अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1000, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५१ नाचिकेतः प्रजानन्' इत्याद्युत्तरम् । 'येयं प्रेते विचिकित्सा मनुष्येऽस्तीत्येके नायमस्तीति चैके' इति द्वितीयः प्रश्नः । देवैरत्रापीत्यग्रे उत्तरम् । 'अन्यत्र धर्मादन्यत्राधर्मात्' इति तृतीयः प्रश्नः । 'सर्वे वेदा यत् पदमामनन्ति' इत्यादिना भाष्यप्रकाशः। काल्पनिकत्वं शङ्क्यम् । 'यत् तत् पश्यसि तद् वद' इति श्रुत्यैव सिद्धत्वात् । नंच निर्हेतुकत्वम् । 'तमब्रवीत् प्रीयमाणो महात्मा' इत्युक्तवरवदस्यापि वक्तव्यमीतिहेतुकत्वात् । नच तत्प्रीतेः काल्पनिकत्वम् । 'नैषा तर्केण' इति वाक्यस्थस्य श्रेष्ठपदस्यैव गमकत्वात् । नच 'यत् सांपराये महति ब्रूहि नस्तत्' इतिवदस्यापि पूर्वप्रश्नानुवादत्वं शङ्क्यम् । विषयनिर्देशविरोधात् । नच, 'येयं प्रेते' रश्मिः। तु त्रयाणामेव प्रकरणानामेक एवशब्देन चतुर्थप्रकरणव्यवच्छेदः । असङ्कुचेति भाष्यात् । उत्तरत्वेन त्रयाणामेव न चतुर्थस्यैवोपन्यासः । चकारोऽप्यादिसमुच्चये, अंश्यादिकथनं च प्रश्नसमुच्चये, प्रश्नश्च द्वितीयचकार उत्तरप्रश्नभावार्थ स चोत्तरः प्रयोक्तव्यः उत्तरवतीवेदान्तप्रभात् यथैवं तद्वैवं वेदश्रुतिवद्विख्युतरोत्तरप्रश्नप्रयोगफलं वह्निमान् धूमादित्यत्र पर्वतो वह्निमानितिवदुत्तरप्रयोगफलमिति सूत्रार्थः । सिद्धत्वादिति वदेति लोटः संप्रश्नार्थकत्वेन तथा तस्मात् । नन्वन्येऽप्यर्थाः सन्ति संप्रश्नार्थग्रहणे किं कारणमिति चेन्न । तृतीयवरानन्तरमन्यं वरं नचिकेतो वृणीष्वेति श्रुत्युक्तैः वर- कारणसत्त्वात् । श्रुत्यैवेत्यत्रैकारेण वरव्यवच्छेदः । वराभावं तत्र कारणाभावं च शङ्कते स्म न च निरिति । आपद्येत इति शङ्कमिति शेषः । वरवदिति तवैव नाम्ना भवितायमग्निरिति वरवत् षष्ठ्यन्ताद्वतिः । अस्येति तुरीयवरस्य इति । वाक्येति । 'नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ । यां त्वमापः सत्यधृतिर्बतासि त्वादृङ् नो भूयान्नचिकेतः प्रष्टा' ॥ इति वाक्यस्यस्य । किंच वरप्रदानसामर्थ्यात् प्रश्नोत्तरे इत्यसंबद्धं वरोमीष्टमिति पक्षे वरः श्रेष्ठ इति पक्षे च प्रश्ने तयोः सामर्थ्यात्साहेतुत्वात् । अभीष्टश्रेहसामर्थ्याभावेऽप्यनुरोधात् प्रश्नदर्शनात् । तदत्र नास्ति यौक्तिकत्वात् । तर्हि अनुवादत्वमस्तु तृतीयप्रश्नस्यास्तीत्याहुः न च यदिति । अयं च 'येयं प्रेते' इति प्रश्नानुवादः । 'यस्मिन्निदं विचिकित्सन्ति मृतौ' इति पूर्वपादात् । अर्थस्तूक्तः । तदुभयोरर्थयोः प्रथमार्थेनानुवादत्वम् । अस्येति तृतीयप्रश्नस्य । पूर्वप्रश्नो जीवप्रश्नस्तस्यानुवादत्वं सिद्धस्य कथनमनुवादस्तस्य भावः । विषयेति । पूर्वस्य जीवः तृतीयप्रश्नस्याक्षरः । न च जीवोऽक्षर इति पूर्वानुवादत्वं 'एतद्ध्येवाक्षरं परम्' इतिश्रुतौ परंपदेनादृश्यत्वाद्यधिकरणोक्तपरमव्योकेः । न च 'एतद्ध्येवाक्षरं ब्रह्म ह्येतद्ध्येवाक्षरं परम्' इत्याद्यनन्तरं 'न जायते म्रियते वा विपश्चित्' इति जन्ममरणप्रतिषेधेन प्रतिपाद्यमानशारीरपरमेश्वरयोर्भेदं दर्शयति । सति हि प्रसङ्गे प्रतिषेधो भागी भवति प्रसङ्गश्च जन्ममरणयोः शारीरसंसर्गात् शारीरस्य भवति न परमेश्वरस्य । तथा । 'स्वप्नान्तं जागरित्तान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति' ॥ इति स्वप्नजागरितदृशो जीवस्यैव महत्वविभुत्वविशेषणस्य मननेन शोकविच्छेदं दर्शयंश्च प्राज्ञादन्यो जीव इति दर्शयति प्राज्ञविज्ञानाद्धि शोकविच्छेद इति वेदान्तसिद्धान्तः । तथाग्रे 'यदेवेह तदमुत्र यदमुत्र तदन्वेह मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति' इति जीवप्राज्ञभेददृष्टिमपवदति 903