्स- नदतीव, सुषुप्त्यादौ समाश्वासरूपेण सम्यग्ध्वनिं करोत्येव ।
नदशब्दोपेतस्य मन्त्रस्याक्षराणि पादांश्च प्रशंसति—
नदं व ओदतीनामिती१ँ उष्णिगक्षरै- र्भवत्यनुष्टुप्पादैरायुर्वा उष्णिक्व्वागनुष्टु- ब्ददस्मिन्नायुश्च वाचं च दधाति , इति ।
नदं व इत्यस्या ऋचश्चत्वारोऽपि पादाः प्रत्येकं सप्ताक्षराः । तृतीये पादेऽघ्रिया इत्यत्र पकारादिः पृथगक्षरत्वेन गणनीयः । तथा सत्यष्टाविंशत्यक्षरोष्णिक्संपद्यते । पादसंख्यया त्वियमनुष्टुप् । चत्वारो ह्यत्र पादाः पठ्यन्ते । उष्णिहस्तु त्रय एव पादाः । एवमक्षरैः पादैश्च छन्दोद्वयसंपत्तिः । अत्रोष्णिह आयुर्हेतुत्वादनुष्टुभो वाग्विषयत्वाच्च द्यात्मकस्य तस्य पाठेनास्मिन्यजमान आयुर्वाचं च संपादयति ।
अस्या नद्वत्या ऋचोऽहःसूक्तत्रये तृचे च प्रत्यृचं व्यतिषङ्गे सति वा प्रथमाऽऽवृत्तिः संपद्यते । " तदिदास " [ ऋ० सं० म० १० सू० १२० ऋ० १ ] इत्यनयो प्रथमया सह व्यतिषिक्ताया नद्वत्यास्त्रिरावृत्तौ सत्यां मिलित्वा पञ्चविंशतिसंख्या संपद्यते । तामेतां नद्वत्याः संख्यामृगक्षरसंख्यावत्प्रशंसति—
तास्त्रिः प्रथमया पञ्चविंशतिर्भवन्ति पञ्चविंश आत्मा पञ्चविंशः प्रजापतिर्दश हस्त्या अङ्गुलयो दश पाद्या द्वा ऊरू द्वौ बाहू आत्मैव पञ्चविंश-
नदं व ओदतीनां०—ऋ० सं० म० ८ सू० ६९ ऋ० २ ।
१ क. ॰संख्यायास्त्रित्वय॰ । २ क. ॰या पाठेन प्र॰ ।
५४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-
स्तमिममात्मानं पञ्चविंशं संस्करुतेऽथो पञ्चविंशं वा एत-
दहः पञ्चविंश एतस्याह्नः स्तोमस्तत्समेन समं प्रतिपद्यते
तस्माद्ध्ये एव पञ्चविंशतिर्भवन्तीत्यध्यात्मं पञ्चविंशः, इति।
पञ्चविंशतिर्भवन्तीत्यन्तं पूर्ववत्—[ ऐ० आ० १ अ० ३ ख० ९ ]व्याख्येयम्। अत्राध्यात्ममधिदैवतं चेत्युभयथा संख्या प्रशस्यते । तत्र हस्तपादादिगणनया योऽयं पञ्चविंशत्यवयवसमूहोऽभिहितः सोऽयमध्यात्मं द्रष्टव्यः । आत्मानं यजमानस्य देहे- न्द्रियादिसंघातमधिकृत्य वर्तत इत्यध्यात्मम् ।
यद्यपि पञ्चविंशः प्रजापतिरित्युक्तत्वादधिदैवतप्रशंसाऽपि कृतैव तथाऽपि प्रका- रान्तरेण पुनः प्रशंसति—
अथाधिदैवतं चक्षुः श्रोत्रं मनो वाक्प्राणस्ता एताः
पञ्च देवता इमं विष्टाः पुरुषं पञ्चो हैवैता देवता
अयं विष्टः पुरुषः सोऽत्राऽऽ लोमभ्य आ
नखेभ्यः सर्वः साङ्ग आप्यते तस्मात्सर्वाणि
भूतान्या पिपीलिकाभ्य आप्तान्येव जायन्ते, इति।
अथ मनुष्यशरीरगतपञ्चविंशतिसंख्याप्रशंसानन्तरम् । अधिदैवतं देवताशरीर- गता पञ्चविंशत्यन्तर्भूता पञ्चसंख्या प्रशस्यते । तद्यथा—चक्षुरादयः प्राणान्ता एत- च्छब्दाभिधेया या देवताः सन्ति ता एता देवताः पञ्चसंख्याका इमं पुरुषं मनु- ष्यदेहं प्रविष्टाः । तथा चोपरिष्टादाम्नास्यते—“आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्, दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन्” [ ऐ० आ० २ अ० ४ ख० २ ] इत्यादिना । यथा देवताः पुरुषशरीरं प्रविष्टास्तथाऽयं पुरुषः पश्चाप्येता देवताः प्राविशत् । एव- मत्रान्योन्यप्रवेशो नाम तादात्म्यापत्तिः । सैव विस्पष्टी क्रियते—स पुरुषो देवताभिः प्रविष्टः स्वयं च देवताः प्रविश्यात्रास्मिञ्शरीरे लोमवर्मनखाग्रपर्यन्तं च सर्वोऽपि साङ्गः संपूर्णावयव आप्यते प्राप्तो दृश्यते । यस्मादेवं चक्षुराद्यभिमानिदेवतानामादि- त्यादीनां देहस्य च परस्परतादात्म्यं तस्मात्पिपीलिकापर्यन्तं सर्वे प्राणाश्चक्षुरादी- न्द्रियैस्तत्तद्लोमकैश्च संपूर्णा एव जायन्ते । अनया देवतागतपञ्चसंख्यारूपावयवप्रशं- सयास्त(सया त)द्वयविरूपा पञ्चविंशतिसंख्या प्रशस्ता वेदितव्या ।
ब्राह्मणोक्तेऽर्थे संपा(वा)दकमन्त्रमुदाहरति—
तदुक्तमृषिणा, इति ।
१ ग. घ. ˚दैवं चे˚ । २ ग. घ. ˚स्पष्टा क्रि˚ । ३ ग. घ. ˚तानामादित्यादिभिः । ४ ख. ग. ˚संख्यया रू˚ । घ. संख्ययाऽव˚ । ५ ख. ग. घ. ˚सा तद्˚ ।
अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५५
चक्षुराद्यभिमानिदेवतानां तत्तदिन्द्रियद्वारा देहप्रवेशाद्देहस्य च ताभिस्तैरिन्द्रियै- स्तादात्म्यापत्तेश्च पिपीलिकान्ताः सर्वे प्राणिनः संपूर्णा उत्पद्यन्त इति यद्ब्राह्मणेनोक्तं तदेवर्षिणा सहस्रथेत्यादिना मन्त्रेणाप्युक्तम् ।
सोऽयं मन्त्रः संहितायामेवं समाम्नायते—
“सहस्रधा पञ्चदशान्युक्या यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक्” इति ।
[ ऋ० सं० म० १० सू० ११४ ऋ० ८ ]
अस्यायमर्थः—सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिपिपीलिकान्तेषु देहेषु पञ्चदश-
संख्याकान्युक्थोत्कृष्टानि विद्यन्त इति शेषः । चक्षुः श्रोत्रं मनो वाक्प्राण इत्येतत्प-
ञ्चकं तदाधारत्वेन मातापित्रोः सकाशादुद्गतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि
भूतानि तानि मातृसंबन्धीनि पितृसंबन्धीनि मिलित्वा दश संपद्यन्ते, चक्षुरादिपञ्चकं
चेत्येवं पञ्चदशाङ्गान्युक्योत्कृष्टानि । इत्थं प्राणिदेहेषूपपन्नेषु देहेषु (※द्यावापृथिव्योर्यत्प-
रिमाणकमेव(णं विद्यते) तत्प्रमाणे(णं) देहजाते(तं) संपन्नम् ।) सहस्रधा सहस्रसंख्या-
केषु देहेषु सहस्रं महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा दृश्यन्ते । प्रति-
विषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहाराणां निष्पत्तेः । ब्रह्म जगत्कारणं सत्यज्ञाना-
दिरूपं वस्तु तस्तु(त्तु) नानाविधप्राणिदेहरूपेण यावदभिधेयं भूत्वा विशेषेण स्थितं
तावत्ती तत्परिमाणा वाग्भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् । अत एवा-
[न्य]त्र श्रूयते—“सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते”
[ तै० आ० प्र० ३ अ० १२ ] इति ।
तस्यैतस्य व्याख्यातस्य मन्त्रस्य प्रथमपादं व्याचष्टे—
सहस्रधा पञ्चदशान्युक्येति पञ्च हि दशतो भवन्ति, इति ।
चक्षुरादीनि पञ्चाऽऽकाशादीनि मातृपितृसंबन्धीनि भूत्वा दशैकात्संपूर्णादेहरूपेण निष्पाद्यन्ते ।
द्वितीयपादं व्याचष्टे—
यावद्द्यावापृथिवी तावदित्तदिति यावती
सहस्रधा पञ्चदशान्युक्या०—ऋ० सं० म० १० सू० ११४ ऋ० ८ । याव-
द्द्यावापृथि०—ऋ० सं० म० १० सू० ११४ ऋ० ८ ।
* एतच्चिह्नान्तर्गतो ग्रन्थः किंचिदसंबद्ध इति तत्स्थाने संहिताभाष्ये विद्यमानो ग्रन्थोऽत्र लिख्यतेऽर्थबोधस्य सौलभ्याय । स यथा—“द्यावापृथिव्योर्यावद्यत्परिमाणमस्ति तावदित्तत्परिमाणमेवाऽऽत्माधिष्ठितं प्राणिदेहजातं भवति । किंच” इति ।
१ क. ख. घ. ॰मेव सं॰ । २ क. ग. घ. ॰न्युक्तं॰ । ३ ख. ग. घ. ॰शदशका॰ ।
तृतीयपादं व्याचष्टे—
५६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
वै द्यावापृथिवी तावानात्मा, इति ।
आत्मा देहविशिष्टो जीवात्मा । द्यावापृथिव्योर्लोकयोर्जीवदेहे पूर्णत्वादात्मनस्तत्समानपरिमाणत्वं द्रष्टव्यम् ।
तृतीयपादं व्याचष्टे—
सहस्रधा महिमानः सहस्रमित्युक्थान्येव तदनु मदति महयति, इति ।
यावन्त्युक्थान्युकृष्टानि चक्षुरादीनि सन्ति तान्येव तत्तेन महिमा(म)शब्देनानुवदनयंमृषिर्मन्त्रो मदति हर्षति । तथा महिमा(म)शब्दप्रयोगात्तान्यङ्गानि महयति ।
चतुर्थपादं व्याचष्टे—
यावद्ब्रह्म विष्ठितं तावती वागिति यत्र ह क्व च ब्रह्म तद्वाग्यत्र वा वाक्तद्वा ब्रह्मेत्येतत्तदुक्तं भवति, इति ।
ब्रह्मैवाभिधेयं जगत्पदार्थरूपेण [यत्र] यत्रास्ति तत्र तत्राभिधायकं नाम । तथा यत्र यत्र वाचकः शब्दस्तत्र तत्राभिधेयपदार्थ ब्रह्मेत्येवमन्योन्यव्याप्तिस्वरूपं भवति । तदेवमुदाहृतेन मन्त्रेण चक्षुरादिपञ्चकोपेतजगत्सृष्टिप्रशंसनाच्चक्षुरादिगतपञ्चसंख्याद्वारेण पञ्चविंशतिसंख्या "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्येतदङ्गावृत्तिरूपा प्रशस्ता भवतीति द्रष्टव्यम् ।
अथ तैत्तत्सूक्तगतामृक्संख्यां क्रमेण प्रशंसितुमाद्यसूक्तगतां संख्यां प्रशंसति—
एषां वा एषां सूक्तानां नवर्चं प्रथमं नव वै प्राणाः प्राणानां क्लृप्त्यै, इति ।
विविधानि सूक्तानि शस्त्रार्थं "नदं वः" [ ऋ० सं० म० ८ सू० ६९ ऋ० २ ] इत्यादिकया व्यतिषक्तानि केवलानि चेति । तत्राऽऽद्येनैषामित्यनेन पदेन व्यतिषक्तानि परामृश्यन्ते । "ता नदेन विहरति" इत्येवं व्यतिषक्तानामनन्तरमेव प्रकृतत्वात् । द्वितीयेनैषामित्यनेन व्यतिषक्तान्तर्भूतानि केवलानि परामृश्यन्ते । तानि च "तद्दिदास" ( ऋ० सं० म० १० सू० १२० ऋ० १ ) इत्यादिव्याख्यानप्रकृतानि । तत्र याऽ(चा)क्षरयोजना—एषां व्यतिषक्तानां मध्ये यानि केवलानि सन्ति, ये(ए)षां केवलानां मध्ये यत्प्रथमं तद्दिदासेति सूक्तं तन्नवर्चम् । प्राणाश्च देहगतच्छिद्रवर्तिनां(नो) नवसंख्याका अतः प्राणसंपादनार्थं तत्सूक्तं संपद्यते ।
सहस्रधा महिमानः सहस्रं०—ऋ० सं० म० १० सू० ११९ ऋ० ८ । यावद्ब्रह्म विष्ठितं तावती०—ऋ० सं० म० १० सू० ११९ ऋ० ८ ।
१ क. ग. घ. तत्सू ।
अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५७
“तां सुते” [ऋ० सं० म० १० सू० ९४ ऋ० १] इत्यादिद्वितीयसूक्त- गतामृक्संख्यां प्रशंसति— षळृचं भवति षड्वा ऋतव ऋतूनामाप्त्यै, इति। “भूयः” [ऋ० सं० म० ६ सू० ३१ ऋ० १] इत्यादितृतीयसूक्तगता- मृक्संख्यां प्रशंसति— पञ्चर्चं भवति पञ्चपदा पङ्क्तिः पाङ्क्तोऽन्नमन्नाद्यस्यावरुद्धयै, इत्यादि*। पङ्क्तिश्छन्दः पञ्चभिश्छन्दःपादैरुपेतमन्नं$^+$ च पङ्क्तिच्छन्दःसाध्यत्वात्क्षेत्रेषु पङ्क्ति- रूपेणोक्त(प्त)त्वाद्वा पङ्क्तिरूपम् । तस्मादियं पञ्चसंख्याऽन्नप्राप्त्यै भवति । “नृणामु त्वा” [ऋ० सं० म० ३ सू० ५१ ऋ० ४] इत्यादिको यस्तृच- स्तद्गतामृक्संख्यां प्रशंसति— तृचो भवति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै, इति । “त्रयो वा” इत्यादि पूर्वमेव [ऐ० आ० १ अ० १ ख० २] व्याख्यातम् । केवलानि सूक्तान्युक्त्वा संख्याद्वारा प्रशस्यैतानि प्रकारान्तरेण प्रशंसति— ता अभि संपद्यन्ते बृहतीं छन्दोऽमृतं देवलोकमेष आत्मैवमु हैवैवं- विदेतयैव संपदाऽमृतमेवाऽऽत्मानमभिसंभवति संभवति, इति ॥ इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्यायेऽ- ष्टमः खण्डः ॥ ८ ॥ ( १६ ) इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयोऽध्यायः ॥ ३ ॥
ताः सूक्तगता ऋचोऽभि सर्वतो बृहतीं छन्दः संपद्यन्ते । तद्यथा—त्रिष्टुप्छन्द- स्कास्तृचैकैकः पाद एकादशाक्षरोऽष्टाक्षरेण “नदं वः” (ऋ० सं० म० ८ सू० ६९ ऋ० २) इत्यादिमन्त्रगतेन पादेन संयुज्यते, तदेतदष्टादशाक्षरात्मकं पादद्वय- मेकमर्धं भवति । तादृशे द्वे अर्धे षट्त्रिंशदक्षरां बृहतीं प्राप्नुतः । एवं त्रयोविंशति- संख्या ऋचः सर्वा अपि “नदं वः” इत्यादिसहिताः षट्चत्वारिंशद्बृहत्यो भवन्ति । तदेवं बृहतीं छन्दो विनाशरहितं देवलोकं तत्प्राप्तिहेतुत्वात्तादृशं छन्दः संपद्यत इति
* अत्रेतिशब्द एव केवलोऽपेक्षितः, सर्वत्र तन्मात्रस्यैव ग्रहणात्, ग्रहीतुमुचितत्वाच्च । परं चैवमेव पाठः सकलादर्शपुस्तकेषु । $+$ व्रीहियवादिरूपम् ।
१ क. ख. पञ्चऋचं । २ ग. घ. ˚ष्टाक्ष˚ ।
५८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
पूर्वत्रान्वयः । एष ईदृशो बृहतीसंघ आत्मा पक्ष्याकारस्य शस्त्रस्य मध्यदेहः । पक्षपुच्छादिभागाश्चोपरिष्टादभिधास्यन्ते । एवमु हैवानेनैव प्रकारेण पक्ष्याकारस्य मध्यदेहः १ संपादित इति शेषः । यः पुमानेवं वेत्ति ध्यायति स पुमानेतयैव संपदा पक्षिदेहमध्यसंपादनेनामृतमेवाऽऽत्मानं विनाशरहितं स्वरूपमभिसंभवति, तद्ध्यानसहिते महाव्रते कर्मणा मनुष्यवच्छीघ्रं विनाशरहितं देवजन्म प्राप्नोतीत्यर्थः । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयाध्यायेऽष्टमः खण्डः ॥ ८ ॥ ( १६ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके तृतीयोऽध्यायः ॥ ३ ॥
अथ प्रथमारण्यके चतुर्थोऽध्यायः । तत्र प्रथमः खण्डः । ( सप्तदशः )
तृतीयेऽध्याये निष्केवल्यशस्त्रस्य पक्ष्याकारस्य मध्यदेशभागस्तृचोत्तरसूक्तावयवनिष्पाद्योऽभिहितः । अथ चतुर्थे ग्रीवादिभागान्विधत्ते । तत्राऽऽदावात्मभागस्यावसाने पठनीयामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, [इति।]
अथ शस्त्रस्य मध्यभागकथनानन्तरं सूददोहाः पठनीया । सूदं स्वादुं सरसं दोग्धीति सूददोहाः कामधेनुरित्यर्थः । तद्वाचकोऽयं शब्दो यस्यामृचि “ ता अस्य सूददोहसः ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येवंरूपा या वर्तते साऽप्यृक्सूददोहास्तां सूददोहमृचं पठेत् । सेयमृक्सूददोहःशब्देनाभिधीयते । सेयं प्राणस्वरूपेणै(विण्ये)त्र । यथा प्राणवायुः सूत्रात्मा सन्सर्वेषां शरीरावयवानां संधाता भवति, एवमियमृक्सर्वेषां शस्त्रभागानां( णां ) मध्ये देहग्रीवादीनां संयन्त्री( धात्री ) तस्मात्प्रत्यवयवं पठनीया स्यात् । अस्य मध्यभागस्यान्ते तत्पाठोऽभिहितः ।
मध्यदेहभागं समाप्य ग्रीवाभागं विधत्ते—
अथातो ग्रीवास्ता आचक्षते यथा छन्दसमुष्णिह इति, इति ।
अथ मध्यदेहकथनानन्तरं यस्मात्षड्वीराश्यभागः(?) पक्ष्याकारस्यापेक्षितोऽतः कारणाद्ग्रीवारूपा ऋचः शंसेत् । ता ऋचः शाखान्तराभिज्ञा आचक्षते । अत एव
१ क. ख. घ. ˚देशः सं˚ । २ क. ख. घ. ˚वः । पुमानेवं यः ।
अध्या० ४ ख ० १ (१७)] ऐतरेयारण्यकम् । ५९
पंचमे शौनकेनोदाहताः—“ग्रीवा यस्येद्मारजः” [ऐ० आ० १ अ० २ ख० १] इत्यादिना । ताश्च तिस्र ऋचो यथाच्छन्दसमध्यापकप्रसिद्धवेदपाठमनतिक्रम्यर्गक्षरग- णनया तिस्र उष्णहः संपद्यन्ते । तत्र च्छन्दःपूरणायाक्षरान्तरप्रक्षेपं पुरुष इत्या- दिवदपेक्षन्ते ।
ग्रीवाभागानन्तरमपि पूर्ववत्सूददोहसं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ।
ग्रीवाभागं समाप्य शिरोभागं विधत्ते—
अथातः शिरस्तद्गायत्रीषु भवत्यग्रं वै छन्दसां गायत्र्यग्रमङ्गानां शिरस्तदर्कवतीषु भवत्यग्निर्वै अर्कस्ता नव भवन्ति नवकपालं वै शिरो दशमीं शंसति त्वक्केशा इत्येव सा भवत्यथो स्तोमातिशं- सनाया एव तौ त्रिवृच्च स्तोमौ भवतो गायत्रं च च्छन्द एतयोर्वै स्तोमच्छन्दसोः प्रजातिमनु सर्वमिदं प्रजायते यदिदं किंच प्रजायतै, इति ।
ग्रीवानन्तरं शिरसोऽपेक्ष(क्ष्य)त्वाच्छिरोभागं शंसेत् । स च शिरोभागो गायत्री- छन्दस्कास्वृक्षु द्रष्टव्यः, शिरोगायत्र्योरग्रत्वसाम्यात् । सिसृक्षोः प्रजापतेः प्रथमं मुखतो गायत्री समुत्पन्ना । [एतच्च] यजुर्ब्राह्मणे द्रष्टव्यम् । उत्पद्यमानस्य देहस्य शिरः प्रथमं योनेर्निर्गच्छतीति शिरसोऽप्यग्रत्वम् । गायत्रीणां बहूनां विद्यमानत्वादर्कवतीष्विति विशेष्यते । “इन्द्रमिद्गाथिनः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्यादिकं सूक्तं दशर्चं तत्रत्या ऋचोऽर्कवत्यः । “इन्द्रमर्केभिरर्किणः” [ऋ० सं० म० १ सू० ७ ऋ० १] इत्येवमर्कशब्दयुक्तत्वादर्कवत्य इत्युच्यन्ते । अतोऽग्नियुक्ते(क्तत्वे)न प्रशस्तत्वादर्कवतीः शंसेत् । तास्विन्द्रमिद्गाथिन इत्यादिकानां य एकश्रुषणीनामित्यन्तानां संख्या प्रथता नवेति वाक्येन प्रशस्यते । नवसंख्याकानि कपालान्येकधा संयोज्य प्रजापतिना मनुष्य- शिरो निर्मितम् । एतच्च (अयं च(?)) मृतपुरुषस्य शिरसि^३ शोषेणे(पेण) त्वगादावपगते सत्यस्थिगतो विभागो बुद्धिमद्भिरुद्धेतुं शक्यते । एतदेवाभिप्रेत्य तैत्तिरीयकाश्चाऽऽम- नन्ति—“तस्मान्नवधा शिरो विष्यूतम्” [तै० सं० अ० ६ प्र० २ अ० १] इति । या तु “इन्द्रं वो विश्वतस्परि” [ऋ० सं० म० १ सू० ७ ऋ० १०] इति दशमी तच्छंसने शिरःकपालानामुपरि त्वक्संपादित भवति । तस्यां त्वच्यपि केशाः संपादिता भवन्ति । अपि चेयं दशमी सा सामगांनां संबन्धिनास्त्रिवृ-
१ क. ‘ध्यायकं’। २ ख. ग. घ. ‘हस्य वि’ । ३ क. ‘सि रोमशौ’ । ४ क. ‘षणग तत्वं’ ।
ख. घ. ‘वृणत्व’ । ५ क. ख. ‘गांनी सं’ ।
दशमी विद्यते । होता तु नवसंख्याकास्ता अतिक्रम्य दशमीमपि शंसति । तदेतदति-
६० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
दाख्यस्तोमविशेषातिशयेन शंसनार्थं संपद्यते । सामगा हि शिरोभागं स्तुवन्त इन्द्रमि- द्धाथिन इत्यादिषु नवस्तृचेषु चाऽऽवृत्तिरहितं त्रिवृत्स्तोमं संपादयन्ति । न त्वत्र तेषां दशमी विद्यते । होता तु नवसंख्याकास्ता अतिक्रम्य दशमीमपि शंसति । तदेतदति- शंसनमत्र त्रिवृत्स्तोमेनाऽऽवृत्तिराहित्यं च यथा सामवेदेऽवगम्यते तथा तैत्तिरीयब्रा- ह्मणेऽप्यवगम्यते—"त्रिवृच्छिरो भवति। त्रेधा विहितं हि शिरः। लोम च्छवीरस्थि। पराचा स्तुवन्ति" [तै० ब्रा० का० १ प्र० २ अ० ६] इति । एवं सति योऽत्र सामगै(ग?)स्त्रिवृत्स्तोमो यदप्युद्गतं गायत्रीछन्दस्तावेता द्वौ प्रजोत्पत्तिहेतू संपद्येते । तयोश्च स्तोमच्छन्दसोः प्रजोत्पादनमनु लोके यत्किंचिदिदं प्राणिजातं दृश्यते तदिदं सर्वमुत्पन्नं भवति । अतः शिरोभागशंसनं प्रजोत्पादनाय संपद्यते ।
एतद्वेदनं प्रशंसति—
प्रजायते प्रजया पशुभिर्य एवं वेद, इति ।
शिरोभागशंसनानन्तरं पूर्ववत् "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूद- दोहाः प्राणेन पर्वाणि संदधाति, इति ।
शिरोभागं समाध्यानन्तरं पक्ष्याकारस्य पक्षमूलभागापेक्षणातत्तद्भागशंसनं विधत्ते—
अथातो विजवस्ता विराजो भवन्ति तस्मात्पुरुषः पुरु- षमाह वि वा अस्मासु राजसि ग्रीवा वै धारय- सीति स्तभमानं वा यद्वा दुताः संवाहळतमाः सत्योऽन्नतमां प्रत्यच्यन्तेऽन्नं हि विराळन्नपु वीर्यम्, इति ।
विशेषेण जवो वेगो यस्मिन्पक्षमूले [स] विजवः । यद्वा ग्रीवाया अधस्तना अस्थि- विशेषा विजत्र इत्यनेनोच्यन्ते । तद्भाव(ग)त्वेन संपाद्यमानास्ता ऋचो विराज्छ- न्दस्का भवन्ति । ताश्च पञ्चमे शौनकेन शाखान्तरमाश्रित्य पठिताः—"सुतस्ते सोम उपयाहि" [ऐ० आ० ५ अ० २ ख० १] इत्यादिना । यस्माद्ग्रीवाया अधोवर्ती पक्षमूलभागोऽस्थिभागो वा विराज्छन्दस्कमन्त्ररूपो य(पस्त)स्माल्लोके कश्चित्पुरुष इतरं पुरुषं श्रुताध्ययनसंपन्नं स्वामिनं प्रत्येवं प्रब्रूते । अस्मासु मध्ये त्वमेव विराजसीति । अथैवा स्तभमानं प्रणिपातादिविनयरहितमुत्कंधरं स्तब्धं पुरुषमुपालम्भं कुर्व- न्नेतद्ब्रूते । ग्रीवावयवानेव त्वं धारयसीति । यद्यप्यनेनैवोद्धृत्याह्वयने(व्याह्वाने)न स्तुतिर्न प्रतीयते तथाऽपि ग्रीवाधारत्वाकारेणात्र स्तुतिर्द्रष्टव्या । इत्थं लौकिकोक्तिमुप- जीव्य विराज्छन्दस्कानाम्ऋचां प्रशंसा कृता । अथान्नहेतुत्वमुपजीव्य प्रशंसार्थं यद्वेति
१ ग. घ. 'पि प्रशं' । २ ग. 'थ लोके स्त' । ३ क. 'म्भं निन्दां कुं' ।
अध्या ० ४ ख ० १ ( १७ ) ] ऐतरेयारण्यकम् । ६१
'पक्षान्तरोपन्यासः । ग्रीवाया अधोभागरूपाः सुतस्ते सोम इत्यादिका ऋचो दुताः प्राप्ताः । “ दु गतौ ” [ भ्वा० प० ] इत्यस्माद्धातोरुत्पन्नः शब्दः । संबाळ्हतमा अतिशयेन परस्परसंश्लिष्टास्थिरूपत्वेन दृष्टाः सत्योऽतिशयेनान्नरूपां विराजं प्रत्यच्यन्ते प्राप्यन्ते । यस्मादन्नहेतुत्वेन विराडन्नं तच्च शक्तिहेतुत्वाद्वीर्यं तस्माद्विराजः शंसेदित्यर्थः ।
“ ता अस्य सूददोहसः ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येता- मृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमआरण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( १७ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके चतुर्थाध्याये प्रथमः खण्डः ॥ १ ॥ ( १७ )
अथ द्वितीयः खण्डः । ( अष्टादशः )
पक्ष्याकारस्य शस्त्रस्य पक्षापेक्षत्वादादौ दक्षिणं पक्षं विधत्ते—
अथातो दक्षिणः पक्षः सोऽयं लोकः सोऽयमग्निः सा वाक्तद्रथंतरं स वसिष्ठस्तच्छतं तानि पङ्- वीर्याणि भवन्ति संपात एव कामानाप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः , इति ।
योऽयं द्वितीयभागो दक्षिणः पक्षः सोऽयं भूलोकाभ्यः(भूलोकः) प्रथमभावि- त्वात् । भूलोकस्याग्निना देवेनाधिष्ठितत्वादयं (※पक्षो निःस्वरूपत्वश्च) “अग्निर्वा- ग्भूत्वा मुखं प्राविशत्” [ऐ०आ० २–४–२] इति श्रुतेरग्निसंबन्ध(द्ध)त्वाद्वा[ग्रूपोऽयं पक्षः । वा]ग्रूपस्य “वाग्वै रथंतर[स्य रूपम्” [ ऐ० आ० ३ अ० १ ख० ६ ] इति रथंतर]सामरूपत्वेम्+ । एतस्मिन्दक्षिणे पक्षे शतमृचः संपद्यन्ते । ताश्च पञ्चमे शौनकेनोदाहृताः “रथंतर[स्य] स्तोत्रियाभि(नु)रूपौ” [ ऐ० आ० ५ अ० २
* धनुश्चिह्नान्तर्गतग्रन्थस्थाने “पक्षोऽग्निरूपः । वाक्च” इति पाठो युक्तः । + एतदन- न्तरं—' रथन्तरस्य च वाग्रूपत्वेन “वाग्वाव वसिष्ठः” इति च्छन्दोगश्रुतेर्वसिष्ठत्वम् ' एवमाकारो ग्रन्थोऽपेक्षितः ।
१ क. ग. घ. ˚त्व ए˚ ।
६२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
ख० १] इत्यादिकाः । तत्र स्तोत्रिये तृचे तदनुरूपे च तृचान्तरेण षट्संख्याका ऋचः । “इन्द्रस्य नु वीर्याणि” [ऋ० सं० म० १ सू० ३२ ऋ० १ ] इति सूक्तं पञ्चद- शर्चम् । “त्वे ह यत्पितरः” [ ऋ० सं० म० ७ सू० १८ ऋ० १ ] इत्येतस्मि- न्पञ्चविंशत्यूचे दशर्चोऽपठनीयाः । “यस्तिग्मशृङ्गः” [ ऋ० सं० म० ७ सू० १९ ऋ० १ ] इति सूक्तमेकादशर्चम् । “उग्रो जज्ञे” [ ऋ० सं० म० ७ सू० २० ऋ० १ ] इति सूक्तं दशर्चम् । “उदु ब्रह्माण्य्” [ ऋ० सं० म० ७ सू० २४ ऋ० १ ] इति सूक्तं षडृचम् । आ ते मह इत्यादीनि पञ्च सूक्तानि । तेषु प्रथ- मम् “आ ते महः” [ ऋ० सं० म० ७ सू० २५ ऋ० १ ] इति सूक्तं षड्- ऋचम् । “न सोमः” ऋ० सं० म० ७ सू० २६ ऋ० १ ] इति द्वितीयं पञ्चर्चम् । “इन्द्रं नरः” [ ऋ० सं० म० ७ सू० २७ ऋ० १ ] इति तृतीयमपि पञ्चर्चम् । “ब्रह्माणः” [ ऋ० सं० म० ७ सू० २८ ऋ० १ ] इत्येतच्चतुर्थमपि पञ्चर्चम् । “अयं सोमः” [ ऋ० सं० म० ७ सू० २९ ऋ० १ ] इत्येतत्पञ्चम- मपि पञ्चर्चम् । “आ न इन्द्रो दूरात्” [ ऋ० सं० म० ४ सू० २० ऋ० १ ] इति सूक्तमेकादशर्चम् । तदेतत्संपातसूक्तमिति नाम्ना व्यवह्रियते । “इत्था हि सोमः” [ ऋ० सं० म० १ सू० ८० ऋ० १ ] इत्येषा पङ्क्तिच्छन्दस्कैका, तस्याः पङ्क्तेः प्राचीनं सर्वमृचां शतं संपद्यते । एतस्मिन्दक्षिणे पक्षे पूर्वोक्तभूलोकाग्निवाग्रथंतरवसिष्ठ- शतसंख्यारूपाणि यानि तानि षट्संख्याकानि वीर्याणि भवन्ति । “आ नः” इत्यादिसूक्तगतक्संपात एव सम्यक्प्राप्तिहेतुरेव । अतोऽयं कामानामितः प्राप्त्यर्थं भूलोके प्रतिष्ठितार्थमन्नाद्यप्राप्त्यर्थं च । तच्छतं संपद्यते तस्माच्छतस्योपरि “इत्था हि सोमः” इत्यादिका पङ्क्तिः पठनीया ।
तत ऊर्ध्वं “ता अस्य” [ ऋ० सं० म० ८ सू० ६३ ऋ० ३ ] इत्येता- मृचं विधत्ते—
अथात उत्तरः पक्षः सोऽसौ लोकः सोऽसावादित्यस्तन्मन- स्तद्बृहतस भरद्वाजस्तच्छतं तानि षड्वीर्याणि भवन्ति संपात एव कामानाभ्याप्त्यै प्रतिष्ठित्या अन्नाद्याय पङ्क्तिः, इति ।
य उत्तरः सोऽसौ द्युलोकस्वरूपः । भूलोकरूपा(प)दक्षिणपक्षौन्तर्भा(र्भा)- वित्वात् । [तथा स] आदित्यस्य द्युलोकवादि(सि)त्वात्तद्रूप[:।] स्य(स) च [मनोरूपः।] यद(द्य)पि मनसश्चन्द्रमा देवता तथाऽपि चन्द्रादित्ययोरभेद[स्य] *विवक्षितत्वादित्य-
* एतदादिमनोरूपत्वमित्यन्तग्रन्थस्थाने “विवक्षितत्वान्मनोरूपत्वम्” इति ग्रन्थोऽपेक्षितः ।
१ क. ग. घ. ॰शर्चः प॰ । २ क. ख. ग. पङ्क्त॰ । ३ क. ख. ग. पङ्क्त॰ । ४ क. ग. घ. ॰क्षावन्त॰ ।
अध्या० ४ ख० २ (१८)] ऐतरेयारण्यकम् । ६३
१डादिमनोरूपारूपत्तमनोरूपत्वम् । [ तच्च बृहत् । ] “मनो वै बृहत्” इति श्रुतेः । [ तस्य च ] बृहत्सामानन्तरं “भरद्वाजो बृहत्यः(त्)” इति श्रुतेर्भरद्वाजरूपत्वम् । तदुत्तरपक्षस्वरूपमृचां शतं संपद्यते । तच्च शतं पञ्चमे “त्वामिद्धि ” [ ऐ० आ० ५ अ० २ ख० १ ] इत्यादिना शौनक उदाजहार । “त्वामिद्धि हवामहे” [ ऋ० सं० म० ६ सू० ४६ ऋ० १ ] “त्वं ह्येहि चेरवे” [ ऋ० सं० म० ८ सू० ६१ ऋ० ७ ] इत्यनयोस्तृचयोः षैड्ऋचः । “तमु ष्टुहि” इत्येतत्पञ्चदशर्चं सूक्तम् । *तच्चत्वमित्यादिसूक्तानि । “सुते” [ ऋ० सं० म० ६ सू० २३ ऋ० १ ] इत्येतत्प्रथमं दशर्चम् । “वृषा मदः” [ ऋ० सं० म० ६ सू० २४ ऋ० १ ] इत्येतद्द्वितीयमपि सूक्तं [दशर्चम् । “या त ऊतिरवमा”] [ ऋ० सं० म० ६ सू० २५ ऋ० १ इति ] नवर्चम् । “अभूरेकः” इत्यादीन्यष्टौ सूक्तानि । तेषु “अभूरेकः” [ ऋ० सं० म० ६ सू० ३१ ऋ० १ ] इति प्रथमं सूक्तम् । “अपूर्व्या पुरुतमानि” [ ऋ० सं० म० ६ सू० ३२ ऋ० १ ] इति द्वितीयम् । “य ओजिष्ठः” [ ऋ० सं० म० ६ सू० ३३ ऋ० १ ] इति तृतीयम् । “सं च त्वा” [ ऋ० सं० म० ६ सू० ३४ ऋ० १ ] इति चतुर्थम् । “कदा भुवन्” [ ऋ० सं० म० ६ सू० ३५ ऋ० १ ] इति पञ्चमम् । “सत्रा मदासः” [ ऋ० सं० म० ६ सू० ३६ ऋ० १ ] इति षष्ठम् । “अर्वाग्रथः” [ ऋ० सं० म० ६ सू० ३७ ऋ० १ ] इति सप्तमम् । “अपात्” [ऋ० सं० म० ६ सू० ३७ऋ० १ ] इत्यष्टमम् । तान्येतान्यष्टौ सूक्तानि । तान्येतान्यपि प्रत्येकं पञ्चर्चामि । “कथा महाम्” [ऋ० सं० म० ४ सू० २३ ऋ० १ ] इत्येतत्सूक्तमेकादशर्चं तच्च संपातशब्देन व्यवह्रियते । “इन्द्रो मदाय” [ ऋ० सं० म० १ सू० ८१ ऋ० १ ] इत्येका पङ्क्तिच्छन्दस्का । तस्याः पङ्क्तेः प्राचीना ऋचो यद्यप्येकाधिकशतसंख्याकास्तथाऽपि तत्र न(श)तस्य विद्यमानत्वात्तच्छतमित्युच्यते । तानि षड्वीर्याणीत्यादिकं पूर्ववत् ।
दक्षिणोत्तरपक्षयोर्न्यूनातिरिक्तभावं प्रशंसति—
ता ऊनातिरिक्तौ भवतो वृषा वै बृहद्योषा रथंतर-
मतिरिक्तं वै पुंसो न्यूनं स्त्रियै तस्मात् , इति ।
एकयर्चा न्यूनो दक्षिणः पक्षः । उत्तरस्त्वेकयर्चाऽतिरिक्तः । तस्योत्तरस्य बृहद्रूपता बृहतश्चै पुंरूपत्वेनाङ्गाधिक्यं युक्तम् । दक्षिणस्याऽऽर्धत्वाद्रथंतरत्वं तस्य स्त्रीरूपत्वान्न्यूनारङ्गत्त्वं युक्तम् । तस्मादुभौ पक्षौ न्यूनातिरिक्तौ कर्तव्यौ ।
* “ सुत इत्यादीनि त्रीणि सूक्तानि ” इत्यपेक्षितो ग्रन्थः ।
१ ख. ग. 'डारादि' । २ ख. ग. 'रूप' । ३ क. 'नयोः ष' । ४ क. ख. ग. षळृचं । ५ क. °श्च पुरुषाधिक्यत्वे' । ग. °श्च पुरुधिक्यत्वे' । ६ क. ग. 'धन्तत्वा' ।
६४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
प्रकारान्तरेण न्यूनाधिकभावं प्रशंसति— ऊनातिरिक्तौ भवतोऽथो एकेन ह वै पुत्रेण सुपर्णस्योत्तरः पक्षो ज्यायांस्तस्मादे- कयर्चोत्तरः पक्षो भूयान्भवति, इति ।
लोके पक्षिण उत्तरपक्ष एकं पत्रमधिकं भवति, अतोऽत्राप्युत्तरः पक्ष एकयर्चाऽधिकः कर्तव्यः ।
"ता अस्य" [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येवं विधत्ते— अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति , इति ।
पक्षानन्तरं पुच्छभागस्यापेक्षितत्वात्पुच्छं विधत्ते— अथातः पुच्छं ता एकविंशतिर्द्विपदा भवन्त्येकविंश- तिर्हीमानि प्रत्यञ्चि सुपर्णस्य पत्राणि भवन्ति, इति ।
याः पुच्छभागरूपा ऋचस्ताः प्रत्येकं पादद्वयोपेता मिलित्वैकविंशतिसंख्याकाः । ताश्च पञ्चमे शौनकेन "इमा नुक्रम्" [ ऐ० आ० ५ अ० २ ख० २ ] इत्यादिनादाहृताः । "इमा नुक्रम्" [ ऋ० सं० म० १० सू० १५७ ऋ० १ ] इत्यस्मिन्सूक्ते पञ्चर्चः । "आ याहि वनसा सह" [ ऋ० सं० म० १ सू० १७२ ऋ० १ ] इत्यस्मिन्सूक्ते चतस्रः । ता एता नवसंख्याका द्विपदाः शाकल्यसंहितायामाम्नाताः । प्र व इन्द्रायेत्यादिका नवसंख्याका द्विपदाः शाखान्तरगताः । [ "एष ब्रह्मा" इति तिस्रः ] इत्येवमेकविंशतिः । लोकेऽपि पक्षिणः पुच्छे प्रत्यङ्मुखानि पत्राण्येकविंशतिर्भवन्ति, तस्मात्तावतीर्ऋचः शंसेत् ।
प्रकारान्तरेण संख्यां प्रशंसति— अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठा पुच्छं वयसाम् , इति ।
सामवेदप्रसिद्धास्त्रिवृत्पञ्चदशसप्तदशैकविंशनामका ये स्तोमा अग्निष्टोमनिष्पादकास्तेषां मध्य एकविंश एव प्रतिष्ठा समाप्तिहेतुः । पक्षिणां च पुच्छं प्रतिष्ठा, उत्पन्न(त न)वृक्षारोहणस्थित्याद्यावुपयुक्तत्वात् । अतः पुच्छस्यैकविंशतिसंख्या युक्ता ।
अत ऊर्ध्वम् "आधूर्वस्मै" [ ऋ० सं० म० ७ सू० ३४ ऋ० ४ ] इत्येतामन्यां द्विपदां विधत्ते— द्वाविंशीं शंसति प्रतिष्ठयोरैव तद्रूपं क्रियते तस्मा-
१ क. पक्ष्युत्त' ।
अध्या० ४ ख० २(१८)] ऐतरेयारण्यकम्। ६५
त्सर्वाणि वयांसि पुच्छेन प्रतितिष्ठन्ति पुच्छेनैव
मतिष्ठायोत्पतन्ति प्रतिष्ठा हि पुच्छम् , इति ।
अत्र द्वाविंशत्याः शंसनेन विंशतेरुपरि ये द्वे ऋचौ तदेतत्प्रतिष्ठयोः पादयोरेव रूपं क्रियते द्वित्वसंख्यायाः समानत्वात्। तस्मादेव पुच्छस्य प्रतिष्ठाहेतुत्वम् । तस्मात्सर्वेऽपि पक्षिणः पुच्छेन प्रतितिष्ठन्ति भूमौ वृक्षादौ वा पुच्छं पृष्ठत आधारं कृत्वा स्थैर्येणावतिष्ठन्ते । तथा पुच्छेनैव भूमाववस्थितेन प्रतिष्ठाय सकृत्स्थैर्येण स्थित्वा पश्चात्प्रबलेनोत्साहेनोत्पतन्ति । यस्मात्पुच्छं प्रतिष्ठा तस्मादेतद्युक्तम् ।
पुनरपि द्वाविंशतिसंख्यां प्रकारान्तरेण प्रशंसति—
स एष द्वाभ्यां दशिनीभ्यां विराड्भ्यामनयोर्द्वाविंशयोर्द्विपदयोरयं पुरुषः प्रतिष्ठितस्तस्य यत्सुपर्णरूपं तदस्य कापानामभ्याप्त्या अथ यत्पुरुषरूपं तदस्य श्रियै यशसेऽन्नाद्यायापचित्यै, इति ।
द्वाविंशतिसंख्याकानामृचां मध्ये द्वे अवसानगते ऋचौ परिशेष्य ततः पूर्वभाविनी या ऋचां विंशतिस्तस्या द्वे दशिन्यौ दश संख्योपेतसमूहावत एव तयोर्विराट्त्वम् । द्वाभ्यां [दशिनीभ्यां] स एष शस्त्ररूपः सुपर्णः प्रतिष्ठित इत्यन्वयः । ये तूत्तरापूरिके द्वे ऋचौ द्विपदारूपे तयोर्ऋचोरयं पुरुषो द्विपाद्यजमानः प्रतिष्ठितः । तथा सति तस्य शस्त्रस्य दशकद्वयात्मकं यत्सुपर्णरूपं तदस्य यजमानस्य कापानामभितः प्राप्त्यै संपद्यते । अनन्तरमृग्द्वयात्मकं यत्पुरुषरूपमुक्तं तदस्य यजमानस्य श्रीयशोन्नाद्यपूजार्थं संपद्यते ।
यथोक्तद्वाविंशतेरूर्ध्वमुभयतः सूदोहसां चेष्टितं "यद्वावान पुरुतमम्" [ ऋ० सं० म० १० सू० ७४ ऋ० ६ ] इति धाय्यां [च?] विधत्ते—
अथ सूददोहा अथ धाय्याऽथ सूददोहा वृषा वै सूददोहा
योषा धाय्या तदुभयतः सूददोहसा धाय्यां परिशंसति
तस्माद्द्वयो रेतः सिक्तं सदेकतामेवाप्येति योषामेवाभ्यत
आजाना हि योषाऽतः प्रजाना तस्मादेनामत्र शंसति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये
द्वितीयः खण्डः ॥ २ ॥ ( १८ )
उभयतः पठितायाः सूददोहस आधिक्यात्पुरुषत्वम् । मध्ये पठिताया यद्वावानेति धाय्याया अल्पत्वेन स्त्रीरूपत्वम् । तस्मान्मिथुनसिद्धयर्थमुभयथा(तः) सूददो-
१ क. ˚यया सू ˚ ।
९
६६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके—
हसा युक्तां धाय्यां परिशंसेत् । पुरुषपरिष्वक्तयोषित्प्रभूतसूददोहसा सह धाय्या संयोजिता, तस्मादेव लोकेऽपि द्वयोः स्त्रीपुरुषयोः संबन्धि रेतो गर्भाशये निषिक्तं सदैकत्वमेवाभिलक्ष्य तन्मिलितमेवावतिष्ठते न पुरुषशरीरः (?) । हि यस्मात्कारणादियं योषाऽऽजानाना(षाऽऽजाना), अस्मान्मिलिताद्रेतोद्वयात्साकल्येन शरीरो व्यवतिष्ठते यस्यां योषायों सेयमतः प्र(त आ)जाना । अथवा विवक्ष्यते—“तद्यथा(दा) स्त्रियां सिञ्चत्यथैनज्जनयति” [ऐ० आ० २ अ० १ ख० १] इति । अतः कारणादियं योषा प्रजानाना(प्रजाना) । प्रकृष्टो जातः(नः?) पुत्रपौत्रोत्पादनं यस्याः सा प्रजाना । यस्मादेवं धाय्या प्रशस्ता तस्मादेतां धाय्यामस्मिन्विजवभागे पठेत् । पक्षमूला ऋचो विजवा विवक्षिताः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके चतुर्थाध्याये द्वितीयः खण्डः ॥ २ ॥ ( १८ )
अथ तृतीयः खण्डः । ( ऊनविंशः )
अथ तस्य पक्षिणोऽन्नरूपा अशीतयो वक्तव्यास्तत्रैकाऽशीतिः —
[*गायत्रीं तृचाशीतिं शंसत्ययं वै लोको गायत्री तृचाशीतिर्यदेवास्मिँल्लोके यशो यन्महो यन्मिथुनं यदन्नाद्यं याऽपचितिस्तदश्रवै तदामवानि तदवरुणधै तन्मेऽसदिति, इति । गायत्री तृचाशीतिरयमेव लोकोऽतो यदस्मिँल्लोके] यशः कीर्तिर्यच्च महः पूजा यच्च मिथुनं भार्यासंबन्धि यच्चान्नाद्यं भक्ष्यभोज्यादिकं याऽपचितिः पूजा । वेदशास्त्रप्रयुक्ता पूजा महःशब्देन पूर्वमुक्ता । तेजो वा तत्रोक्तमत्र तु धनधान्यादिसमृद्धिरूपा पूजोच्यते । तद्यशःप्रभृतिकमपचित्यन्तं सर्वमश्रवै प्राप्त(व्याप्र)वानि । पुत्रपौत्रादिषु तत्संपदधीनत्वं व्याप्तत्वम् । तत्सिद्धयर्थमादौ तद्यशःप्रभृतिकमामवानि संपादयामि । संपादितं तत्सर्वं +तदवरुणधै स्वाधीनं करवाणि । तच्च स्वाधीनं मे मदीयगृहेष्वसत्, अस्तु¹ । तदानीमित्यभिप्रेत्य गायत्रीं तृचाशीतिं पठेत् । “ ता अस्य ” [ ऋ० सं० म० ८ सू० ६९ ऋ० ३ ] इत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः [*प्राणेनेमं लोकं संतनोति, इति ।
* एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृत्य तदतिरिक्तं च प्रकल्प्यात्र निवेशितम् ।
+ तच्छब्दोऽयमधिकः । * एतच्चिह्नान्तर्गतं मूलं मूलपुस्तकेभ्य उद्धृतं तदतिरिक्तं कल्पितम् ।
१ ख. ग. घ. 'स्तु । दानित्वित्य' ।
अध्या० ४ ख० ३ (१९)] ऐतरेयारण्यकम् । ६७
बृहतीछन्दस्कां तृचाशीतिं विधत्ते—
बार्हतीं तृचाशीतिं शंसत्यन्तरिक्षलोको वै बार्हती तृचाशीतिर्यदेवान्तरिक्षलोके यशो यन्महो यन्मि- थुनं यदन्नाद्यं याऽपचितिस्तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूददोहाः] प्राणेनान्तरिक्षलोकं संतनोति, इति ।
सेयं बार्हती तृचाशीतिः “मा चिदन्यः” ( ऐ० आ० ५ अ० २ ख० ४ ) इत्यादिः पञ्चमे शौनकेनोदाहृता । द्वितीयत्वादस्या अन्तरिक्षरूपत्वम् । अन्यत्पूर्व- व्याख्येयम् ।
उष्णिग्छन्दस्कां तृचाशीतिं विधत्ते—
औष्णिहीं तृचाशीतिं शंसत्यसौ वै लोको द्यौरौष्णिही तृचाशीतिर्यदेवामुष्मिंल्लोके यशो यन्महो यन्मिथुनं यद- न्नाद्यं याऽपचितिर्यद्देवानां दैवं तदश्नवै तदाप्नवानि तदवरुणधै तन्मेऽसदित्यथ सूददोहाः प्राणो वै सूद- दोहाः प्राणेनामुं लोकं संतनोति संतनोति, इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
सेयमौष्णिही पञ्चमे—“य इन्द्र सोमपातमः” [ ऐ० आ० ५ अ० २ ख० ५ ] इत्यादिनोदाहृता । अस्या उपरितनत्वादुद्युलोकरूपत्वम् । यद्यपि प्रायेण वेदेष्वयं लोकोऽसौ लोक इति भूलो[कद्युलो]कावेवाभिधीयेते तथाऽपि द्यौरित्यभिधानं विस्पष्टा- र्थम् । देवानामिन्द्रादीनां दैवं पूज्यं ब्रह्म । तथा च श्वेताश्वतरा आमनन्ति—“तमी- श्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम्” इति । अन्यत्पूर्ववद्व्याख्येयम् । अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये प्रथमारण्यके चतुर्थाध्याये तृतीयः खण्डः ॥ ३ ॥ ( १९ )
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यकभाष्ये प्रथमारण्यके चतुर्थोऽध्यायः ॥ ४ ॥
अथ प्रथमारण्यके पञ्चमोऽध्यायः । तत्र प्रथमः खण्डः । (विंशः)
चतुर्थे शस्त्रपक्षिणो ग्रीवास्यभाग उक्तः । अन्ते तृचाशीतयोऽन्नरूपा अभिहिताः । तस्यान्नस्य धारणार्थमुदरं वक्तव्यमतस्तद्रूपं वशानामकं शस्त्रभागं विधत्ते—
वशं शंसति वशे म इदं सर्वमसदिति, [ इति । ]
यदिदं स्थावरजङ्गमस्वरूपं जगदस्ति तत्सर्वं मे वशे भूयादित्यभिप्रेत्य वशाख्यं शस्त्रभागं *पाठं पठेत् । स च भागः “त्वाऽवतः पुरूवसो” [ ऐ० आ० ५ अ० २ ख० ५ ] इत्यादिना पञ्चमे स्पष्टमुदाहृतः । वशानामकेन महर्षिणा दृष्टत्वात्तदेतत्सूक्तं वशमित्युच्यते ।
तत्सूक्तगतामृक्संख्यां प्रशंसति— ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति ।
“त्वाऽवतः” [ ऋ० सं० म० ८ सू० ४६ ऋ० १ ] इत्यारभ्य “सनितः सुसनितः” [ ऋ० सं० म० ८ सू० ४६ ऋ० २० ] इत्यन्ता विंशतिः । ततः सूददोहा एकेत्येवमेकविंशतिर्द्रष्टव्या । हि यस्मादुदरमध्ये विद्यमानाः क्लोमैप्लीहाद्यवयवरूपा विकृतय एकविंशतिसंख्याकास्तस्माद्वशभागे संख्या प्रशस्ता । ते चावयवास्तत्र तत्रानुवर्तमानप्रकरणादौ द्रष्टव्याः ।
प्रकारान्तरेण संख्यां प्रशंसति— अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति ।
त्रिवृदादिस्तोमानां मध्य एकविंशस्तोमस्य प्रतिष्ठात्वं पूर्वत्रोक्तम् । उदरस्य स्वन्नाधारत्वं प्रसिद्धम् ।
तास्वृक्षु विद्यमानं परस्परविलक्षणच्छन्दस्त्वं प्रशंसति— ता विच्छन्दसो भवन्ति विश्रुद्रमिव वा अन्त- स्त्यमणीय इव च स्थवीय इव च, इति ।
“त्वाऽवतः” [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिको ऋचो वशनाम्ना विहिताः परस्परविलक्षणच्छन्दोयुक्ताः । एतच्चानुक्रमणिकायां विस्पष्टमुक्तम्—“त्वाऽवतस्त्रयस्त्रिंशद्दशारुया आद्या पादनिचृत्” इत्यारभ्य “पञ्चम्यादिककुप्प्रगाथगायत्री-
* अत्र पाठशब्दोऽधिक इव भाति ।
१ क. ख. घ. 'मकैः शस्त्रैर्भागं । २ क. 'माना या लोम' । ख. ग. घ. ᵒमाना या क्लो' ।
३ ख. ग. घ. 'मग्नीवाद्य' । ४ ख. ग. घ. तत्र यमुर्वर्तं' । ५ क. ख. ग. घ. 'का या ऋ' ।
अध्या० ५ ख० १(२०)] ऐतरेयारण्यकम् । ६९
बृहत्यनुष्टुप्सतो बृहती गायत्री" इत्यादि। तदेतन्नानाछन्दस्त्वमुदररूपस्य वशस्य योग्यम्। लोकेऽप्यन्तस्त्यमुदरमध्यवर्ति क्लोमप्लीहादिकं^१ विक्षुद्रमिव वै विविधत्वेनाल्पमेवा- ल्पत्वेन दृश्यते। एकस्मादितरदल्पं ततोऽप्यन्यदल्पमित्येवं विविधं क्षुद्रत्वम्। तदेवा- णीय इत्यादिनोदाह्रियते। द्विविधमात्रं(त्रं) स्थूलं सूक्ष्मं च तस्मादुभयातिशयेन स्थूलं हृदयमत्र। एवं क्लोमप्लीहादिषु यथायोग्यं द्रष्टव्यम्।
शंसने प्रकारविशेषं विधत्ते—
ताः प्रणवं छन्दस्कारं यथोपपादं शंसति यथोपपादामिव वा अन्तस्त्यं ह्रसीय इव च द्राघीय इव च, इति।
या ऋचः—"त्वाऽवतः" [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिकाः सन्ति तासां शंसनकाले प्रणवं प्रणुत्य पुनः पुनः प्रणवमुच्चार्य च्छन्दस्कारं तत्तच्छन्दो यथा न विपर्येति तथा तत्र कृत्वा यथोपपादमुक्तनियगमनतिक्रम्य यथा शंसनमुप- पद्यते तथा शंसेत्। एतदर्थमेव संदिग्धामृचं विभज्य शौनको दर्शयति—"ददी- रेक्ण इति द्विपदा नूनमथेत्येकपदा" [ऐ० आ० ५ अ० २ ख० १] इति। तत्र शंसनप्रकार आश्वलायनेनोदाहृतः—"पच्छो द्विपदा उपसंतनुयादेकपदाः" इति। अयमर्थः—या ऋचो द्विपदाः सन्ति ताः पच्छः शंसनीयाः, प्रथमपादं पठित्वा ततोऽवसाय पश्चाद्वितीयं पादं^२ पठित्वाऽन्ते प्रणवं कुर्यात्। या एकपदाः सन्ति ताः पुरस्तादुपरिष्टाच्च प्रणवाभ्यां संतनुयात्। मध्ये च नावस्येती(दी)दृशं शंसनं यथोपपा- दमित्युच्यते। अन्तस्त्यमुरो मध्येऽवस्थितमप्यत्र क्लोमप्लीहादिकं यथोपपन्नं भवति तथैवावतिष्ठते। किंचिदङ्गमतिह्रस्वमिवान्यदङ्गमतिदीर्घमिव स्थितं तस्मात्तत्सादृश्याय न्यूनाधिकच्छन्दांसि यथा तथा शंसेत्।
ता अस्येत्येतामृचं विधत्ते—
अथ सूददोहाः प्राणो वै सूददोहाः प्राणेन पर्वाणि संदधाति, इति।
वशाभागस्य शंसनादूर्ध्वं "ता अस्य" [ऋ० सं० म० ८ सू० ६९ ऋ० ३] इत्यस्या ऋचः परित्यागं विधत्ते—
तामत्रोत्सृजति द्वादशकृत्वः शस्त्वा द्वादश- विधा वा इमे प्राणाः सप्त शीर्षण्या द्वौ स्तन्यौ त्रयोऽवाञ्चोऽत्र वै प्राणा आप्यन्तेऽत्र संस्क्रियन्ते तस्मादेनामत्रोत्सृजति, इति।
१ क. ˚त्ति यत्क्लोम˚। २ ग. घ. पादमवसायान्ते।
७० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-
तां सूददोहसं द्वादशवारं पठित्वा तत ऊर्ध्वमत्र वशाशंसनस्थाने परित्यजेत् । न त्वित ऊर्ध्वमूरुभागस्थाने तां सूददोहसं पठेत् । शस्त्रपक्षिणः पूर्वोक्ता एकादशावयवा आत्मा ग्रीवा शिरो विजबौ द्वौ पक्षौ पुच्छं तृचाशीतिरूपाणि त्रीण्यन्नानि वशाख्य- मुदरं चेति, तत्र सर्वत्र सूददोहाः सकृत्पठिता पुच्छे तु धाय्यायाः पुरस्तादुपरिष्टाच्च द्विः पठिता, एवं द्वादशावृत्तिः । शरीरगता इमे प्राणाश्च छिद्रभेदेन द्वादशविधाः । शिरसि सप्त छिद्राणि, स्तनयोर्द्वे छिद्रे, नाभ्यां पायुगुदयोश्च त्रीणि । एतेषु द्वादशसु च्छिद्रेष्वेव सर्वे प्राणाः प्राप्यन्ते । अत एव मन्त्रात्मना ते प्राणाः संस्क्रियन्ते । यस्मा- द्द्वादशविधप्राणसाम्यमत्र समाप्तं तस्मादेनामूर्ध्वमत्र परित्यजेत् । न तूपरितन ऊरुभागे पठेत् ।
उदरभागमुक्त्वा शस्त्रपक्षिण ऊरुभागं विधत्ते—
इन्द्राग्नी युवं सु न इत्यैन्द्राग्ना ऊरू उर्वष्ठीवे प्रतिष्ठे, इति ।
‘‘इन्द्राग्नी युवम्’’ इत्यादिसूक्तं द्वादशर्चं तच्च शस्त्रपक्षिण ऊरुत्वेन पठनीयम् । अस्मिन्सूक्ते याविन्द्राग्नी प्रतीयेते तयोः संबन्धिनौ पक्षिण ऊरू । ‘‘इन्द्राग्नी वै देवा- नामोजिष्ठौ बलिष्ठौ’’ [ तै० ब्रा० का० ३ प्र० ८ अ० ७ ] इति तयोः प्रवलत्व- श्रवणादूर्वोश्च गमनादिव्यवहारहेतुत्वेन प्रबलत्वात् ।
[एतत्सूक्तगतानामृचां षट्पदत्वं प्रशंसति—]
ताः षट्पदा भवन्ति प्रतिष्ठाया एव द्विप्रतिष्ठो वै पुरुषश्चतुष्पादाः पशवो यजमानमेव तद्वि- प्रतिष्ठं चतुष्पात्सु पशुषु प्रतिष्ठापयति, इति ।
अस्मिन्सूक्ते द्वितीयस्या अन्तिमायाश्च विशेषस्य वक्ष्यमाणत्वाद्या अवशिष्टा दशर्चः सन्ति ताः प्रत्येकं षट्पदा भवन्ति । तच्च प्रतिष्ठार्थमेव संपद्यते । तत्कथमिति तदु- च्यते—लोके मनुष्यः पादद्वयेन भूमौ प्रतिष्ठति । पशवस्तु चतुष्पादा वर्तन्ते । एवं सत्यत्रापि तत्तेन पादषट्कपाठेन पादद्वयोपेतं यजमानं चतुष्पात्सु प्रतिष्ठितं करोति ।
द्वितीयायां—‘‘न हि वां ववृयामहे’’ [ ऋ० सं० म० ८ सू० ४० ऋ० २ ] इत्येतस्यामृचि विशेषं विधत्ते*—
द्वितीया सप्तपदा भवति तां गायत्रीं चानुष्टुभं च करोति ब्रह्म वै गायत्री वागनुष्टुब्ब्रह्मणैव तद्वाचं संदधाति, इति ।
इन्द्राग्नी युवं सु०—ऋ० सं० म० ८ सू० ४० ऋ० १ ।
* क. ख. पुस्तकयोरेतदग्रे—‘‘एकस्मिन्पादेऽवसायोत्तरस्मिन्पादे प्रणवप्रयोगः पादशं- सनम् । इत्यधिकम् ।
अध्या० ५ ख० २ (२१)] ऐतरेयारण्यकम् । ७१
द्वितीयास्या ऋचः संबन्धिभिः सप्तभिः पादैर्गायत्रीं कृत्वा शंसेत् । पादद्वयेऽवसाय तृतीयपादे प्रणवो गायत्रीकरणम् । अवशिष्टेन पादचतुष्टयेनानुष्टुभं कृत्वा शंसेत् । पादद्वयेऽवसाय चतुर्थपादे प्रणवप्रयोगोऽनुष्टुप्करणम् । तत्र या त्वत्र निष्पाद्या गायत्री सा ब्रह्मैव “तत्सवितुर्वरेण्यम्”— [ऋ० सं० म० ३ सू० ६२ ऋ० १०] इत्यनया गायत्र्या परब्रह्मणः प्रतिपादितत्वात् । या तु पादचतुष्टयसंपन्नाऽनुष्टुप्सा वाग्रूपा वाग्विशेषाणां मध्ये प्रशस्तत्वात् । गायत्र्यनुष्टुभोः संपादनेन परब्रह्मणैव सह वाग्देवता संयोजिता भवति ।
[*अन्तिमाया विशेषं विधत्ते—
त्रिष्टुभमन्ततः शंसति वीर्यं वै त्रिष्टुब्वीर्येणैव तत्पशून्परिगच्छति तस्मात्पशवो वीर्यमनूपतिष्ठन्त ईर्यतां चैत्राभ्युत्थानं च, इति ॥ ]
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये
प्रथमः खण्डः ॥ १ ॥ ( २० )
अन्ततः सूक्तस्यावसाने या त्रिष्टुप्छन्दस्काऽऽम्नाता तां त्रिष्टुभः समयनैव शंसेत् । [+तदेव त्रिष्टुप्समयः । १) त्रिष्टुभो वीर्यहेतुत्वाद्वीर्यरूपत्वं तत्तेन त्रिष्टुप्संशसनेनायं पुरुषः स्वसामर्थ्येनैव पशून्परितः प्राप्नोति । यस्मादेवं तस्माल्लोके पशवो वीर्यमनूपतिष्ठन्ते वाक्पारुष्येण दण्डपारुष्येण वा गोपालवीर्यमवधार्य प्रत्याव्रजन्ति । तथा तद्वीर्यवशादीर्यतां च शयनादभ्युत्थानं च प्राप्नुवन्त्ये(*व न) वेति शेषः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २० )
अथ द्वितीयः खण्डः । ( एकविंशः )
[ अथ शस्त्रपक्षिणोऽन्यावयवविधानार्थं सूक्तान्तरविधानार्थं च खण्डान्तरारम्भः । ]
तस्य चैवाऽऽरम्भे सूक्तान्तरं विधत्ते—
प्र वो महे मन्दमानायान्धस इत्यैन्द्रे निष्केवल्ये
प्र वो महे०—ऋ० सं० म० १० सू० ९० ऋ० १ ।
* एतच्चिह्नान्तर्गतो मूलातिरिक्तो ग्रन्थः प्रकल्प्य मूलग्रन्थश्च मूलपुस्तकेभ्य उद्धृत्यात्र निवेशितः । + एतच्चिह्नान्तर्गतो ग्रन्थोऽधिकः । * एतच्चिह्नान्तर्गतमधिकम् । अथवा वाशब्दस्थाने एवशब्दं पठित्वा योज्यम् ।
१ ख. ग. घ. ‘त् । को नाम गा’ ।