भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 73, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 73

अथ प्रथमारण्यके पञ्चमोऽध्यायः । तत्र प्रथमः खण्डः । (विंशः)

चतुर्थे शस्त्रपक्षिणो ग्रीवास्यभाग उक्तः । अन्ते तृचाशीतयोऽन्नरूपा अभिहिताः । तस्यान्नस्य धारणार्थमुदरं वक्तव्यमतस्तद्रूपं वशानामकं शस्त्रभागं विधत्ते—

वशं शंसति वशे म इदं सर्वमसदिति, [ इति । ]

यदिदं स्थावरजङ्गमस्वरूपं जगदस्ति तत्सर्वं मे वशे भूयादित्यभिप्रेत्य वशाख्यं शस्त्रभागं *पाठं पठेत् । स च भागः “त्वाऽवतः पुरूवसो” [ ऐ० आ० ५ अ० २ ख० ५ ] इत्यादिना पञ्चमे स्पष्टमुदाहृतः । वशानामकेन महर्षिणा दृष्टत्वात्तदेतत्सूक्तं वशमित्युच्यते ।

तत्सूक्तगतामृक्संख्यां प्रशंसति— ता एकविंशतिर्भवन्त्येकविंशतिर्हि ता अन्तरुदरे विकृतयः, इति ।

“त्वाऽवतः” [ ऋ० सं० म० ८ सू० ४६ ऋ० १ ] इत्यारभ्य “सनितः सुसनितः” [ ऋ० सं० म० ८ सू० ४६ ऋ० २० ] इत्यन्ता विंशतिः । ततः सूददोहा एकेत्येवमेकविंशतिर्द्रष्टव्या । हि यस्मादुदरमध्ये विद्यमानाः क्लोमैप्लीहाद्यवयवरूपा विकृतय एकविंशतिसंख्याकास्तस्माद्वशभागे संख्या प्रशस्ता । ते चावयवास्तत्र तत्रानुवर्तमानप्रकरणादौ द्रष्टव्याः ।

प्रकारान्तरेण संख्यां प्रशंसति— अथो एकविंशो वै स्तोमानां प्रतिष्ठा प्रतिष्ठोदरमन्नाद्यानाम्, इति ।

त्रिवृदादिस्तोमानां मध्य एकविंशस्तोमस्य प्रतिष्ठात्वं पूर्वत्रोक्तम् । उदरस्य स्वन्नाधारत्वं प्रसिद्धम् ।

तास्वृक्षु विद्यमानं परस्परविलक्षणच्छन्दस्त्वं प्रशंसति— ता विच्छन्दसो भवन्ति विश्रुद्रमिव वा अन्त- स्त्यमणीय इव च स्थवीय इव च, इति ।

“त्वाऽवतः” [ऋ० सं० म० ८ सू० ४६ ऋ० १] इत्यादिको ऋचो वशनाम्ना विहिताः परस्परविलक्षणच्छन्दोयुक्ताः । एतच्चानुक्रमणिकायां विस्पष्टमुक्तम्—“त्वाऽवतस्त्रयस्त्रिंशद्दशारुया आद्या पादनिचृत्” इत्यारभ्य “पञ्चम्यादिककुप्प्रगाथगायत्री-


* अत्र पाठशब्दोऽधिक इव भाति ।


१ क. ख. घ. 'मकैः शस्त्रैर्भागं । २ क. 'माना या लोम' । ख. ग. घ. ᵒमाना या क्लो' ।
३ ख. ग. घ. 'मग्नीवाद्य' । ४ ख. ग. घ. तत्र यमुर्वर्तं' । ५ क. ख. ग. घ. 'का या ऋ' ।