अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1005, कुल 2600 में से
संदर्भ में पढ़ें८५६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० ६ रश्मिः । 'यथा हि मरणं प्राप्यात्मा भवति गोतम । योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतम्' । मरणं प्राणत्यागं जीवीयं प्राप्य त्यक्ताः प्राणा भगवत्समीपं गच्छन्ति स आत्मा आध्यात्मिकादितत्रितयविदाश्रयो भवति आत्मावतारादिरपि । लोकवत्तु लीलाकैवल्यमिति सूत्रानुसरणात् । धीरविषय उक्तः । अधीरविषयमाह योनिमिति 'योनेः शरीरम्' इति सूत्रात् । स्थाणुमन्ये । श्रुतं गुर्वादिमुखद्वारा । प्रसङ्गागतान्यगतिसहितेश्वरनिर्याणस्य मुक्तिलीलात्वेपि शोकदत्वात्तद्विहाय विसर्गलीलामारभ्याहुः य एष्विति । य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाणः । तदेवशुक्रं तद्ब्रह्म तदेवामृतमुच्यते ॥ अवक्रं ऋजुः 'विसर्गः पौरुषः स्मृतः' इति वाक्यम् । अत्र स्वप्नसृष्टिनिर्मातृत्वं तच्च कर्तृत्वमात्रं नाभिजन्मनिमित्तोपादानत्वरूपमिति न संध्याधिकरणभाष्यविरोधः 'यस्मिन् लोकाः श्रिताः सर्वे तदुनात्येति कश्चन एतद्वैतत्' इति श्रुतिरत्र अत्येति अत्यन्तमेति तद्ब्रह्म 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति अत्र लोकधारकत्वादाश्रयलीला कृष्णाश्रयनामाश्रयः । 'अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव । एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च' ॥ वायुर्यथैक इति वाक्यं पूर्ववत् । अत्र धर्मिणोऽसाधारणधर्मेण व्यापकत्वेन रूपनामनिर्वाहकत्वलीला तत्त्वादिरूपनामनिर्वाहकत्वेन सर्गलीला । महत्तत्त्वांहंकारादीनि नामानि 'प्रोचुः प्राञ्जलयः' इति वाक्यात् रूपाणि । 'सूर्यो यथा सर्वलोकस्य चक्षुर्न लिप्यते चाक्षुषैर्बाह्यदोषैः । एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः' ॥ इत्यत्र लोकदुःखासंसृष्टलोक्त्या जगद्व्यापारवर्ज 'सर्वरसः' इति श्रुतेः सर्वरसलीला विसर्गलीला । भक्तानुरोधिनीं लीलां विसर्गरूपामाह । 'एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति । तमात्मस्थं येऽनु पश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्' ॥ इति । अत्रैकरूपस्य बहुधाकरणं भक्तानुरोधात् यद्यद्धियेति वाक्यात् । आत्मस्थं श्रुतिस्थं 'तस्माद्ग- मिष्ठा एतास्त्वा आभिर्मिञ्चो न वै विमुः' इति कृष्णोपनिषच्छ्रुतेः मनःस्थं वा 'स मानसीन आत्मा जनानां सर्वात्मा' इति श्रुतेः । फलदातृत्वरूपं स्थानादिलीलामाह 'नित्यो नित्यानां चेतनश्चेतनाना- मेको बहूनां यो विदधाति कामान् तमात्मस्थम्' इति पूर्ववत् । सुखस्थाने शान्तिः फलमत उपपत्तेरिति सूत्रात् 'तदेतदिति मन्यन्ते निर्देश्यं परमं सुखम् । कथं नु तद्विजानीयात् किमुतो भाति वा न वा' ॥ तद्ब्रह्म एतत्प्रत्यक्षं समीपतरं मन्यन्ते जानन्ति अवबोधयन्ति वा निवृत्तेषणा ब्राह्मणादयः तत्सुखं कथं केन प्रकारेण जानीयामहे नचिकेताः । विजानीयात् यः कोपि । किमुतेति नावध्रिये 903