भारतकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

प्रथमः खण्डः ॥ १ ॥ ( २६ )

अध्या० ७ ख० १(२६)] ऐतरेयारण्यकम्। १८३

नाहोरात्रान्संदधाम्यृतं वदिष्यामि सत्यं वदिष्यामि तन्मा- मवतु तद्वक्तारमवत्ववतु मामवतु वक्तारमवतु वक्तारम्, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २६ ) इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥ इति बह्वृचब्राह्मणारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ॥ २ ॥

यथोक्ततत्त्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मदीया वाक्सर्वदा मनसि प्रतिष्ठिता । मनसा यद्यच्छब्दजातं विवक्षितं तदेव पठति । मनश्च मदीयवाचि प्रतिष्ठितम् । यद्यद्विद्याप्रतिपादकत्वेन वक्तव्यं शब्दजातमस्ति तदेव मनसा विवक्ष्यते । एवमन्योन्यानुगृहीते वाङ्मनसे विद्यार्थं ग्रन्थं साकल्येनावधारयितुं शक्नुतः । मनसः सावधानत्वाभावे वागिन्द्रियं सुप्तोन्मत्तप्रलापादिवद्यत्किंचिदसंगतं ब्रूयात् । तथा च वाचः पाटवाभावे सति गद्गदरूपया वाचा विवक्षितं सर्वं यथावन्नोच्चार्यते । अतस्तयोरन्योन्यानुकूल्यमस्त्वित्येवं प्रार्थ्यते । आविःशब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते । प्रज्ञानशब्देन व्यवहृतत्वात्तस्याऽऽविर्भूतरूपत्वम् । तथाविध हे आत्मन्मे मदर्थमावीरेधि । अविद्यावरणापनयनेन प्रकटी भव । हे वाङ्मनसे मे मदर्थं वेदस्य यथोक्ततत्त्वविद्याप्रतिपादकस्य ग्रन्थस्याऽऽणी स्थः । विद्याया आनयनसमर्थे भवेताम् । मे श्रुतं मया श्रोत्रेणावगतं ग्रन्थार्थजातं मा प्रहासीन्मा परित्यजतु, विस्मृतं मा भूदित्यर्थः । अनेनाधीतेन विस्मरणरहितेन ग्रन्थेनाहोरात्रान्संदधामि संयोजयामि । अहनि रात्रौ चाऽऽलस्यं परित्यज्य निरन्तरं पठामीत्यर्थः । तस्मिन्पठिते ग्रन्थ ऋतं परमात्मभूतं वस्तु वदिष्यामि । विपरीतार्थवदनं कदाचिदपि मा भूदित्यर्थः । ऋतं मानसं, सत्यं वाचिकं, मनसा वस्तुतत्त्वं विचार्य वाचा वदिष्यामीत्यर्थः । तन्मया वक्ष्यमाणं ब्रह्मतत्त्वं मां शिष्यमवतु सम्यग्बोधेन पालयतु । तथा तद्ब्रह्मतत्त्वं वक्तारमाचार्यमवतु, बोधकत्वसामर्थ्यप्रदानेन पालयतु । पुनरप्यवतु मामित्याद्युक्तिः फलविषया । पूर्वं साधनकाले शिष्याचार्ययोः पालनं प्रार्थितमिदानीं फलकालेऽपि प्रार्थ्यते । तत्र शिष्य-


१ घ. ङ. ॰नसी वि॰ । २ ग. ॰त् । यथा वा॰ । ३ क. ख. ग. ॰चा सर्वं विवक्षितं य॰ । ४ घ. ङ. ॰विर्भावरू॰ । ५ घ. ङ. भवतः । ६ क. ख. घ. ङ. ग्रन्थं तदर्थं । ७ घ. ङ. ॰चिकं, आधिकं म॰ । ८ घ. ङ. ॰यैकाले शिष्याचार्ययोः पालनानीत्यर्थः । वां॰ । ९ घ. ङ. ॰उत्त्ववि॰ । १० क. ख. ग. ॰ते । शि॰ ।

१८४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्—[२द्वितीयारण्यकम्]

स्याविद्यातत्कार्यनिवृत्तिः फलम् । आर्यस्य तादृशशिष्यदर्शनेन विद्यासंप्रदायप्रवृत्ति- प्रयुक्तः परितोषः फलम् । अनेन मन्त्रपाठेन विद्योत्पत्तेः पुरा विद्याप्रतिबन्धका विघ्नाः परिह्रियन्ते । विद्योत्पत्तेरूर्ध्वमसंभावनाविपरीतभावनेोत्पादका विघ्नाः परिह्रि- यन्ते । अवतु वक्तारमित्यभ्यासोऽध्यायसमाप्त्यर्थो द्वितीयारण्यकसमाप्त्यर्थश्च ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये द्वितीयारण्यके सप्तमाध्याये प्रथमः खण्डः ॥ १ ॥ ( २६ )

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यककाण्डभाष्ये द्वितीयारण्यके सप्तमोऽध्यायः ॥ ७ ॥

इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे द्वितीयारण्यकं समाप्तम् ॥ २ ॥

( आदितः समष्ट्यङ्काः—आर० २ अध्या० १२ ख० ४८ )


१ घ. ङ. ॰रः । तुरंगवदनो दयात्तरंगनयनाञ्चितः । उरगाधिपतत्सोमे गिरं गरुडवाहनः । इ° ।

अथ तृतीयारण्यकम् ।

प्रथमोऽध्यायः । तत्र प्रथमः खण्डः ।

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
प्राणविद्या मध्यमस्य ब्रह्मविद्योत्तमस्य च ।
पूर्वोक्ताऽधमस्याथ संहितोपास्तिरीर्यते$^१$ ॥ २ ॥

त्रिविधो विद्याधिकारी, उत्तमो मध्यमोऽधमश्च । सर्वस्मात्संसाराद्विरक्त एकाग्रचित्तः$^२$ सद्योमुक्तिकाम उत्तमस्तं प्रति “आत्मा वा इदमेक एवाग्र आसीत्” [ ऐ० आ० २ अ० ४ ख० १ ] इत्यादिना ब्रह्मविद्योक्ता । हिरण्यगर्भप्राप्तिद्वारा क्रममुक्तिकामो मध्यमस्तं प्रति “उक्थमुक्थम्” [ ऐ० आ० २ अ० १ ख० २ ] इत्यादिना प्राणविद्योक्ता । यस्तु द्विविधां मुक्तिमकामयमानः प्रजापश्वादिकमामुष्कामोऽधमस्तं प्रति संहितोपासनं तृतीयारण्यकेऽभिधीयते । तत्रोपासनं प्रतिजानीते—

अथातः संहिताया उपनिषत्, इति ।

अथ प्राणविद्याब्रह्मविद्ययोः कथनानन्तरं यतः कारणात्तच्चलया पाठवासनया युक्तस्य पाठसंबन्धरहितयोः प्राणब्रह्मविद्ययोश्चित्तं न प्रविशत्यतः कारणात्संहितायाः पाठसंबन्धिन्या उपनिषद्द्वि$^३$योच्यत इति शेषः । उपनिषण्णमस्यां विद्यायां प्रजापश्वादिफलमुपनिषत् ।

तामेतां विद्यां विधत्ते—

पृथिवी पूर्वरूपं द्यौरुत्तररूपं वायुः संहितेति माण्डूकेय
आकाशः संहितेत्यस्य माक्षव्यो वेदं$^४$यांचक्रे, इति ।

“अग्निमीळे” [ऋ० सं० म० १ सू० १ ऋ० १] इत्यत्राग्निमिति यो मकारः सोऽयं संहितायाः पूर्वरूपो वर्णः । ईळ इत्यत्र योऽयमीकारः सोऽयं संहिताया उत्तरो वर्णः । द्वयोर्वर्णयोर्नैरन्तर्येणोच्चारणं संहिता “पर संनिकर्षः संहिता” [ पा० सू० १ । १ ] इति सूत्रितत्वात् । एतासु पूर्वोत्तरवर्णतत्संहितासु भूलोकद्युलोकवायू$^५$नां दृष्टिः कर्तव्या । यद्यपि पृथिव्यादीनां प्रथमनिर्दिष्टत्वात्प्रतीकत्वं प्राप्तं तथाऽपि “एव-


१ घ. ङ. ॰स्तिरिष्यते । २ ख. ग. ॰चित्तोऽनघो मू॰ । ३ घ. ङ. ॰द्विचार्यत । ४ ग. ॰यंसंहि॰ । ५ क. ख. ॰वायुदृ॰ ।
२४

१८६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

मेतां संहितां वेद" [ऐ० आ० ३ अ० १ ख० १] इति संहिताया उपास्यत्वश्रवणात्पूर्ववर्णादीनां पृथिव्यादिदृष्ट्योपासनं गम्यते । यथा विष्णुदृष्ट्या शालग्रामोपास्तिस्तद्वत् । मण्डूकनाम्नो महर्षेः पुत्रो माण्डूकेयस्तस्य च माण्डूकेयस्य संहितायां वायुदृष्टिरित्येतन्मतम् । मक्षुनाम्नः कस्यचिन्महर्षेः पुत्रो माक्षव्यः । स चास्योपासनस्य संबन्धिन्यां संहितायामाकाशदृष्टिः कर्तव्येति वेदद्यांचक्रे विज्ञातवान् ।

माक्षव्यस्य महर्षेरभिप्रायं दर्शयति—

स हाविपरिहृतो मेने न मेऽस्य पुत्रेण समगादिति, इति ।

स ह सोऽपि वायुरविपरिहृतो विशेषेण परिहृतो न भवति । वायोराकाशवर्तित्वेनाऽऽकाश एवान्तर्भावात् । आकाशस्तु न वायावन्तर्भवति । वायुकारणत्वादधिकैव्याप्तित्वाच्च । अतोऽस्य मण्डूकस्य पुत्रेण सह मे मम न समगात् । दर्शनं न संगतं मदीयमतं नैकविधं<sup></sup> भवति । मन्मते वायोरन्तर्भावेन वाय्वाकाशोभयदृष्टिः संहितायां सिध्यति । तन्मते त्वाकाशस्यानन्तर्भूतत्वाद्वायुमात्रदृष्टिरेवातो मन्मतमेव श्रेष्ठमिति मेने निश्चितवान् । ततो वाय्वाकाशयोर्विकल्पेन ध्यानं न भवति किंतु वायुध्यानं पूर्वपक्ष आकाशध्यानं सिद्धान्त इत्यर्थः ।

इदानीं मतान्तरानुसारेण तयोस्तुल्यबलत्वमभिप्रेत्य विकल्पेन ध्यानं दर्शयति—

समाने वै तत्परिहृतो मेन इत्यागस्त्यः समानं ह्येतद्भवति वायुश्चाऽऽकाशश्चेति, इति ।

अगस्त्यस्य पुत्र आगस्त्यो महर्षिरित्थं मेने निश्चितवान् । कथमिति तदुच्यते— समाने वै यदेतद्वायुः संहितेति माण्डूकेयस्य मतं यच्चाऽऽकाशः संहितेति माक्षव्यस्य मतं ते उभे अपि तुल्यबले एव । वायोराकाशवर्तित्वमप्रयोजकम् । नहि वस्तूनां स्वभावानुसारेण किंचिदुपासनं प्रवर्तते, किंतु वचनानुसारेण । वचनं तु वायुः संहितेति पक्ष आकाशः संहितेति पक्षे च समानम् । तत्तस्मात्कारणात्परिहृत आकाशपक्षे वायोरनन्तर्भावाद्व्रायुः परित्यक्तैश्च<sup></sup> । तथा सति वायुश्चाऽऽकाशश्चेत्येतन्मतद्वयं समानमेव भवति । तस्माद्विकल्पेन संहितायां वाय्वाकाशयोर्दृष्टिः कर्तव्येति तत्रै<sup></sup> मुख्यः<sup></sup> सिद्धान्तः ।

पूर्वोत्तरवर्णतत्संहितासु पृथिव्यादिध्यानं यदुक्तं सोऽयमुपासनस्य पूर्वो भागः, वक्ष्यमाणस्तूत्तरो भागः । तदुभयं बुद्धिसौकर्याय विभजते—

इत्यधिदैवतमथाध्यात्मम् , इति ।


१ क. ख. ॰कप्राप्तिं । २ ग. घ. ङ. ॰तं चैकविधं न भ॰ । ३ ग. ॰क्त एव । त॰ । ४ घ. ङ. ॰ति मुं॰ । ५ क. ख. ॰त्र सि॰ ।

अध्या० १।ख० १] ऐतरेयारण्यकम्। १८७

इतिशब्दः पूर्वोक्तं “पृथिवी पूर्वरूपम्” इत्यादिकं परामृशति । तच्चाधिदैवतं पृथिव्यादिकं दैवतमधिकृत्य वर्तमानमुपासनम् । अथानन्तरमात्मानं वागादिसंघातरूपमधिकृत्य वर्तत इत्यध्यात्ममुपासनमुच्यत इति शेषः ।

तदेतदुपासनं विधत्ते—

वाक्पूर्वरूपं मन उत्तररूपं प्राणः संहितेति शूरवीरो माण्डूकेयः, इति ।

पूर्ववर्णे वाग्दृष्टिरुत्तरवर्णे मनोदृष्टिस्तदुभयसंश्लेषे प्राणदृष्टिरित्येतन्माण्डूकेयस्य मतम् । स च माण्डूकेयः शूरवीरः । उपासनायां निरन्तरं प्रवर्तमानाः शूरास्तैः पुरुषैर्बहिः प्रवर्तमानानामिन्द्रियाणां जितत्वात् । तेषु शूरेषु वीरोऽत्यन्तपराक्रमयुक्तः । उपास्यवस्तुसाक्षात्कारवानित्यर्थः ।

अत्रैव मतान्तरमाह—

अथ हास्य पुत्र आह ज्येष्ठो मनः पूर्वरूपं वागुत्तररूपं
मनसा वा अग्रे संकल्पयत्यथ वाचा व्याहरति तस्मान्मन
एव पूर्वरूपं वागुत्तररूपं प्राणस्त्वेव संहितेति, इति ।

अथ माण्डूकेयोक्त्यनन्तरमस्य माण्डूकेयस्य ज्येष्ठः पुत्रो मनतो वाचश्च पूर्वोक्तविपर्ययमाह । तत्रोपपत्तिं चावोचत् । लोके विवक्षुः सर्वः पुरुष इमं वक्ष्यामीत्येवं प्रथमं संकल्पयति पश्चादुच्चारयति तस्माद्वस्तुतत्वमनुसृत्य पूर्ववर्णे मनोदृष्टिरुत्तरवर्णे वाग्दृष्टिश्च कर्तव्या । या तु वर्णयोः संहिता तस्यां पूर्वोक्तः प्राण एव ध्यातव्यो न तु तत्र कश्चिन्मतभेदोऽस्तीत्येवं ज्येष्ठः पुत्र उक्तवान् ।

एवं सति सोपपत्तिकत्वादयमेव सिद्धान्त इति प्रतिभासते । तत्र श्रुतिर्मतद्वयस्य समानत्वमभिप्रेत्य विकल्पमेव सिद्धान्तयति—

समानमेतयोरत्र पितुश्च पुत्रस्य च, इति ।

न ह्युपासना वस्तुतत्त्वमपेक्षते^१ किं तर्हि यथावचनमनुष्ठेयेति^२ न्यायः पूर्वमेवोक्तः । तस्माद्यः पिता माण्डूकेयो यश्च तदीयो ज्येष्ठः पुत्र एनयोरुभयोर्मतं समानम् । तस्मान्मनोदृष्टिवाग्दृष्ट्योः पूर्वोत्तरभावित्वं विकल्प्यते^४ ।

अधिदैवतमध्यात्मं च यदुपासनमुक्तं तत्प्रशंसति—

स एषोऽश्वरथः प्रष्टिवाहनो मनोवाक्प्राणसंहतः, इति ।

यः पूर्वोक्तपृथिव्यादिध्यानेनरूपः^५ फलहेतुः स एषोऽश्वयुक्तरथसमानः । स च प्रष्टिवाहनः, प्रष्ठयोः पार्श्वयोर्युज्यमानौ द्वावश्वौ वाहनं यस्य रथस्य सोऽयं प्रष्टिवा-


^१ क. ख. ॰त्वमुपासनं किं ।
^२ घ. ङ. ॰नुष्ठिते न्या॰ ।
^३ क. ख. ॰ष्टेयमिति ।
^४ क. ख. घ. ङ. विकल्पते ।
^५ घ. ङ. ॰नफले हे॰ ।

१८८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-

हनः । ईषयोर्दीर्घकाष्ठयोर्मध्ये कंचित्प्रबलमश्वं संयोज्य तयोरीषयोर्बहिरुभयोः पार्श्वयोर्द्वावश्वौ मध्यमाश्वस्यादान्तस्य नियामकौ संयोज्येते सोऽयमश्वत्रयोपेतो देवानां रथः । तथा तैत्तिरीया वाजपेयप्रकरणे समामनन्ति—“पृष्ठिवाहिनं युनक्ति । पृष्ठिवाही वै देवरथः । देवरथमेवास्मै युनक्ति ” इति । यथा देवरथोऽश्वत्रयेण युक्त एवमयमप्युपास्तिरथो मनोवाक्प्राणैस्त्रिभिर्ध्येयविशेषैः संयुक्तः, तस्मात्पृष्ठिवाहिरथवत्सहसा फलप्रापणे समर्थ इत्यर्थः² ।

इदानीं फलं दर्शयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

यः पुमानेवमुक्तप्रकारेण विहितां “पृथिवी पूर्वरूपम्” इत्यादिकां देवतारूपां संहितां वेदोपास्ते³। यद्यपि विदिधातुः प्रमाणजन्यज्ञानवाची तथाऽप्युपास्तिक्रियामन्तरेण फलासंभवान्मानसत्वसाम्येन तां क्रियामुपलक्षयति । स उपासकः प्रजादिभिः संधीयते संयोज्यते । प्रजा पुत्रपौत्रादिरूपा । पशवो गवाश्वादयः । यशो धनदानादिकीर्तिः । ब्रह्मवर्चसं श्रुताध्ययनसंपत्तिः । तदेतत्सर्वं चित्रान्यायेन प्रतिबन्धाभावे सत्यैहिकं फलम् । “चित्रया यजेत पशुकामः” इत्यत्र पशुसंपादकदृष्टप्रयत्नसद्भावे सति पशुप्राप्तिरैहिकी, अन्यथाऽऽमुष्मिकीति पूर्वमीमांसायां निर्णीतम् । तद्वदत्रापि प्रजादिफलमैहिकमामुष्मिकं चेत्यनियतम् । स्वर्गस्त्वामुष्मिक एव । सर्वमायुरेतीत्यनेनापमृत्युराहित्यं विवक्षितम् ।

उक्तोपासनायाः सांप्रदायिकत्वं दर्शयति—

इति नु माण्डूकेयानाम् , इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
प्रथमः खण्डः ॥ १ ॥

इत्येवमुक्ता—“पृथिवी पूर्वरूपम्” [ ऐ० आ० ३ अ० १ ख० १ ] इत्याद्युपासना मण्डूकारव्यस्य महर्षेः पुत्राणां संप्रदायाद्भूमावागता ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये प्रथमः खण्डः ॥ १ ॥


¹ घ. ङ. °जसनेय° । ² घ. ङ. °र्थः । तदिदा° । ³ क. ख. विदिर्धातुः । ⁴ घ. ङ. °वाद° ।

अध्या ० १ । ख ० २] ऐतरेयारण्यकम् । १८९

अथ द्वितीयः खण्डः ।

संप्रदायान्तरोक्तिपुरःसरमुपासनान्तरं प्रतिजानीते—

अथ शाकल्यस्य, इति ।

माण्डूकेयाभिमतोपासनकथनानन्तरं शाकल्यस्याभिमतोपासनमुच्यत इति शेषः । तत्रोपासनीयं स्वरूपं दर्शयति—

पृथिवी पूर्वरूपं द्यौरुत्तररूपं वृष्टिः संधिः पर्जन्यः संधाता, इति ।

पूर्वोत्तरवर्णयोर्भूलोकद्युलोकध्यानम् । संधिवर्णयोः संहिता तत्र वृष्टिध्यानम् । संहिताया हेतुः संधाता । तद्यथा—"इको यणचि" [ पा० सू० अ० ६ पा० १ सू० ७७ ] इति सूत्र इकारस्य स्थाने यकारादेशविधावचपरत्वं निमित्तम् । तादृशे संधिनिमित्ते पर्जन्यध्यानं कर्तव्यम् ।

वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च लोकव्यवहारेण विशदयति—

तदुतापि यत्रैतद्बलवद्नूद्वृष्टन्संदधदहोरात्रे वर्षति, इति ।

उतापीति निपातसमुदायः समुच्चयार्थी लोकप्रसिद्धिं समुच्चिनोति । तत्तस्मिन्वृष्टिः संधिः पर्जन्यः संधातेत्यस्मिन्नर्थे लोकप्रसिद्धिरपि विद्यत इत्यर्थः । काऽसौ प्रसिद्धिरिति साऽभिधीयते—यत्र यदैतत्पर्जन्यस्वरूपं बलवदत्यन्तप्रबलं भूत्वाऽनूद्ध्वङ्कुर्वन्नग्रहणं वृष्ट्युपसंहारमकुर्वन्न(द)होरात्रे संदधद्रात्रावहनि च विच्छेदाभावलक्षणं संधानं कुर्वद्वर्षति तदानीं वृष्टेर्द्युलोकभूलोकसंधित्वं पर्जन्यस्य संधातृत्वं च विस्पष्टं प्रतिभासत इति शेषः ।

न केवलं प्रतिभासः किंतु लौकिकानामुक्तिरप्यस्तीति दर्शयति—

द्यावापृथिव्यौ समधातामित्युताप्याहुः, इति ।

अनया पर्जन्यसंपादितया निरन्तरतीव्रवृष्ट्या द्यौश्च पृथिवी चेत्येते उभे संधानं परस्परैक्यं प्राप्तवत्यावित्येवं वाक्यमपि लौकिका आहुः । अतोऽनुभवालौकिकोक्त्या च वृष्टेः संधित्वं पर्जन्यस्य संधातृत्वं च प्रसिद्धम् ।

बुद्धिसौकर्यार्थमुक्तवक्ष्यमाणावर्थो विभज्य दर्शयति—

इती न्वधिदैवतमथाध्यात्मम्, इति ।

इति नूक्तप्रकारमेव पृथिव्यादिकमित्यर्थः ।

पृथिव्यादिदेवतानामिव स्वशरीरावयवानामपि ध्यानं दर्शयति—

पुरुषो ह वा अयं सर्व आनन्दं द्वे विदले भवत इत्याहुस्तस्ये-


१ ग. ॰र्वन्वर्षं । २ क. ख. ङ. इति ।

१९०श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

दमेव पृथिव्या रूपमिदं दिवस्तत्रायमन्तरेणाऽऽकाशो यथाऽसौ द्यावापृथिव्यावन्तरेणाऽऽकाशस्तस्मिन्हस्मिन्नाकाशे प्राण आयत्तो यथाऽमुष्मिन्नाकाशे वायुरायत्तो यथाऽमूनि त्रीणि ज्योतींष्येवमिमानि पुरुषे त्रीणि ज्योतींषि, इति ।

लोके यः पुरुषो विद्यते स सर्वोऽप्याण्डमण्डसदृशम् । वर्णविकारश्छान्दसः । यथा ब्रह्माण्डस्याधः कपालमूर्ध्वं कपालं चेति द्वे विदले द्वौ परस्परैविपरीतभागौ, तथा पुरुषेऽपि पादावारभ्याधरोष्ठपर्यन्तमेकं विदलमुत्तरोष्ठमारभ्य मूर्धपर्यन्तमपरं विदलं यथा भिन्नस्य वेणोर्दलद्वयं तद्वत् । विदले इति बकारश्छान्दसः । इत्येवमण्डसादृश्यमभिज्ञाः पुरुषा आहुः । तस्य दलद्वयोपेतस्य शरीरस्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपम् । इदं तूत्तरोष्ठादिकं दिवः स्वरूपम् । तत्र तयोरधरोत्तरदलयोरन्तरेण मध्येऽयमाकाशोऽस्माभिर्मुखे दृश्यमानं छिद्रं वर्तते, यथा द्यावापृथिव्योर्मध्य आकाशस्तद्वत् । तस्मिन्हस्मिन्पूर्वोक्त एव दृश्यमाने मुखच्छिद्रे प्राण आश्रितः । यथा बाह्ये प्रसिद्धाकाशे वायुराश्रितस्तद्वत् । यथा च बाह्ये ज्योतिस्त्रयमेवं शरीरेऽपि ज्योतिस्त्रयमस्ति । अनेन प्रकारेण शरीरस्याधरोत्तरभागौ पृथिवीरूपेण द्युलोकरूपेण च ध्यातव्यौ । वायुश्च प्राणरूपेण ध्येयः । ज्योतिस्त्रयं च बहिर्वदन्तरपि ध्येयमित्यर्थः ।

तच्च त्रयं दर्शयति—

यथाऽसौ दिव्यादित्य एवमिदं शिरसि चक्षुर्यथाऽसावन्तरिक्षे विद्युदेवमिदमात्मनि हृदयं यथाऽयमग्निः पृथिव्यामेवमिदमुपस्थे रेतः, इति ।

लोकत्रयगतादित्यविद्युदग्निवच्चक्षुर्हृदयरेतांसि द्रष्टव्यानि ।

आध्यात्मिकमुपासनं प्रतिपाद्योपसंहरति—

एवमु ह स्म सर्वलोकमात्मानमनुविधायाऽऽहेदमेव पृथिव्या रूपमिदं दिवः, इति ।

उक्तेनैव प्रकारेण लोकत्रयसदृशं पुरुषशरीरमनुक्रमेण संपाद्येदमेवाधरोष्ठपर्यन्तं पृथिव्याः स्वरूपमिदं तूत्तरोष्ठादिकं दिवः स्वरूपमित्येवं शाकल्य आह ।

उपासनस्य फलं दर्शयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


१ क. ˚स्परावि˚ । २ ग. ˚रमथ उपरितनभा˚ ।

अध्या० १ ख० ३] ऐतरेयारण्यकम् । १९१

पूर्ववद्व्याख्येयम् ॥ इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके प्रथमाध्याये द्वितीयः खण्डः ॥ २ ॥


अथ तृतीयः खण्डः ।


उपासनान्तरं प्रतिजानीते— अथातो निर्भुजप्रवादाः, इति । अथ केवलसंहितोपासनोक्त्यनन्तरम् । यतः पाठकानां संहितापाठानन्तरं पद- क्रमौ पठ्यमानौ १ तु संधिसद्भावतः कारणाद्निर्भुजप्रवादाः संहितोपासका महर्षयः संहितायाः पदस्य क्रमस्य च सहोपासनं प्राहुरिति शेषः । निर्भुजशब्दः संहिता- वाचीत्यभिधीयते । तन्निर्भुजं प्रकर्षेण वदन्ति ध्येयदेवतासहितं २ कथयन्तीति निर्भु- जप्रवादाः ।

उपास्यवस्तुनः स्वरूपं दर्शयति— पृथिव्यायतनं निर्भुजं दिव्यायतनं प्रतृ- ण्णमन्तरिक्षायतनमुभयमन्तरेण, इति । यथा निर्भुजशब्दः संहितावाचीत्यभिधास्यते तथा प्रतृण्णशब्दः पदवाची, उभय- मन्तरेणेत्यनेन क्रमो विवक्षित इत्यप्यभिधास्यते । तत्र यन्निर्भुजं संहितारूपं तत्पृथिव्यायतनं पृथिवीमाश्रित्य वर्तते पृथिवीरूपत्वेन ध्यायेदित्यर्थः । तथा पदस्य द्युलोक- रूपत्वं क्रमस्यान्तरिक्षरूपत्वं च ध्यायेत् ३ ।

यथोक्तपृथिव्यादिरूपनिर्भुजादिध्यानं प्रशंसितुमुपासकस्य सामर्थ्यं दर्शयति— अथ यद्येनं निर्भुजं ब्रुवन्तमुपवदेदच्योष्ठाऽवराभ्यां स्थानाभ्यामित्येनं ब्रूयादथ यद्येनं प्रतृण्णं ब्रुवन्तमुपव- देदच्योष्ठा उत्तराभ्यां स्थानाभ्यामित्येनं ब्रूयाद्यस्त्वे- वोभयमन्तरेणाऽऽह तस्य नास्त्युपवादः, इति । अथोपासनानन्तरं निर्भुजं ब्रुवन्तं संहितामधीयानमेनमुपासकं यद्यन्यः कश्चि- दुपवदेदुपासकेन पठ्यमानायां संहितायां स्वरवर्णादिवैकल्यदोषमुद्भावयेत् । तदा- नीमेनं दोषोद्भावकमयमुपासक एवं ब्रूयात्—हे उपवादिन्नवराभ्यामधोवर्तिभ्यां स्थानाभ्यां पृथिव्यन्तरिक्षलोकाभ्यामच्योष्ठा त्वं प्रच्युतोऽसीति । युक्तं चैतदुपास-


१ घ. ङ. 'नौ बुद्धिस्था' । २ घ. ङ. 'न्ति पदक्रमयोः संहितां क' । ३ ग. ङ. 'येदितिष्ट' ।

१९२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

कस्य वचनम् । संहितायाः पृथिवीरूपत्वध्यानेन सर्वदोषपरिहारात् । अतो निर्दोषायां संहितायां दोषमुद्भावयितुः पृथिवीलोकात्तत्सहभाविनोऽन्तरिक्षलोकाच्च प्रच्युतिर्भ- वति । अथशब्दः पूर्वोक्तवैलक्षण्यार्थः । संहितायां दोषमनुक्त्वा प्रतृण्णं ब्रुवन्तं पदम- धीयानमेनमुपासकं यदि कश्चिदुपवदेत् । अधीयमाने पदे दोषोद्भावनमुपवादः । तदानीमेनमुपवादिनं प्रत्युपासक उत्तराभ्यां स्थानाभ्यामन्तरिक्षद्युलोकाभ्याम- च्योष्ठा प्रच्युतोऽसीत्येवं ब्रूयात् । यस्तूपासक उभयमन्तरेणाऽऽह क्रममधीते तस्योपासकस्योपवादैः परेणोद्भावयितव्यः क्रमविषये दोषो नास्त्येव । संहितायां पदे च भ्रान्तदृष्ट्या दोषः संभाव्यते । तथा हि—" अग्निमीळे " [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यस्यां संहितायामुत्तरपदगत ईकारः स्वरितः । एकारः प्रचयः । पदकाले तु तदुभयमनुदात्तम् । तथा सति पदवासनावासितस्य कस्यचिच्छ्रद्धाजडस्य संहितायां स्वरअन्यथात्वभ्रान्तिर्हृदियात् । तथा संहितावासनावासितस्य श्रद्धाजडस्य पदच्छेदकाले स्वरअन्यथात्वँभ्रान्तिः । क्रमकाले तु नोक्तभ्रमद्वयमस्ति, द्विविधस्वरस्य पठ्यमानत्वात् । अग्निमित्यनेन पूर्वपदेन सह संहितायामीळ इति पदे स्वरितप्रचयौ पठ्येते । पुरोहितमित्यनेनोत्तरपदेन सह संहितायामनुदात्तद्वयं पठ्येते । तस्मात्क्रमे स्वरअन्यथात्वभ्रमो नोदेति । कथं चिदन्यथात्वेऽपि देवताध्यानेन दोषः समाधीयते । तस्मादुपासनं प्रशस्तमित्यर्थः ।

निर्भुजादिशब्दानां विवक्षितार्थे लोकप्रसिद्ध्यभावाच्छ्रुतिरेव तमर्थं दर्शयति—

यद्वि संधिं विवर्तयति तन्निर्भुजस्य रूपमथ
यच्छुद्धे अक्षरे अभिव्याहरति तत्प्रतृण्णस्याथ
उ एवोभयमन्तरेणोभयं व्याप्तं भवति, इति ।

यदुच्चारणं संधिं पदयोरुभयोर्त्यन्तं संनिकर्षं विवर्तयति विशेषेण संपादयति तदुच्चारणं निर्भुजशब्दार्थस्य स्वरूपम् । निर्दिष्टौ भुजसदृशौ पूर्वोत्तरशब्दौ यस्मिन्संहि- तारूप उच्चारणे तदुच्चारणं निर्भुजम् । अथशब्दः पूर्ववैलक्षण्यार्थः । शुद्धे विका- ररहिते पूर्वोत्तरे उभे अक्षरे अभिव्याहरति स्पष्टमुच्चारयतीति यदस्ति तत्प्रतृण्ण- शब्दाभिधेयस्य पदच्छेदस्य स्वरूपम् । तद्यथा—" इषे त्वोर्जे त्वा " [ तै० सं० १ । १ । १ ] इत्यत्र योऽयमोकारः सोऽयं संहितास्वरूपः । यदा त्वाकारान्तं त्वेति पदमूकारादिकमूर्ज इत्यादिपदमुच्चारयति तदानीमाकार ऊकारश्चेत्युभे अक्षरे शुद्धे भवतः । तदानीं संनिकर्षरूपायाः संहिताया विच्छिन्नत्वात् । विच्छेदस्य च हिंसावाचिना प्रतृण्णशब्देन विच्छिन्नं पदमभिधीयते । यदेतत्प्रतृण्णस्य स्वरूपं तदेतदर्थं उ प्रथम-


१ घ. ङ. ॰तायां पृ॰ । २ ग. ॰वादो न प॰ । ३ घ. ङ. ॰हृदीया॰ । ४ क. ख. ग. ॰त्वभ्रमः । क॰ । ५ क. ख. ॰ति । यथा कं॰ । ६ घ. ङ. ॰प्र एव प्र॰ ।

अध्या० १।ख० ३] ऐतरेयारण्यकम् । १९३

भाष्येव । सिद्धे पदस्य स्वरूपे पश्चात्संहिता प्रवर्तते, संहितायाः संधीयमानपदद्वयधर्म- त्वेन पदपूर्वकत्वस्यावश्यंभावात् । येन क्रमेण संहिता पदं चेत्युभयं व्याप्तं भवति सोऽयं क्रम उभयमध्यवर्तित्वादुभयमन्तरेणेत्युच्यते । प्रकारान्तरेणोपासनप्रशंसार्थमुपासकस्य काम्यं संहिताद्यध्ययनं विधत्ते— अन्नाद्यकामो निर्भुजं ब्रूयात्स्वर्गकामः प्रतृण्णमुभयकाम उभयमन्तरेण, इति । संहिताद्यध्ययनेरन्नाद्यादिसिद्धिरूपासकस्य भवतीत्युक्ते सत्युपासनमेव प्रशस्तं भवति । यथोक्तफलविघ्नकारिणं शत्रुं शापेन विनाशयितुं शापरूपं मन्त्रं दर्शयति— अथ यद्येनं निर्भुजं ब्रुवन्तं पर उपवदेत्पृथिवीं देवतामारः पृथिवी त्वा देवता रिष्यतीत्येनं ब्रूया- दथ यद्येनं प्रतृण्णं ब्रुवन्तं पर उपवदेद्दिवं देवता- मारो द्यौस्त्वा देवता रिष्यतीत्येनं ब्रूयादथ यद्येनमु- भयमन्तरेण ब्रुवन्तं पर उपवदेदन्तरिक्षं देवतामा- रोऽन्तरिक्षं त्वा देवता रिष्यतीत्येनं ब्रूयात्, इति । अयमुपासकोऽन्नाद्यकामः सन्यदा संहितामधीते तदानीं परः शत्रुरेतस्य फलविघ्ना- र्थमेनमुपवदेदधीयमानायां संहितायां विद्यमानमविद्यमानं वा दोषमुद्भावयेत्तदानीमु- पासकः पृथिवीमित्यादिमन्त्रेण तं शत्रुं शपेत् । मन्त्रस्य चायमर्थः—हे शत्रो त्वं संहितारूपां पृथिवीं देवतां दूषयितुमारः प्राप्तवानसि । अतः सा पृथिवी देवता त्वां रिष्यति हिनस्तीति । एवमुत्तरयोरपि पर्याययोर्योज्यम् । अस्योपासकस्य शत्रुं सामर्थ्यं दर्शयति— यथा तु कथा च ब्रुवन्त्वाऽब्रुवन्तं वा ब्रूयादभ्याशमेव यत्तथा स्यात्, इति । ब्रुवन्नित्येतदपि द्वितीयान्तत्वेन परिणेतव्यम् । ब्रुवन्तं दोषाभिधायिनमब्रुवन्तं दोषोक्तिरहितं वा वैरिणं प्रति यथा तु कथा च येन केनापि प्रकारेण ब्रूयादुपा- सकः शपेत् । तदानीं यदुपासकेनोक्तं तदभ्याशमेव क्षिप्रमेव तथा स्यात् । तेनैव प्रकारेण शत्रौ पर्यवस्येत् । यदा शत्रुब्राह्मणस्तदा विशेषं दर्शयति— न त्वेवान्यत्कुशलाद्ब्राह्मणं ब्रूयात्, इति ।


१ ग. ॰ताध्य॰ । २ घ. ङ. ॰मुत्पादये॰ । ३ घ. ङ. ॰न्त्रस्याय॰ । ४ क. ख. ॰तास्वरू॰ । ५ क. ख. घ. ङ. ॰थिवीदे॰ । ६ घ. ङ. ॰वतायां दू॰ । ७ ग. ॰तः पृ॰ । ८ घ. ङ. त्वा ।
२५

१९४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

दोषोद्भावकः शत्रुर्यदि ब्राह्मणस्तं प्रति कुशलादन्यन्नैव ब्रूयात्, मदीयसं- हितादौ दोषोद्भावनं तुभ्यं हितं न भवत्यतो दोषोक्तिं परित्यज्य त्वं सुखेन तिष्ठेत्येवं *कुशलं ब्रूयात् । देवता रिष्यतीत्येतादृशं शापं न ब्रूयात् ।

कचिद्ब्राह्मणेऽपि शापमभ्यनुजानाति—

अतिद्युघ्न एव ब्राह्मणं ब्रूयात्, इति ।

अतिशयितं द्युम्नं धनमतिद्युम्नं तस्मिन्नेव विषये विघातकं शत्रुं ब्राह्मणं शपेन्न त्वल्पे विषये ।

इदानीं माण्डूकेयस्य महर्षेर्मतं दर्शयति—

नातिद्युघ्ने चन ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्म- णेभ्य इति ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥ इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥

चनशब्दोऽप्यर्थः । अतिद्युघ्नेऽपि महाधनविषयेऽपि विरोधिनं ब्राह्मणं न ब्रूयान्न शपेत्किं तु ब्राह्मणेभ्यो नमोऽस्त्वित्येतावदेव ब्रूयात् । तदेतन्महर्षेर्मतम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके प्रथमाध्याये तृतीयः खण्डः ॥ ३ ॥


अथ चतुर्थः खण्डः ।

पुनरप्यन्यदुपासनं प्रतिजानीते—

अथातोऽनुव्याहाराः, इति ।

अथ निर्भुजादिध्यानकथनानन्तरं यतो दोषवादिनः शत्रोः शापमन्तरेण स्वफलसि- द्धिर्नास्ति । अतः कारणादनुव्याहाराः परकीयदोषोक्तिमनु स्वस्य व्याहाराः शाप- रूपं वचनं येषां प्राणोपासकानां तेऽनुव्याहारा महर्षय उपासनं प्राहुरिति शेषः ।

तदुपासनं विधत्ते—

प्राणो वंश इति विद्यात्, इति ।

यथा लोके प्रौढो वंशो गृहस्य धारक एवमयं देहगृहस्य धारकत्वेन वंशसदृशः प्राणवायुः संहितातस्वरूप इत्येवं ध्यायेत् । अत्र प्रकरणवशात्संहितेति लभ्यते ।


* कुशलमित्यस्य स्थाने क. पुस्तके वचनमिति बर्हिलिखितः पाठः।
१ घ. ङ. °ब्रूयो ब्रा°। २ घ. ङ. दद्यात् । ३ क. ख. ॰हस्याऽऽधा° । ४ घ ङ. तत्र ।

अध्या० १।ख० ४] ऐतरेयारण्यकम् । १९५

अस्मिन्प्राणोपासने दोषवादी शत्रुरुपासकेन शप्तव्य इत्येतद्दर्शयति—

स य एनं प्राणवंशमुपवदेच्छक्नुवन्चेन्मन्येत प्राणं
वंशं समधा३म्, प्राणं मा वंशं संदधतं न शक्रोर्षी-
त्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।

स यो ब्राह्मणोऽन्यो वा यः कोऽपि शत्रुरेनमुपासकं प्राणवंशध्यानेन तदात्मक-
मुपवदेत्प्राणं समाधातुं न शक्नोषीत्येवं दूषयेत् । तदानीमयमुपासको द्विविधः शक्तोऽ-
शक्तश्च तयोर्मध्ये यद्ययं शक्नुवन्नेवास्मीति मन्येत तदानीं प्राणमित्यादिना मन्त्रेणैनं
शत्रुं शपेत् । तस्य मन्त्रस्यायमर्थः । अहमुपासको वंशसदृशं प्राणं समधां सम्यक्-
चित्ते धारितवानस्मि । तथा सति प्राणरूपो यो वंशस्तं वंशं संदधतं सम्यग्ध्यानेन
धारयन्तं मां प्रति न शक्नोषि धारयितुं त्वमिति भवानाह । तस्मात्कारणाद्वंशस्था-
नीयः प्राणस्त्वां हास्यति परित्यक्ष्यति ततो मरिष्यसीति ।

अशक्तस्योपासकस्य शापमन्त्रे पाठान्तरं दर्शयति—

अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशक्रः
संधातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।

यद्ययमुपासको ध्याने शक्तिरहितमात्मानं मन्येत तदानीमनेन मन्त्रेण शपेत् । तस्य
मन्त्रस्यायमर्थः । अहमुपासको वंशरूपं प्राणं सम्यग्ध्यानेन धारयितुमिच्छामि तादृश-
मिच्छन्तं मां प्रति संधातुं सम्यग्ध्यानेन धारयितुं नाशको न शक्नोषीत्येवं भवानाह
तस्माद्वंशरूपः प्राणस्त्वां परित्यक्ष्यतीति ।

पूर्ववदत्रोपासकस्य सामर्थ्यं दर्शयति—

यथा तु कथा च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्या-
शमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं
ब्रूयादतिधुम्न एव ब्राह्मणं ब्रूयान्नातिधुम्ने च-
न ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति
ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
चतुर्थः खण्डः ॥ ४ ॥

पूर्वव्याख्येयम् ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
तृतीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥


१ क. ख. शक्तोऽस्मीत्ये ।

१९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

अथ पञ्चमः खण्डः ।

उक्तासु वक्ष्यमाणासु च संहितोपासनासु सर्वासु श्रोतॄबुद्धि^१समाधानार्थमुपास्यविषयं सम्यक्परिशोधयितुं प्रस्तौति—

अथ खल्वाहुर्निर्भुजवक्त्राः, इति ।

अथ कासां चित्संहितोपासनानां कथनानन्तरं निर्भुजशब्दाभिधेया संहिता वक्त्रे मुखे येषां संहितोपासकानां ते महर्षयो निर्भुजवक्त्रास्ते च विषयशोधनार्थं वक्ष्यमाणं वाक्यमाहुः ।

स खलु तदीयं वाक्यं दर्शयति—

पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति ।

अस्याः^२ संहितोपनिषदः प्रारम्भे “पृथिवी पूर्वरूपं द्यौरुत्तररूपम्” [ ऐ० आ० ३ अ० १ ख० २ ] इत्यादौ पूर्वरूपमित्यनेन पूर्वमक्षरं विवक्षितम् । उत्तररूपमित्यनेनोत्तरमक्षरं विवक्षितम् । तयोरक्षरयोर्मध्ये योऽवकाशः स संहिताशब्देन विवक्षितः ।

एवमुपास्यनिश्चयार्थं पूर्वरूपादिशब्दान्व्याख्याय^३ प्ररोचनार्थं पूर्वमुक्तं [ ऐ० आ० ३ अ० १ ख० २ ] तदुपासनफलमनुस्मारयति^४—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभि- र्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

तदेतत्तत्रैव व्याख्यातम् ।

योऽवकाश इति यदुक्तं तत्र कंचिद्विशेषं दर्शयति—

अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तर- रूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति, इति ।

ह्रस्वो वामनः स्वल्पदेहः । स च स्वाभिज्ञत्वप्रकटनार्थं वयमिति पूजारूपं बहुवचनं प्रयुङ्क्ते । स चैवमाह । पूर्वरूपोत्तररूपयोर्व्याख्यानं तत्तादृशमेव, अवकाशः संहितेति यदुक्तं तत्रास्ति कश्चिद्विशेषः । न केवलमवकाशमात्रं संहितेति किं तु येनाव-


१ ग. श्रोतॄबुद्धि° । २ क. ख. तस्याः । ३ घ. ङ. ॰ब्दानाख्याय । ४ घ. ङ. ॰नुस्मरति ।

अध्या० १।ख० ५] ऐतरेयारण्यकम् । १९७

काशेन संधिं पूर्वोत्तरयोः संनिकर्षमध्येता विवर्तयति विशेषेण संपादयति येन चावकाशेन स्वरमस्वरं च विविच्य जानाति । “अग्निमीळे” [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यत्रोत्तरपदे पदकालवदनुदात्तस्वरो न भवति किंतु स्वरितप्र- चयौ स्वरा॒वित्येतादृशो विवेकः । येन चावकाशेन मात्राममात्रां च विभजते । “तवेत्तत्सत्यमङ्गिरः” [ ऋ० सं० म० १ सू० २ ऋ० ६ ] इत्यत्र पदकाले वका- रस्योपरि ह्रस्वोऽकारो दृश्यते, संहिताकाले सा मात्रां न भवति, किंत्वेकारो मात्रेत्ययं विभागः । एतैर्विशेषणैर्विशिष्टोऽवकाशः संहिता न त्ववकाशमात्रमिति ।

पूर्ववत्फलमनुस्मारयति—

स य ए॒वमे॒तां संहि॒तां वेद॑ संधीयते प्र॒जया॑ प॒शुभि॒र्य- शसा ब्रह्मवर्च॒सेन स्व॒र्गेण लो॒केन॒ सर्व॒मायु॑रेति, इति ।

पूर्ववद्व्याख्येयम् ।
मतान्तरं दर्शयति—

अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे खल्विमे अविकर्षन्नेकीकुर्वन्यथावर्णमाह तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण संधिविज्ञापनी साम तद्भवति सामैवाहं संहितां मन्य इति, इति ।

अस्य ह्रस्वमाण्डूकेयस्य मध्यमः पुत्रः कश्चिदस्ति, तस्य माता प्रातीबोधी । तत्पुत्रो महर्षिरिमे पूर्वोत्तरे अविकर्षन्परस्परमत्यन्तविशेषमकुर्वन्ननेकीकुर्वन्नत्यन्तमै- क्यमप्यकुर्वन्यथावर्णमाहेतं तं वर्णमनतिक्रम्योच्चारयति । तवेदित्यत्र पूर्वपदान्त्यम- कारमुत्तरपदादिमिकारं च संहिताकाले यदि पृथगुच्चारयेत्तदानीमत्यन्तविश्लेषो भवेत् । यदि त्विकारमन्तर्भाव्य केवलमकारमुच्चारयेत्तदानीमत्यन्तमेकीकरणं भवति । तदुभयं परित्यज्य यथाशास्त्रमेकारमसावुच्चारयति । तत्तथा सति पूर्वरूपोत्तररूपयोर्मध्ये याऽसौ मात्रोच्चारणविशेषरूपा संधिविज्ञापनी शास्त्रीयं संधिं विज्ञापयति तत्साम समत्वं भवति । अतिद्रुतातिविलम्बयोरभावात्सामैव तत्समत्वमेव संहितामहं मन्य इति मध्यमपुत्रस्य मतम् ।

अस्मिन्नर्थे कंचिन्मन्त्रमुदाहरति—

तदप्येतदृषिणोक्तम्, इति ।


१ घ. ङ. °पदस्य प° । २ क. ख. ह्रस्वाका° । ३ क. ख. घ. ङ. °नुस्मरति । ४ ग. घ. ङ. प्रतिबोधी । ५ क. ख. ॰ह तत्र वं॰ । ६ ग. तं वं॰ । ७ क. ख. ॰रं सं॰ ।

१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

स चं मन्त्रः संहितायामेवमाम्नातः—“मा नः स्तेनेभ्यो ये अभिद्रुहस्पदे निशामिणो रिपवोऽन्नेषु जागृधुः । आ देवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुः ” [ ऋ० सं० म० २ सू० २४ ऋ० १६ ] इति । हे बृहस्पते नोऽस्मान्मन्त्ररूपान्स्तेनेभ्यो विद्याचौर्यपरेभ्यो मा दा इत्यध्याहारः । तादृशेभ्यो मन्त्रोपदेशं मा कुर्वित्यर्थः । कीदृशा विद्याचोरा इत्याशङ्क्योच्यते— ये शिष्या अभिद्रुहस्पदे सर्वतो गुरुद्रोहस्य स्थाने वर्तमाना निशामिणो मायया गुरुमभिमुखीकृत्य व्यवहारे बाह्ये नितरां रमयन्तीति निशामिणः । एतेऽनुकूला इत्येवं गुरोर्भ्रान्तिं जनयन्तीत्यर्थः । ते च स्वहृदये रिपवः शत्रवः सन्तोऽन्नेषु भोग्येषु दृष्टार्थेष्वेव जागृधुरभिकाङ्क्षां कुर्वन्ति । तादृशेभ्यो स्तेनेभ्यो मन्त्रात्मकानस्मान्मा देहि । इति मन्त्रद्रष्टृणां वचनमेतत् । तर्हि केभ्यो मँत्रा दातव्या इति चेदुच्यते ये श्रद्धालुत्वो विव्रयः संभजनकर्तारः सन्तो हृदि स्वचित्ते देवानामिन्द्रादीनां यागादिरूपं संबन्धमा समन्तादोहते वितर्कयन्ति सर्वदा यागं कर्तुं विचारयन्ति । तादृशेभ्यो मन्त्रान्देहीत्यर्थः । ते च साम्नः समत्वादाजर्वाद्वत्परः श्रेयोहेतुर्नास्तीत्येवं विदुर्जानन्ति । अतस्ते मन्त्रोपदेशयोग्याः । अत्र यँथा शिष्याणां व्यवहारे समत्वं प्रशस्तमेवं संहितायामपि सँममात्रोच्चारणं प्रशस्तमित्यर्थः ।

एतस्य मन्त्रस्य प्रदर्शनार्थं चतुर्थं पादं पठति—

बृहस्पते न परः साम्नो विदुरिति, इति ।

पूर्ववत्फलवाक्यमनुस्मारयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥


बृहस्पते न परः०—ऋ० सं० म० २ सू० २४ ऋ० १६ ।


१ घ. ङ. च सं° । २ ग. ˚द्याचौरा । ३ घ. ङ. ˚षु दृ° । ४ क. ख. ग. मन्त्रो दातव्य इ° । ५ ग चेत्तदु° । ६ क. ख. ननु । ग. एव । ७ घ. ङ. यदा । ८ घ. ङ. समं मा° । ९ क. ख. ङ. ˚तुर्यपा° ।

अध्या० १। ख० ६] ऐतरेयारण्यकम् । १९९

अथ षष्ठः खण्डः ।


पुनरप्युपासनान्तरं वक्तुं प्रस्तौति—

बृहद्रथंतरयो रूपेण संहिता संधीयत इति तार्क्ष्यः, इति ।

तैरुक(तृक्ष)नामकस्य पुत्रः कश्चिन्महर्षिरेवं मन्यते । बृहन्नामकं यत्साम “त्वामिद्धि हवामहे” [ऋ० सं० म० ६ सू० ४६ ऋ० १] इत्यस्यामृच्युत्पन्नमस्ति यच्च रथंतराख्यं साम “अभि त्वा शूर नोनुमः” [ऋ० सं० म० ७ सू० ३२ ऋ० २२] इत्यस्यामृच्युत्पन्नं तयोरुभयोः साम्नोः स्वरूपेण संहिता संपद्यते । सामद्वयसंबन्धित्वेन संहिताध्यानं कर्तव्यमित्यर्थः ।

तमेव विवक्षितं ध्यानप्रकारं दर्शयति—

वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन च, इति ।

अत्र बृहद्रथंतरशब्दाभ्यां सामगानरूपो वाक्यार्थो न विवक्षितः । किं तर्हि प्रशस्तत्वसाम्येन ताभ्यां शब्दाभ्यां वाक्प्राणावुपलक्ष्येते । यथा बृहद्रथंतरसामनी सोमयागप्रकृतिरूपेऽग्निष्टोमे पृष्ठस्तोत्रस्य निष्पादके संती प्रशस्तत्वाभिप्रायेण सर्वत्र श्रुतिभिराद्रियेते तथा वाक्प्राणावपि देहव्यवहारनिष्पादकत्वेन प्रशस्तौ । तस्माद्वागेवात्र रथंतरस्य स्वरूपत्वेन विवक्षिता । प्राणो बृहतः स्वरूपत्वेन विवक्षितः । वाचा च प्राणेन चेत्येताभ्यामुभाभ्यामेव संहिता संपादनीया । वाक्प्राणरूपा संहितेत्येवं ध्यायेदित्यर्थः ।

उक्तसंहिताध्यानस्य गुरुशुश्रूषालभ्यत्वेन प्राशस्त्यं दर्शयति—

एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः, इति ।

येयमुपनिषद्वाक्प्राणरूपसंहिताविद्ये तस्यामेव निमित्तभूतायां सत्यामाचार्यप्रसादार्थं लौकिकगोपालवत्तरु(तृ)क्षस्य पुत्रो निरन्तरं संवत्सरमाचार्यसंबन्धिनीर्गा रक्षितवान् ।

न चात्र प्रयोजनान्तरमुद्दिश्य गोरक्षायां क्रियमाणायां प्रसङ्गादियं विद्या लब्धेति शङ्कनीयमित्येतद्दर्शयति—

एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः, इति ।

मात्राशब्देन प्रयोजनान्तरं निवार्यते । एतस्यां मात्रायां केवलायां वाक्प्राणविद्या-


१ ग. °सनां व° । २ क. ख. °रं प्र° । ३ क. ग. घ. ङ. तारुक्ष्यः । ४ घ. °ति । तारुक्षुना° ।
५ ङ. तरुक्षुना° । ६ घ. ङ. °क्षितध्या°। ७ ग. °त्वपठनसा°। ८ क. ख. घ. ङ. °मनि सो° । ९ क. °स्तोमस्य । १० क. ख. ङ. सति । ११ ग. घ. ङ. तारुक्ष्यः । १२ ग. घ. ङ. छ. झ. तारुक्ष्यः ।

२०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-

यामेव निमित्तभूतायां सत्यां गोरक्षा कृता । तस्मादेतावता प्रयासेन लभ्यत्वादतिप्रश- स्तेयं विद्येत्यर्थः ।

वाक्प्राणयोर्बृहद्रथंतररूपत्वेन प्राशस्त्यमभिप्रेत्य बृहद्रथंतरप्रतिपादकं मन्त्रद्वय- मुदाहरति—

तदप्येतदृषिणोक्तम् , इति ।

तदेतन्मन्त्रद्वयं संहितायामेवमाम्नातम्—

“ प्रथश्च यस्य सप्रथश्च नामाऽऽनुष्टुभस्य हविषो हविर्यत् ।
धातुर्युतानात्संवितुश्च विष्णो रथंतरमाजभारा वसिष्ठः ।
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
धातुर्युतानात्संवितुश्च विष्णोर्भरद्वाजो बृहदाचक्रे अग्नेः ” ।
[ ऋ० सं० म० १० सू० १८२ ऋ० १–२ ] इति ।

तदेतन्मन्त्रद्वयं प्रवर्गाभिषेवे सूक्ते समाम्नातम् । आनुष्टुभस्यानुष्टुप्छन्दोयुक्तैर्मन्त्रैः संस्तुतस्य यस्य प्रवर्ग्यहविषो नाम घर्म इत्यादिकं प्रथादयो जानन्तीति शेषः । प्रथ- सप्रथनामकावुभावृषी । चकारादनुक्तमहर्षिसमुच्चयार्थो । ते सर्वेऽपि यस्य हविषः प्रसिद्धस्य नाम जानन्ति । यच्च प्रवर्ग्यार्थं द्रव्यं हविषोऽपि हविर्भवति । उत्तमं हवि- रित्यर्थः । यथा राज्ञोऽपि राजेत्यत्रोत्तमत्वमुक्तं भवति तद्वत् । तादृशं हविः स्तोतुं वसिष्ठाख्यो महर्षी रथंतराख्यं सामाऽऽजभाराऽऽहृतवान् । तेन साम्ना तस्य हविषः स्तुतिरपि किंनिमित्तेत्याशङ्क्य धात्रादिदेवतानिमित्तेत्युच्यते । धात्रादिशब्देषु चतु- र्थ्यर्थे पञ्चमी । धात्रादीनां परितोषार्थं हविःस्तुतिरित्यर्थः । ते प्रथादयो महर्षयः प्रव- र्ग्यरूपं हविरतिहितं धात्रादिदेवेभ्योऽतिशयेनोपयुक्तमित्यविन्दल्लब्धवन्तो ज्ञातवन्त इत्यर्थः । यद्धविर्यज्ञस्य सोमयागस्य धाम स्थानमासीत् । सति हि प्रवर्ये सोमयागस्ते- जस्वीव भासते । तस्मादस्य हविषो धामत्वम् । तथा यद्धविः परमं गुहाऽत्यन्तं गोप्यं यज्ञस्य शिरोरूपत्वात् । तथा चान्यत्र श्रूयते— “शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः” [ तै० आ० प्र० ५ अ० १० ] इति । अग्निसहितानां धात्रादीनां परितोषं निमि- त्तीकृत्य तद्धविः स्तोतुं भरद्वाजाख्यो महर्षिर्बृहदाख्यं सामाऽऽचक्र आनीतवान् । सर्वेषु सोमयागेषु प्रशस्तं यत्प्रवर्ग्यहविस्तादृशं हविः स्तोतुं वसिष्ठभरद्वाजौ महता प्रयासेन रथंतरं बृहच्च संपादितवन्तौ । तदुभयसामरूपत्वेन प्रशस्तौ वाक्प्राणौ । तस्मा- द्वाक्प्राणरूपत्वेन संहिताध्यानमुत्तममिति मन्त्रद्वयोदाहरणस्य तात्पर्यार्थः ।


१ ग. ˚मेवाऽऽम्ना˚ । २ घ. ङ. ˚ष्टवम् । ३ ग. संकृतं । ४ घ. ङ. ˚तस्यार्थस्य । ५ ग. घ. ङ. ˚तुर्ष्वपि निमित्तार्थे पं˚ । ६ ग. घ. ङ. ˚य तद्बविः । ७ क. ख. ˚र्थः । प्र˚ ।

अध्या० १। ख० ६ ] ऐतरेयारण्यकम् । २०१

तस्यैतस्य मन्त्रद्वयस्य प्रतीकत्वेन चतुर्थपादौ पठति—

रथंतरमाजभारा वसिष्ठः । भरद्वाजो बृहदाचक्रे अग्रेरिति, इति ।

उपासनस्य फलं दर्शयति—

स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।

पुनरपि गुणान्तरविशिष्टत्वेन वाक्प्राणरूपायाः संहिताया उपासनान्तरं विधत्ते—

वाक्प्राणेन संहितेति कौण्ठरव्यः प्राणः पवमानेन
पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन
स्वर्गो लोको ब्रह्मणा सैषाऽवरपरा संहिता, इति ।

कुण्ठरवस्य पुत्रो महर्षिः संहितोपासनामेवमुवाच । येयं वागस्ति सा प्राणेन संहिता संयुक्ता, वाचः प्राणेन प्रेर्यमाणत्वात् । स च प्राणो देहमध्यवर्ती पवमानेन बाह्यवायुना संहितः, बाह्यवायोः प्राणानुग्राहकत्वात् । स च पवमानो बाह्यवायुर्विश्वैर्देवैः संहितः, सर्वेषां देवानां बाह्याधीनक्रियोपेतत्वात् । ते च विश्वे देवाः स्वर्गेण लोकेन संहिताः, तल्लोकनिवासित्वात् । स च स्वर्गो लोको ब्रह्मणा वेदेन संहितः, वेदोक्तकर्मानुष्ठानलभ्यत्वात् । सैषा वागादिका ब्रह्मान्ता संहितोपासकैरवरपरेत्युच्यते । अवरैः पूर्वपूर्वमभिहितैः परैरुत्तरोत्तरमभिहितैश्च पदार्थैर्युक्तत्वात् । एवंरूपा संहिता ध्यातव्येत्यर्थः ।

तस्य ध्यानस्य फलं विधत्ते—

स यो हैतामवरपरां संहितां वेदौवं हैव स
प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण
लोकेन संधीयते यथैषा संहिता, इति ।

एषा ध्यातव्यत्वेनोक्ता संहिता बहुविधपदार्थपरम्परयोपेता । एवमेव स उपासकः प्रजादिपरम्परया संयुज्यते ।

यथोक्तपरम्परारहितेऽप्युपासने प्रमादिफलं समानमित्याशङ्कयात्र विशेषं दर्शयति—

स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याह-
रेदभिव्याहार्षेन्नेव विद्याद्दिवं संहिताऽगमदित्युषां


रथंतरमाजभारा व०—ऋ० सं० म० १० सू० १८२ ऋ० १ । भरद्वाजो बृहदाचक्रे०—ऋ० सं० म० १० सू० १८२ ऋ० २ ।


१ ख. ˚तुर्थौ पा˚ । २ ग. ˚क्तमार्गानुं ।

२६

२०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

देवानामेव भविष्यतीति शश्वत्तथा स्यात् , इति ।

स उपासको यदि कदाचित्परकीयप्रयोजनेन वा स्वकीयप्रयोजनेन वोपसृतः प्रेरितः सन्नभिव्याहरेत्संहितां पठेत्तदानीमभिव्याहारार्थमेव संहितां पठितुमिच्छन्नेव विद्यादेवं मनसा संकल्पयेत् । कथमिति तदुच्यते—इयं मयोपास्यमाना संहिता दिवमगमत् । द्युलोकपर्यन्तं पदार्थजातं प्राप्तवती “विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा” इत्येवमुक्तत्वात् । तस्मात्कारणाद्विदुषां संहितोपासकानामत एव देवानां देवतारूपाणामेतेषां पुरुषाणामेवं भविष्यत्यैहिकमामुष्मिकं वाऽपेक्षितं श्रेयः सर्वदा भविष्यतीत्येवं मनसा संकल्पिते सति शश्वत्तथा स्यादवश्यं तत्फलं सिध्येत् ।

एवं सत्यस्या उपासनायाः संकल्पाधीनमिदमेव फलं न तु पूर्वोक्तं प्रजादिकमित्याशङ्क्य तदुभयसमुच्चयमाभिप्रेत्य पूर्वोक्तमेव पुनः पठति—

स य एवमेतां संहितां वेद संधीयते
प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन
स्वर्गेण लोकेन सर्वमायुरेति, इति ।

केवलवाग्रूपेण संहिताया उपासनन्तरं विधत्ते—

वाक्संहितेति पाञ्चालचण्डः, इति ।

पञ्चालाख्ये देशे समुत्पन्नश्चण्डस्तेजस्वी तन्नामको वा कश्चिन्महर्षिर्वाग्रूपेण संहिता ध्यातव्येत्याह ।

तदेतत्संहिताया वाग्रूपत्वं स एव महर्षिरुपपादयति—

वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि
वाचा मित्राणि संदधति वाचा सर्वाणि
भूतान्यथो वागेवेदं सर्वमिति, इति ।

वेदाः सर्वेऽपि वाचैव संधीयन्ते पठ्यन्ते । छन्दांसि गायत्र्यादीन्यपि वाचा प्रयुज्यन्ते । मित्राणि स्निग्धाः पुरुषा वाचा प्रियोक्त्या संदधति संयुक्ता भवन्ति । न केवलं मित्राणि किंतु सर्वेऽपि प्राणिनः प्रियोक्त्या स्निग्धा भवन्ति । अपि च वागेवेदं सर्वमैहिकमामुष्मिकं च फलजातं संपादयति । राजसेवादौ प्रियभाषणेन धनलाभात् । मन्त्रजपादिना स्वर्गादिसिद्धेश्च ।

ननु वाचः प्राणप्रेरितत्वात्प्राणध्यानमेव प्रशस्तमित्याशङ्क्य वस्तुतत्त्वविचारेण तथात्वेऽपि संहितायां वाचः प्रत्यासत्तिमन्वयव्यतिरेकाभ्यां दर्शयति—

तद्यत्रैतदधीते वा भाषते वा वाचि तदा


१ क. ख. 'धेन्तप' । २ क. ख. 'र्थज्ञानं प्रा' । ३ घ. ङ. प्राणेन संस्कृत' । ४ घ. ङ. 'ध्यानं प्र' ।