भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1006, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1006

यहाँ पृष्ठ की सामग्री का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । [८५७] रश्मिः । शङ्कतेः, न विकल्पे, वाकारोक्तेः । अतः प्रश्ने आसमन्ताद्भाति न वेति प्रश्नः । भासाद्वारा दीप्यते इत्युत्तरमाह 'न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' ॥ इति । 'अनुकृतेस्तस्य च' इत्यत्र व्याख्याता पञ्चमवल्लीस्था लीला । एवमा वलीसमाप्ति लीला- कथनदर्शनेनेत्यर्थः । अग्रेतनवह्व्यर्थः कथ्यते प्रसङ्गात् । 'अत एव च नित्यत्वम्' इति सूत्रभाष्ये वेदस्यार्थतौल्यं शब्दब्रह्मवेदपुरुषशब्दवाच्यत्वमुक्तं तदाहुः ऊर्ध्वमूल इति इयं विसर्गरूपेण लीला 'तस्माद्विराडजायत विराजो अधिपूरुषः' इत्युक्त्वा किंचिदन्यदुत्तोच्यते 'तस्माद्य- ज्ञात्सर्वहुतः ऋचः सामानि जज्ञिरे छन्दांसि जज्ञिरे तस्माद् यजुस्तस्मादजायत' इति श्रुतेः । 'ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः । तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते' 'तस्मिंल्लोकाः श्रिताः सर्वे तदुनात्येति कश्चन एतद्वैतत्' इति श्रुतिः । अत्र पञ्चिवृषभतृक्षेषु वृक्षत्वेन वेदोऽवर्णि । ननु वृक्षे लोकानां श्रितत्वं बाधितमिति चेन्न ऊर्ध्वमूलं तद्विष्णोः परमं पदमस्य स्वर्गनरकतिर्यगादि- शाखाभिरवाक्शाखः अश्वत्थः अश्वत्थं जलमस्यास्ति 'अर्शआद्यच्' 'आपः प्रजाहितं शान्तं अश्वत्थं पवनं शिवम्' इति केशरमालाकोश इति व्याख्यासुधायां भानुदीक्षितः । यद्वा अश्वस्तिष्ठत्यस्मिन्त्रि- त्यश्वत्थः लोकास्त्वश्वे तिष्ठन्ति अस्मिंस्त्वश्वस्तिष्ठतीति अश्वो रूपं कृत्वा यदश्वत्थे तिष्ठते इति अश्वत्थशब्दो योगरूढः 'विचारो योगरूढितः' इति पूर्वमीमांसाकारिकायाः । तथा च व्यापककोशनामा पदार्थः कल्की अवतारः । अवतारत्वाद्द्द्यापकः । रूपं प्रत्यक्षाश्वत्थरूपम् । तिष्ठत इति उपग्रहव्यत्ययः । परस्मैपदी आत्मनेपदी उपग्रहः । सनातनो नित्यः । तथा च वेदतरोः शब्दात्मकत्वमर्थतरोरवताराम- त्मकत्वमतोत्र शुक्रत्वादिविदधौ श्रुतिः तदेव शुक्रमिति । शुक गमने भ्वा. प. से. गतमित्यर्थः क्रियेति यावत् वेदार्थयोरभेदात् । तद्ब्रह्मेति अवतारावतारिणोरभेदात् । एतदमृतमिति तस्मिंल्लोकाः श्रिताः सर्वे । अत्यन्तं नेति प्राप्नोतीत्यर्थात् । अग्रे भगवतो मारणलीलार्थमारकं रूपं भगवत आह यदिदं किं चेति । कम्पनादित्यधिकरणे चिन्तिता । इयं लीला स्थानलीला । पुनः स्थानलीलामाह । 'भयादस्याग्निस्तपति भयात्तपति सूर्यः । भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः' ॥ इति । स्पष्टम् । यथा वज्रोद्यतकरं स्वामिनं दृष्ट्वाऽभिमुखीभूय भृत्या नियमेन तच्छासने प्रवर्तन्ते तथेमाः प्रजा इति स्थानलीला । पूर्ववाक्ये फलमुक्तं य एतद्विदुरमृतास्ते भवन्तीति द्वितीय- श्रुत्युक्तस्थानलीला ज्ञानफलमाह । 'इह चेदशकद्बोद्धुं प्राक् शरीरस्य विस्रसः । ततः स्वर्गेषु लोकेषु शरीरत्वाय कल्पते' ॥ इति । स्थानलीलां बोद्धुमशकत् शक्नोति कालव्यत्ययः । शरीरस्य विस्रसः पतनात् प्राक् । कचिद्विस्रसः इत्यत्र विश्रम इति पाठः । श्रम धातुः खेदतपसोः दि. प. से. । बोद्धुमशक्ये स्थान- लीलाबोधे वैजात्यात्फलवैजात्येमाह यथादर्श तथात्मनि यथा स्वप्ने तथा पितृलोके यथाप्सु परीव ददृशे तथा गन्धर्वलोके छायातपौ ब्रह्मलोके इति । आदर्शे प्रतिबिम्बभूतकार्येश्वरं पश्यति तथात्मनि बुद्धौ मनसि वा 'स मानसीन आत्मा जनानाम्' इति श्रुतेः । पश्यति यथा च दर्श चन्द्रसूर्ययोः संगमे यथा १. वैजात्यात् । २. वैजात्यात् । 909