भारतकोश
ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

Rigvediya Aitareya Brahmana with Hindi Translation

महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)

DevanagariSanskritpublished592 पृष्ठ

पृष्ठ 321, कुल 592 में से

संदर्भ में पढ़ें
पृष्ठ 321

दूसरा अध्याय ] ३०७ इमे वां सोमा अप्सवा सुता इहाध्वर्युभिर्भरमाणा अयंसत वायो शुक्रा अयंसत । एते वामभ्यसृक्षत तिरः पवित्रमाशवः । युवायवोऽति रोमाशयण्व्या सोमासो अत्यण्व्या ॥ ( ऋ० १।१३५।४-६ ) सुषुमा यातमद्रिभिर्गों श्रीता मत्सरा इमें सोमासो मत्सरा इमे । आ राजाना दिविस्पृशाऽस्मत्रा गन्तमुपनः । इमे वां मित्रावरुणा गवाशिरः सोमाः शुक्रा गवाशिरः ॥ इम आ यातमिन्दवः सोमासो दध्याशिरः सुतासो दध्याशिरः । उत वामुषसो बुध्रि साकं सूर्यस्य रश्मिभिः । सुतो मित्राय वरुणाय पीतये चारुऋताय पीतये ॥ तां वां धेनुं न वासरीमंशुं दुहन्त्यद्रिभिः सोमं दुहन्त्यद्रिभिः । अस्मत्रा गन्तमुप नोऽर्वाञ्चा सोमपीतये । अयं वां मित्रावरुणा नृभिः सुतः सोम आ पीतये सुतः ॥ ( ऋ० १।१३७।१-३ ) अचेति दस्रा व्युनाकमूष्वथो युञ्जते वां रथयुजो दिविष्टुष्वध्व- स्मानो दिविष्टुषु । अधि वां स्थाम वन्धुरे रथे दस्रा हिरण्यये । पथेव यन्तावनुशास्ता रजोऽङ्कसा शासता रजः ॥ शचीभिनंः शचीवसू दिवा नक्तं दशस्यतम् । मा वां रातिरूप दसत् कदाचनास्मद्रातिः कदाचन ॥ वृषन्निन्द्र वृषपाणास इन्दव, इमे सुता अद्रिषुतास उद्भिदस्तुभ्यं सुतास उद्भिदः । ते त्वा मन्दन्तु दावने महे चित्राय राधसे । गीर्भिर्गिर्वाहः स्तवमान आ गहि सुमृडीको न आ गहि ॥ ( ऋ० २।१३६।४-६ ) अवर्मह इन्द्र दादृहि श्रुधी नः सुशोच हि द्यौः क्षा न भीषाँ अद्रिवो घृणान भीषाँ अद्रिवः । शुष्मिन्तमो हि शुष्मिभिर्वधैरुरु भिरीयसे । अपूरुषघ्नो अप्रतीत शूर सत्वभिज्ञिसत् : शूर सत्वभिः ॥ वनोति हि सुन्वन्त्क्षयं परीणसः सुन्वानो हि ष्मा यजत्यव द्विषो देवानामव द्विषः । सुन्वान इत्सिषा सति सहस्रा वाज्यवृतः । सुन्वाना- येन्द्रो ददात्याभुवं रयिं ददात्यभुवम् ॥ ( ऋ० १।१३३।६।७ )