अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1007, कुल 2600 में से
संदर्भ में पढ़ें८५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० १ सू० ६ रश्मिः । भावलोकनात्मके दर्श विषयत्वेन पश्यति तथा आत्मनि मनसीति पूर्ववत् 'दर्शस्तु संगमे चन्द्रसूर्य- योरवलोकने' इति विश्वः । चन्द्रसूर्ययोरवलोकने इत्यन्वये सूर्यत्वेन चन्द्रत्वेन पश्यतीत्यर्थः । यथा खप्ने जीवस्य मायिकभोगस्तथा पितृलोककामस्य पितृलोके उपस्थिते मायिकभोगः यथाप्सु परिदृश्ये परिदृश्यते एकोपि बहुत्वेन इव तद्वत् । तथा तेन प्रकारेणैको बहुत्वेन परिदृश्यते छायांतपयोरिवात्यन्तविलक्षणौ ब्रह्मलोके । शोकाभावफलार्थमाह । 'इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् । पृथगुत्पद्यमानानां मत्वा धीरो न शोचति' ॥ इति । युक्तो हि इन्द्रियाणां पृथगुत्पन्नानां पृथग्भावं मत्वा ज्ञात्वा न शोचति । अयमपि भेदो निरध्यस्तदेहेन्द्रियकेषु । भक्तिज्ञानमार्गयोः निरध्यस्तदेहेन्द्रियकेषु भेदावाह निरध्यस्तेन्द्रियो भक्तभेदिन्द्रियाणामुदयः निरध्यस्तेन्द्रियैरेव कर्मकरणसंभवात् । ज्ञानी चेदिन्द्रियाणामस्तभावः । इन्द्रियत्वेनाज्ञानमात्मत्वेन ज्ञानम् । 'आत्मेति तूपगच्छन्ति ग्राहयन्ति च' इति फलाध्यायसूत्रात् मुक्तस्यामृतत्वं फलमाह इन्द्रियेभ्य इति । 'इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् । सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् । अव्यक्तात्परः पुरुषो व्यापकोऽलिङ्ग एव च । यज्ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति' ॥ इति । परत्वमिन्द्रियनायकत्वात् 'मनसैवानुद्रष्टव्यः' इति करणत्वाच्च । उत्तमत्वं ज्ञानजनकत्वा- द्विष्णुलोपोपादकत्वाच्च । अधि न दधातीत्यधि योः किः आधेयो जीवः आत्मा अस सत्त्वाद्विष्णुत्वा- पादकादुत्तमत्वं कथमित्यत आह महानिति । अपरिच्छिन्नपरिमाणवान् मुक्त इति यावत् । तथा च निर्गुणत्वादुत्तमत्वमधिकत्वं वा कवर्णलोपात् । अव्यक्तमक्षरम् । अलिङ्ग इति लिङ्ग्यते गम्यते येन तत्तथोक्तं चिह्नं तदविद्यमानमस्येत्यलिङ्गः । चिह्नादीनां विद्यमानत्वाल्लिङ्गः लिगि गतौ भ्वा. प. से. । 'नवाम्बुदानीकमनोहराय प्रफुल्लराजीवविलोचनाय । वेणुस्वनामोदितगोकुलाय नमोस्तु गोपीजनवल्लभाय' ॥ इति । गोपीजनवल्लभाष्टकोक्तानि चिह्नानि गम्यन्ते येन स आत्मा लिङ्गः तज्ज्ञानेत्युक्तं तत्र करणाकाङ्क्षायामाह । 'न संदृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् । हृदा मनीषा मनसाभिक्लृप्तो य एतद्विदुरमृतास्ते भवन्ति' ॥ इति । संदृशे सम्यग्ज्ञानाय रूपं तिष्ठति । द्रव्यचाक्षुषं प्रत्युद्भूतरूपस्य कारणत्वेन कथं तत्पश्यति । उच्यते । हृदा मनसा । मनीट् मनसः संकल्पादिरूपस्येदं नियन्तृत्वेनेति मनीट् बुद्धिरतया मनसा अभितः कॢप्तम् । सुपां सुः मनसाभिकॢप्तः । एतद्विशेषणं रामतापनीये 'उपासकानां कार्यार्थं ब्रह्मणो रूपकल्पना' इति । स मानसीन आत्मा जनानामिति मनसा । ननु मनोग्राद्यत्वापत्तिः आत्मा 'मत्स्याहमेकया ग्राह्यः' इति वाक्याद्भक्तिमात्रग्राह्य इति चेन्न । मनसाभिकॢप्तपदेन मनसाभिकल्पन- विषय उच्यतेऽत्र मनसा कल्पनं 'मयि रहस्समजनं तदिहामुत्र फलभोगनैराश्येनायुष्मिन् मनःकल्पन- १. नैराश्यात् । २. नैराश्यात् । 910