ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
पृष्ठ 86, कुल 304 में से
संदर्भ में पढ़ेंअथ द्वितीयारण्यकम्।
प्रथमोऽध्यायः।
तत्र प्रथमः खण्डः।
यस्यै निश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥ १ ॥
प्रथमारण्यके कर्म महाव्रतमुदीरितम्।
संवत्सराख्यसत्रस्य शेषः पूर्णोऽत्र तावता॥ २ ॥
तदीया विकृतिः सर्वा प्रोक्तैवेति मनीपया।
कर्मकाण्डं समाप्यैव वेदो ज्ञानं विवक्षति॥ ३ ॥
आरण्यकं द्वितीयं च तृतीयं च तदात्मकम्।
ज्ञानकाण्डं ततः सोपनिषदित्यभिधीयते॥ ४ ॥
करोम्युपनिषद्व्याख्यां शंकराचार्यवर्त्मना।
आचार्यस्य प्रसादेन संसारान्मुच्यतां बुधः॥ ५ ॥
उपनिषच्छब्दो ब्रह्मविद्यामाचष्टे। सा हि विवित्सुं पुरुषमुपेत्य नितरामविद्यां सीदति विशीर्णां करोति, यद्वा ब्रह्मतां गमयति, अथवा रागद्वेषाववसादयति शिथिलीकरोति। ततः “षदॢ विशरणगत्यवसादनेषु” [भ्वा० ग० प०] इति प्रोक्तं धातोरर्थत्रयं तस्मिन्नुपनिषच्छब्दो विद्यते। तार्थावधाया ब्रह्मविद्याया उत्पादकत्वाद्व्रन्थोऽप्युपनिषदित्युच्यते। तस्योपनिषद्व्रन्थस्य विषयप्रयोजनाधिकारिसंबन्धप्रामाण्यप्रमेयस्वरूपाणि निरूप्यन्ते। अद्वैतमात्मतत्त्वं विषयः। अनन्यलभ्यमानत्वात्। न हीदृशं तत्त्वमुपनिषदोऽन्येन केनापि प्रमाणेन लभ्यते। न तावच्चक्षुरादिजन्यं बाह्यं प्रत्यक्षं तत्त्वे प्रमाणम्। तत्त्वस्य रूपरसादिरहितत्वात्। नाप्यहं मनुष्य इति वा कर्ता भोक्ताऽहमिति वा मानसप्रत्यक्षं तत्त्वबोधकम्। तयोः क्रमेण स्थूलसूक्ष्मदेहविषयत्वात्। यत्त्वहं ब्रह्मेति मानसप्रत्यक्षं तच्छास्त्रजन्यत्वान्नोपनिषदो व्यतिरिक्तम्। नाप्यस्यानुमानं तत्त्वे प्रवर्तते, तद्व्याप्तस्य लिङ्गस्य कस्याप्यभावात्। न हि निर्धर्मके तत्त्वे किंचिल्लिङ्गं संभवति। शक्यमानस्य यस्य कस्यापि लिङ्गस्य पक्षधर्मत्वाभावेनासिद्धत्वप्रसङ्गात्। आगमेऽपि कर्मकाण्डे तत्त्वं न प्रतीयते। तस्मादुपनिषदेव परिशिष्यते। अत एव श्रुतिः प्रत्यक्षादिगम्यत्वं निराकृत्योपनिषदेकगम्यत्वं दर्शयति— “नावेदविन्मनुते तं बृहन्तम्”
१ क. ॰स्य निःश्व॰। २ ख. ग. ॰दीयवि॰। ३ ग. ॰विधत्र॰। ४ क. ॰व्याप्यस्य।
११