भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 62, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 62

अध्या० ३ ख० ८ (१६)] ऐतरेयारण्यकम् । ५७

“तां सुते” [ऋ० सं० म० १० सू० ९४ ऋ० १] इत्यादिद्वितीयसूक्त- गतामृक्संख्यां प्रशंसति— षळृचं भवति षड्वा ऋतव ऋतूनामाप्त्यै, इति। “भूयः” [ऋ० सं० म० ६ सू० ३१ ऋ० १] इत्यादितृतीयसूक्तगता- मृक्संख्यां प्रशंसति— पञ्चर्चं भवति पञ्चपदा पङ्क्तिः पाङ्क्तोऽन्नमन्नाद्यस्यावरुद्धयै, इत्यादि*। पङ्क्तिश्छन्दः पञ्चभिश्छन्दःपादैरुपेतमन्नं$^+$ च पङ्क्तिच्छन्दःसाध्यत्वात्क्षेत्रेषु पङ्क्ति- रूपेणोक्त(प्त)त्वाद्वा पङ्क्तिरूपम् । तस्मादियं पञ्चसंख्याऽन्नप्राप्त्यै भवति । “नृणामु त्वा” [ऋ० सं० म० ३ सू० ५१ ऋ० ४] इत्यादिको यस्तृच- स्तद्गतामृक्संख्यां प्रशंसति— तृचो भवति त्रयो वा इमे त्रिवृतो लोका एषामेव लोकानामभिजित्यै, इति । “त्रयो वा” इत्यादि पूर्वमेव [ऐ० आ० १ अ० १ ख० २] व्याख्यातम् । केवलानि सूक्तान्युक्त्वा संख्याद्वारा प्रशस्यैतानि प्रकारान्तरेण प्रशंसति— ता अभि संपद्यन्ते बृहतीं छन्दोऽमृतं देवलोकमेष आत्मैवमु हैवैवं- विदेतयैव संपदाऽमृतमेवाऽऽत्मानमभिसंभवति संभवति, इति ॥ इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयाध्यायेऽ- ष्टमः खण्डः ॥ ८ ॥ ( १६ ) इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके तृतीयोऽध्यायः ॥ ३ ॥

ताः सूक्तगता ऋचोऽभि सर्वतो बृहतीं छन्दः संपद्यन्ते । तद्यथा—त्रिष्टुप्छन्द- स्कास्तृचैकैकः पाद एकादशाक्षरोऽष्टाक्षरेण “नदं वः” (ऋ० सं० म० ८ सू० ६९ ऋ० २) इत्यादिमन्त्रगतेन पादेन संयुज्यते, तदेतदष्टादशाक्षरात्मकं पादद्वय- मेकमर्धं भवति । तादृशे द्वे अर्धे षट्त्रिंशदक्षरां बृहतीं प्राप्नुतः । एवं त्रयोविंशति- संख्या ऋचः सर्वा अपि “नदं वः” इत्यादिसहिताः षट्चत्वारिंशद्बृहत्यो भवन्ति । तदेवं बृहतीं छन्दो विनाशरहितं देवलोकं तत्प्राप्तिहेतुत्वात्तादृशं छन्दः संपद्यत इति


* अत्रेतिशब्द एव केवलोऽपेक्षितः, सर्वत्र तन्मात्रस्यैव ग्रहणात्, ग्रहीतुमुचितत्वाच्च । परं चैवमेव पाठः सकलादर्शपुस्तकेषु । $+$ व्रीहियवादिरूपम् ।

१ क. ख. पञ्चऋचं । २ ग. घ. ˚ष्टाक्ष˚ ।

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या) · पृष्ठ 62, कुल 304 में से · BharatKosha