भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 60, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 60

अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५५

चक्षुराद्यभिमानिदेवतानां तत्तदिन्द्रियद्वारा देहप्रवेशाद्देहस्य च ताभिस्तैरिन्द्रियै- स्तादात्म्यापत्तेश्च पिपीलिकान्ताः सर्वे प्राणिनः संपूर्णा उत्पद्यन्त इति यद्ब्राह्मणेनोक्तं तदेवर्षिणा सहस्रथेत्यादिना मन्त्रेणाप्युक्तम् ।

सोऽयं मन्त्रः संहितायामेवं समाम्नायते—

“सहस्रधा पञ्चदशान्युक्या यावद्द्यावापृथिवी तावदित्तत् ।
सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक्” इति ।
[ ऋ० सं० म० १० सू० ११४ ऋ० ८ ]

अस्यायमर्थः—सहस्रधा सहस्रसंख्याकेषु ब्रह्मादिपिपीलिकान्तेषु देहेषु पञ्चदश- संख्याकान्युक्थोत्कृष्टानि विद्यन्त इति शेषः । चक्षुः श्रोत्रं मनो वाक्प्राण इत्येतत्प- ञ्चकं तदाधारत्वेन मातापित्रोः सकाशादुद्गतानि पृथिव्यप्तेजोवाय्वाकाशरूपाणि भूतानि तानि मातृसंबन्धीनि पितृसंबन्धीनि मिलित्वा दश संपद्यन्ते, चक्षुरादिपञ्चकं चेत्येवं पञ्चदशाङ्गान्युक्योत्कृष्टानि । इत्थं प्राणिदेहेषूपपन्नेषु देहेषु (※द्यावापृथिव्योर्यत्प- रिमाणकमेव(णं विद्यते) तत्प्रमाणे(णं) देहजाते(तं) संपन्नम् ।) सहस्रधा सहस्रसंख्या- केषु देहेषु सहस्रं महिमानः सहस्रसंख्याका महान्तो व्यवहारविशेषा दृश्यन्ते । प्रति- विषयं प्रतिक्षणं दर्शनश्रवणादिव्यवहाराणां निष्पत्तेः । ब्रह्म जगत्कारणं सत्यज्ञाना- दिरूपं वस्तु तस्तु(त्तु) नानाविधप्राणिदेहरूपेण यावदभिधेयं भूत्वा विशेषेण स्थितं तावत्ती तत्परिमाणा वाग्भवति । एकैकस्याभिधेयार्थस्यैकैकनामापेक्षणात् । अत एवा- [न्य]त्र श्रूयते—“सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते”
[ तै० आ० प्र० ३ अ० १२ ] इति ।

तस्यैतस्य व्याख्यातस्य मन्त्रस्य प्रथमपादं व्याचष्टे—

सहस्रधा पञ्चदशान्युक्येति पञ्च हि दशतो भवन्ति, इति ।

चक्षुरादीनि पञ्चाऽऽकाशादीनि मातृपितृसंबन्धीनि भूत्वा दशैकात्संपूर्णादेहरूपेण निष्पाद्यन्ते ।

द्वितीयपादं व्याचष्टे—

यावद्द्यावापृथिवी तावदित्तदिति यावती


सहस्रधा पञ्चदशान्युक्या०—ऋ० सं० म० १० सू० ११४ ऋ० ८ । याव-
द्द्यावापृथि०—ऋ० सं० म० १० सू० ११४ ऋ० ८ ।


* एतच्चिह्नान्तर्गतो ग्रन्थः किंचिदसंबद्ध इति तत्स्थाने संहिताभाष्ये विद्यमानो ग्रन्थोऽत्र लिख्यतेऽर्थबोधस्य सौलभ्याय । स यथा—“द्यावापृथिव्योर्यावद्यत्परिमाणमस्ति तावदित्तत्परिमाणमेवाऽऽत्माधिष्ठितं प्राणिदेहजातं भवति । किंच” इति ।


१ क. ख. घ. ॰मेव सं॰ । २ क. ग. घ. ॰न्युक्तं॰ । ३ ख. ग. घ. ॰शदशका॰ ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 60, कुल 304 में से · BharatKosha