भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1001, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1001

Here is the complete, line-by-line transcription of the Sanskrit text from the image into clean Devanagari Markdown:

८५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० ६ भाष्यप्रकाशः। इत्येतदुत्तरस्य ब्रह्मप्रश्नात् प्राग्भावात् तत्पूर्वग्रन्थस्य तदनुत्तरत्वं शङ्क्यम् । 'न सांपरायः' इति वाक्ये परलोकमात्त्वमानिनः पुनः पुनः स्ववशगत्वोक्त्या तादृशस्याप्यस्तिबोधनस्यै वोत्तरत्वात्। रश्मिः। चातो जीवब्रह्मवादोस्त्विति वाच्यम्। अदृश्यत्वाद्यधिकरणोक्तं रूपमेतद्ब्रह्माक्षरं ब्रह्मेत्युक्त्वा न जायत इति श्रुत्युक्तेरेतासां कृष्णावतारपरत्वात् । विपश्चित्पदात् 'सूर्यो विपश्चिन्मनसा पुनातु' इति विपश्चितः सूर्यत्वं कृष्णस्य सूर्यत्वं च 'कृष्णद्युमणिम्निर्मोचे' इति वाक्यात् । अतः कृष्णविपश्चितोरेकार्थवाचक- त्वम् । जन्ममरणयोरविर्भावतिरोभावात्मकत्वान्न दोषः । 'आविर्भावतिरोभावौ शक्ती वै मुरवैरिणः' इति वाक्यात् । न च मुरस्य जलदोषात्मकस्यारित्वसमकालिकावाविर्भावतिरोभावाविति शङ्क्यम् । नारायणत्वेनात्मत आविर्भावतिरोभावाविति श्रुतेश्च मुरवैरित्वसमकालिकत्वस्याविर्भावतिरोभावयोः पौराणिकत्वात् । स्वप्नान्तं जागरितान्तं चेत्यादि कृष्णावतारे 'लोकवत्तु लीलाकैवल्यम्'इति सूत्रात्। इहेति इह लोके कृष्णावतारे । अमुत्र परब्रह्मणि । नानादर्शने स्वगतद्वैतापत्तिरतः साधनै राजसतामसज्ञाने निहत्य सात्विकं ज्ञानं संपाद्य नानादृष्टिनिर्वर्तनीया तदुक्तम् 'सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं सात्विकं स्मृतम्' ॥ इत्याकादशस्कन्धे । अतो न जीवब्रह्मवादः । एवं विषयनिर्देशविरोधादित्यर्थः । किं च अनूद्य- जीवप्रश्न एकः अनुवादकं तु दृष्टान्तदार्ष्टान्तिकयोर्भिन्नं तत्र यदि दृष्टान्तेऽनुवादकं वाक्यं स्यात् तदा दार्ष्टान्तिकेपि वदेत् तदेव तु न दृष्टान्तीयानुवादकवाक्यस्य त्वर्थान्तरादिदं वाक्यं जीवप्रश्ने मृत्युना 'अन्यं वरं नचिकेतो वृणीष्व' इत्युक्तौ नचिकेताः 'यस्मिन्निदं विचिकित्सन्ति मृत्यो यत्सांपराये महति ब्रूहि नस्तत् । योयं वरो गूढमनुप्रविष्टो नान्यं वरं तस्माञ्चिकेता वृणीते' ॥ इत्याह । अत्र तस्मादित्यस्य यस्मिन्नित्यादिनानूदितद्वितीयप्रश्नार्थ्यादित्यर्थे अनुवादः स्यान्न त्वेवं न्यूनताख्यानिग्रहस्थानापत्तेः । न हि ब्रह्म जीवस्यात्ममात्रं 'अधिकं तु भेदनिर्देशात्' इति सूत्रात् किं तु तस्मादित्यस्य श्रौतपदस्योक्तोभयार्थद्वितीयपक्षः ग्रहण इत्यर्थः । अतोनानुवादत्वं शङ्कमित्यर्थः । न चात्र चतुर्थो वरस्तस्य समाप्तत्वात् नचिकेता नामा अग्रि प्रसिद्धौ अतोम्यं वरं नचिकेतो वृणीष्व इत्यन्तं चरमवरकारणकस्तुतीयो ब्रह्मप्रश्न इति । एवं तृतीये प्रश्ने समर्थिते देवैरत्रापीत्यस्य प्रथम- वल्लीसमाप्तिपर्यन्तस्योत्तरत्वम् । द्वितीयवल्लीस्थस्य ॐमन्यच्छ्रेय इत्यादेरुत्तरत्वमाशङ्क्य समादधुः न च येयमिति । येयं प्रेत इत्यस्य प्रश्नस्य यदुत्तरं तस्य देवैरत्रापीत्यारभ्य 'नचिकेता वृणीते' इति प्रथमवल्लीसमाप्त्यन्तस्य ग्रन्थस्यात्र प्राग्भावादित्यत्र प्राग्भावादिति पाठः। तत्पूर्वेति ब्रह्मप्रश्नात्पूर्व- ग्रन्थस्य प्रथमवल्लीसमाप्त्यनन्तरस्य ॐमन्यच्छ्रेय इत्यादिग्रन्थस्य द्वितीयवल्लीस्थस्य 'न सांपरायः' इति वाक्यात्पूर्वस्य । तदनुत्तरत्वं द्वितीयप्रश्नानुत्तरत्वं विचिकित्सनाभावाच्छङ्क्यम् । न इति । 'न सांपरायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । अयं वा लोको नास्ति पर इति मानी पुनःपुनर्वशमापद्यते मे' ॥ इति वाक्ये । स्ववशेति मृत्युवशगत्वोक्त्या । तादृशेति परलोकमात्त्वमानिनोपि । अस्ति 'अस्तीत्येके नायमस्तीति चैके' इत्यनयोरस्तिबोधनपक्षस्यात्रापि सत्त्वात् । यद्धर्मप्रकारकयदद्विषयकप्रश्न- स्तद्धर्मावच्छिन्नतदुद्देशकमुत्तरमिति नियमस्य को घटः कम्बुग्रीवादिमान् घट इत्यादिषु दर्शनादस्ति- 904