अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1003, कुल 2600 में से
संदर्भ में पढ़ें८५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० ६ भाष्यप्रकाशः । संदर्भ एव तृतीयवरप्राप्तस्य द्वितीयप्रश्नस्य पूर्तैः 'अन्यत्र धर्मात्' इत्यनेनोक्तस्य प्रश्नस्य तृतीयत्वं प्रसादहेतुकत्वं च मन्तव्यम् । नच प्रसङ्गाभावः शङ्क्यः । जीवप्रश्नप्रत्युत्तरोपसंहारत्वे दुर्दर्श- वाक्योत्तरम् । 'एतच्छ्रुत्वा संपरिगृह्य मर्त्यः प्रगृह्य धर्म्यमणुमेतमाप्य । स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये' ॥ इत्यस्मिन् वाक्ये, एतत्पूर्ववाक्योक्तं, देवं व्यवहर्तारं जीवमाचार्यमुखाच्छ्रुत्वा संपरिगृह्य सम्यगात्मत्वेनोपादाय मर्त्यः शरीरद्वयव्यतिरिक्तत्वज्ञानेन हर्षशोकशून्योऽपि, येऽन्येऽरवि- न्दाक्षेतिवाक्योक्तन्यायान्मरणधर्मैव सन् प्रगृह्य धर्म्यं, 'न हि सुविज्ञेयमणुरेष धर्मः' इ