ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)
Rigvediya Aitareya Brahmana with Hindi Translation
महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा
स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)
पृष्ठ 297, कुल 592 में से
संदर्भ में पढ़ेंपहला अध्याय ] २८३ सजूर्विश्वेभिर्देवैभिरश्विम्यामुषसा सजूः । आ याह्यग्ने 'अत्रिवत् सुते रण ॥ (ऋ० ५।५१।६-८) ( ४ ) आ मित्रे वरुणे वयं गीर्भिर्जुहुमो अत्रिवत् । नि बर्हिषि सदतं सोम पीतये ॥ व्रतेन स्थो ध्रुवच्चेमा धर्मणा यातयज्जना । नि बर्हिषि सदतं सोम पीतये ॥ मित्रश्च नो वरुणश्च जुषेतां यज्ञमिष्टये । नि बर्हिषि सदतां सोम पीतये ॥ (ऋ० ५।७२।१-३) ( ५ ) अश्विनावेह गच्छतं नासत्या मा वि वेनतम् । तिरश्चिदर्य्या परि- वर्त्तिर्यातमदाम्या माध्वी मम श्रुतं हवम् ॥ अस्मिन्यज्ञे अदाभ्या जरितारं शुभस्पती । अवश्युमश्विना युवं गृणन्तमुप भूषथो माध्वी मम श्रुतं हवम् ॥ अभूदुषा रुशत् पशुरारिग्रधाय्युत्वियः । अयोजि वां वृषण्वसू रथो दस्रावमर्त्यो माध्वी मम श्रुतं हवम् ॥ (ऋ० ५।७५।७-९) ( ६ ) आ याह्यद्रिभिः सुतं सोमं सोमपते पिब । वृषन्निन्द्र वृषभिर्वृत्र- हन्तम ॥ वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । वृषन्निन्द्र वृषभिर्वृत्र- हन्तम ॥ वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः । वृषन्निन्द्र वृषभिर्वृत्र- हन्तम ॥ (ऋ० ५।४०। १-३) ( ७ ) सजूर्देवैभिरपां नपातं सखायं कृध्वं शिवो नो अस्तु ॥ अब्जामुक्थैरहिं गृणीषेबुध्ने नदीनां रजः सु षीदन् ॥ मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः ॥ (ऋ० ७।३४।१५-१७) ( ८ ) उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा । सरस्वती स्तोम्या भूत् । आपप्रुषी पार्थिवान्युरु रजो अन्तरिक्षम् । सरस्वती निदस्पातु ।