अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 999, कुल 2600 में से
संदर्भ में पढ़ें८५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० १ अ० १ सू० १ रश्मिः । तत्रैकैकां रात्रिं प्रति त्रीन् वरान् वृणीष्वेति शंकरभाष्यम् । शान्तसंकल्पः सुमना वीतमन्युरिति वरत्रयसंभवादिति त्रीन् वरान् वृणीष्वेति मृत्युनेोक्तो नचिकेताः । 'शान्तसंकल्पः सुमना यथा स्याद्दीतमन्युः गौतमो मामि मृत्युलो । त्वत्सृष्टं मामभिवदेत् प्रतीत एतत्प्रयाणां प्रथमं वरं वृणे' ॥ इति पितृसौमनस्येनेत्यर्थः । किं चाग्निजीवप्रश्नाभ्यां स त्वमग्निमित्यस्योत्तरार्थ 'स्वर्गलोका अमृतत्वं भजन्ते' एतद्द्वितीयेन वृणे वरेणेति द्वितीये वरे प्रथमप्रश्नपरिसमाप्तेस्तथा 'येयं प्रेते विचिकित्सा' इत्य- स्योत्तरार्थं 'एतद्विद्यामनुशिष्टस्त्वयाहं वराणामेष वरस्तृतीयः' इति तृतीये वरे द्वितीयप्रश्नपरिसमाप्तेरन्यत्र धर्मादित्युक्तस्तृतीयः प्रश्नः काल्पनिकः कल्पनेन व्यवहरति 'तेन दीव्यति खनति' इति ठक्, इत्याशङ्क- यानस्तुतीयः प्रश्न इति भाष्यमाशङ्कयम् । तेन जीवप्रश्न एव परमात्मप्रश्न इति पुनरनुत्थुप्यते जीवप्राज्ञ- योरभेदात् । न च जीवस्य धर्मादिगोचरत्वात् स नान्यत्र धर्मादिति प्रश्नमर्हति प्राज्ञस्तु धर्माद्यती- तत्वात् अन्यत्र धर्मादिति प्रश्नमर्हति प्रश्नच्छाया च न समाना लक्ष्यते पूर्वस्यास्तित्वनास्तित्वविषय- त्वादुत्तरस्य धर्माद्यतीतविषयत्वात् । तस्मात्प्रत्यभिज्ञानाभावात् प्रश्नभेदो न पूर्वस्यैवोत्तरत्रानुकर्षणमिति शङ्क्यम् । मवद्ब्रह्मभेदात् प्रश्नभेदो यद्यन्यो जीवः प्राज्ञतः स्यान् न त्वन्यत्वमस्ति तत्त्वमसीत्या- दिश्रुत्यन्तरेभ्यः इति शंकराचार्याः जीवब्रह्मवादमवतारयन्ति सोत्रावतारितसद्ब्रह्मपामाहुः यस्तदिति । अवधिविप्रायः पश्यसीति पदात् । 'अथ वा शून्यवद्ब्रह्मं व्योमेव ब्रह्म तादृशम् । प्रकाशते लोकदृष्टया नान्यथाऽहङ् स्पृशेत् परम्' ॥ इति । निबन्धीक्तरूपसारणाच्च चालन्तजीवभिन्नत्वेन प्रश्नभेद इति । जीवस्य त्वप्रत्यक्षत्वं 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन्' इति श्रुतेः । न चावृत्तचक्षुस्त्वं पश्यसि तद्वदे- त्तर्वं इति शङ्क्यम् । 'त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि' इति वायुप्रतिपादकश्रुतेः 'ब्रह्म तर्हि अभिः' इति श्रुतेश्च अभ्रिस्तु दृष्ट एव । जीवस्याणुत्वं जीवाणुत्ववाद उपपादि, अतो न जीवो वायुवत्प्रत्यक्ष इति । अन्यत्र वायुरपि त्वाचप्रत्यक्षविषयोतो ऽपरं प्रत्यक्षं पृष्टं परं च अन्यत्र शंकरभाष्येऽस्य प्रश्नस्याङ्गीकारः केषां विदस पृथक् सत्यं स्फोरयति सूत्रकृताङ्गीकृतं सत्यमिति चेत् कुतो निराक्रियते श्लक्ष्णसङ्गति- बलदिति चेन्न पद्मपुराणे उत्तरखण्डे उमामहेश्वरसंवादे गुणत्रयविवरणकथने 'मायावादमसच्छास्त्र- मित्येत्त्वानिराकरणच्छिनेन । ननु तर्हि श्लक्ष्णसंगतिरन्या केति चेन्न ब्रह्मवादेन संगतिः सुस्थिरा भवति । तथाहि सौमनस्यपर्यन्तं समानकं सर्वमुक्तम् । अर्थस्तु हे मृत्यो मामभि मां प्रति मत्पिता शान्तसंकल्प इत्यादिरूपः सन् त्वत्सृष्टं त्वदर्जितं मामभिवदेत्प्रतीतो लब्धस्मृतिः स एवानं पुत्रो ममे- त्यभिजानन् एततप्रयोजनं वरमार्थं वृणे । तदा मृत्युस्त्वाह 'यथा पुरस्तात् भविता प्रतीत:' इति तव पिता यमितेत्यर्थः । नचिकेता उवाच । 'स्वर्गे लोके न भयं किंचनास्ति न तत्र च त्वं न जरया विभेति' किं च 'उभे तीर्त्वा अशनायापिपासे शोकातिगो मोदते स्वर्गलोके' इति वामिति वर्णागमः । एतदग्रे स त्वमग्निमिति । इतः संगतिर्भिन्ना त्रयाणामेवाग्निजीवपर- मात्मनामेव वरप्रदानसामर्थ्यात् वक्तव्यतयोपन्यासो दृश्यते कठवल्लीषु तद्विषय एव च प्रश्नो नातोऽन्यस्य प्रश्न उपन्यासो वा दृश्यते इति सूत्रार्थः परेषास् । अवधारण एवं परं व्याकृतमत्र 902