भारतकोश
ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

ऐतरेय ब्राह्मण (ऋग्वेद - हिन्दी अनुवाद सहित)

Rigvediya Aitareya Brahmana with Hindi Translation

महिदास ऐतरेय / पं. गंगाप्रसाद उपाध्याय द्वारा

स्रोत: हिन्दी साहित्य सम्मेलन प्रयाग · हिन्दी साहित्य सम्मेलन प्रयाग · 1950 (उद्गम)

DevanagariSanskritpublished592 पृष्ठ

पृष्ठ 344, कुल 592 में से

संदर्भ में पढ़ें
पृष्ठ 344

३३० [ पाँचवीं पञ्चिका ते सत्येन मनसा दीध्यानाः स्वेन युक्तासः ऋतुना वहन्ति । इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पृक्षः सचन्ते ॥ ( ऋ० ७।६०।५ ) दिवि क्षयन्ता रजसः पृथिव्यां प्र वां घृतस्य निर्णिजो ददीरन् । हव्यं -नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त । (ऋ० ७।६४। १) आ विश्ववाराश्विना गतं नः प्र तत् स्थानमवाचि वां पृथिव्याम् । अश्वो न वाजी शुनपृष्ठो अस्थादा यत्सेदुश्चुर्वसे न योनिम् ॥ सिषक्ति सा वां सुमतिश्चनिष्ठोऽतापि घर्मो मनुषो दुरोणे । यो वां समुद्रान्सरितः पिपर्त्येत्तग्वा चिन्न सुयुजा युजानः ॥ यानि स्थान्यश्विना दधाथे दिवो यह्वीष्वोषधीषु विक्षु । नि पर्वतस्य मूर्धनि सदन्तेषं जनाय दाशुषे वहन्ता ॥ ( ऋ० ७।७०।१-३) अयं सोम इन्द्र तुभ्यं सुन्व आ तु प्र याहि हरिवस्तदोकः । पिबत्वस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः ॥ ब्रह्मन् वीर ब्रह्मकृतिं जुषाणोऽर्वाचीनो हरिभिर्याहि तूयम् । अस्मिन्न् षु सवने मादयस्वोप ब्रह्माणि शृणव इमा नः ॥ का ते अस्त्यरंकृतिः सूक्तैः कदा नूनं ते मघवन् दाशेम विश्वा मतीरा ततने त्वायाऽधाम इन्द्र शृणवो हवेमा । ( ऋ० ७।२६।१-३ ) प्र ब्रह्माणो अङ्गिरसो नक्षन्त प्र क्रन्दनुर्नभन्यस्य वेतु । प्र धेनव उदप्रुतो नवन्त युज्यतामद्री अध्वरस्य पेशः ॥ सुगस्तै अग्ने सनवित्तो अध्वा युक्ष्वा सुते हरितो रोहितश्च । ये वा सधस्रषा वीरवाहो हुवे देवानां जनिमानि सक्तः ॥ समु वो यज्ञं महयन्नमोभिः प्र होता मन्द्रो रिरिच उपाके । यजस्व सु पुरुणीक देवानां यज्ञियामरमतिं ववृत्याः ॥ ( ऋ० ७।४२।१-३ ) सरस्वतीं देवयन्तो हवन्ते सरस्वतीमध्वरे तायमाने । सरस्वतीं सुकृतो अह्वयन्त सरस्वती दाशुषे वार्यं दात् ॥