भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 83, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 83

७८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [१प्रथमारण्यके-

“ अनश्वः ” इत्यादिकं नवर्चमृभुदेवताकं सूक्तं द्यामृभवः पृथिवीं यच्च पुष्यथेति तत्र स्वयमाभीत्वा(स्वयमेवाऽऽर्भवत्वा)त् । तत्सूक्तं शंसेत् ।

तत्र प्रथमायामृचि द्वितीयपादे त्रिशब्दं प्रशंसति—

रथस्त्रिचक्र इति पदे तन्त्रिवत्तदन्तो वै
त्रिवदन्त एतदहरेतस्याह्नो रूपम्, इति ।

“रथस्त्रिचक्रः परिवर्तते रजः” इति द्वितीयपादस्तस्मिन्पादे यदेतन्त्रिशब्दोपेतरथविशेषणं त्रिचक्र इत्येतत्पदं विद्यते त्रिशब्दोऽस्मिन्पदेऽस्तीति त्रिवत्पदं तच्चान्तं वा अवसानभूमिरेव । यस्य रथस्य चक्रद्वयेना(यम)निर्वाह्यं यत्र तस्य तृतीयं चक्रं संपाद्यते तावता निर्वाहो भवतीत्यभिप्रेत्य तन्त्रिवत्पदमन्त इत्युच्यते । अन्त एतदहरित्यादिकं पूर्ववत् [ ऐ० आ० १ अ० ५ ख० २ ] ।

सूक्तान्तरं विधत्ते—

अस्य वामस्य पलितस्य होतुरिति वैश्वदेवं
बहुरूपं वा एतदहरेतस्याह्नो रूपम् , इति ।

“ अस्य वामस्य ” इत्यादिकं द्विपञ्चाशदृचं सूक्तं विश्वे(श्व)देवदेवताकं पठेत् तच्च बहुरूपं बह्वर्थप्रतिपादकत्वात् । तच्चानुक्रमणिकायां दर्शितम्—अस्य द्विपञ्चाशदल्पस्तवं त्वेतत्संशयोत्थापनप्रश्नप्रतिवाक्यान्यत्र प्रायेण ज्ञानमोक्षाक्षरप्रशंसा चेति वैदिकमन्त्रादिना लौकिकवृत्त्यादिना$^१$ च विवृतत्वादह्नो बहुरूपत्वमतः साम्यादुभयोरानुरूप्यम् ।

यथोक्तस्य कृत्स्नस्य सूक्तस्य प्रसक्तिं वारयितुं विशिनष्टि—

गौरीर्मिमाय सलिलानि तक्षतीत्येतदन्तम् , इति ।

ऋचां चत्वारिंशति(त)मतिक्रम्यानन्तरभाविनी “ गौरीः ” इत्यादिका तदन्तमे सूक्तभागं पठेन्न तूपरितनम् । अत एव शौनकः—“ एकचत्वारिंशेतम्$^२$ ” [ ऐ० आ० १ अ० ३ ख० २ ] इत्याह ।

सूक्तान्तरं विधत्ते—

आ नो भद्राः क्रतवो यन्तु विश्वत इति वैश्व-
देवं निविद्धानमैकाहिकं रूपसमृद्धम् , इति ।


रथस्त्रिचक्रः०—ऋ० सं० म० ४ सू० ३६ ऋ० १ । अस्य वामस्य०—ऋ० सं० म० १ सू० १६४ ऋ० १ । गौरीर्मिमाय०—ऋ० सं० म० १ सू० १६४ ऋ० ४१ । आ नो भद्राः—ऋ० सं० म० १ सू० ८९ ऋ० १ ।


$^१$ ख. ग. घ. ॰कनृत्यादि’ । $^२$ क. ख. ग. ॰शतिमि’ ।