भारतकोश
ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

पृष्ठ 85, कुल 304 में से

संदर्भ में पढ़ें
पृष्ठ 85

८० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [१प्रथमारण्यके-

सूक्तान्तरं विधत्ते—

इमं स्तोममर्हते जातवेदस इति जातवेदस्यं समानोदर्कं समानोदर्कं वा एतदहरेतस्याह्नो रूपमह्नो रूपम् , इति ॥
इत्यैतरेयब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥
इति बह्वृचब्राह्मणारण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥

इममित्यादिकं षोडशर्चं जातवेदोदेवताकं सूक्तं पठेत् । तस्मिन्सूक्ते बहुष्वृक्षु “ अग्ने सख्ये मा रिषामा वयं तव ” इत्यस्य चतुर्थपादस्य पठितत्वात्समानोदर्कत्वम् अन्यत्पूर्ववद्व्याख्येयम् । द्विरभ्यासोऽध्यायसमाप्त्यर्थः प्रथमारण्यकसमाप्त्यर्थः कर्मकाण्डसमाप्त्यर्थः(श्चैश्व) ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये प्रथमारण्यके पञ्चमाध्याये तृतीयः खण्डः ॥ ३ ॥ ( २२ )

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्मणारण्यकाण्डभाष्ये प्रथमारण्यके पञ्चमोऽध्यायः समाप्तः ॥ ५ ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरसायणामात्यकृतौ माधवीये वेदार्थप्रकाश ऐतरेयाऽऽरण्यकाण्डे प्रथमारण्यकं समाप्तम् ॥ १ ॥


( समष्ट्यङ्काः—आर० १ अध्या० ५ ख० २२ )


इमं स्तोम०—ऋ० सं० म० १ सू० ९४ ऋ० १ ।