अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1004, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८५५ उत्तरम् । एवमग्निजीवब्रह्मणां प्रश्नोत्तराणि । तत्र यदि साङ्ख्यमतं निरूपणीयम्, 'इन्द्रियेभ्यः' इत्यादि स्यात् तदा चतुर्थस्याप्युपन्यासः स्यात् । उपन्यासे हेतुः प्रश्नः । अत एव पश्चाद्वचनम् । तस्य प्रकृतेऽभावादसङ्गतरीत्या त्रीण्येव प्रकर- णानीति सिद्धम् । उत्तरप्रश्नाभावार्थं चकारः ॥ ६ ॥ भाष्यप्रकाशः। सः, जीवं ज्ञात्वा विद्वान्, मोदनीयं सर्वथालम्बनेन प्रसाधनीयं ब्रह्म लब्ध्वा प्राप्य मोदते । एष ह्येवानन्दयातीति श्रुतेः । मोदते हि यतो हेतोरतो नचिकेतसं त्वामधिकारिणं प्रति स च सद्म- भूतं ब्रह्म विवृतमपाहृतद्वारं मन्य इति कथनेन ब्रह्मणः स्मारणात् । न च पञ्चमवल्लीस्थस्य, यथा च मरणं प्राप्येति सार्द्धवाक्यस्योत्तरत्वं शङ्क्यम् । व्यवहितत्वात् । हन्त इदं