अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1008, कुल 2600 में से
संदर्भ में पढ़ेंमेतदेव च नैःकर्म्यम्' इति गोपालतापनीयश्रुत्युक्तमनसः कल्पनरूपं गृह्यते इति मनसा कल्पनं मनः- कल्पनमिति विगृह्य समासस्यापि संभवात् तथा च मनःकल्पनेन भक्तिरूपेण ग्राह्यः, हृदा मनीषा च सहकारिकारणानुगृहीतेनेति करणमुक्तम् । 'भक्त्या प्रसन्ने तु हरौ तं योगेनेव योजयेत्' इति सुबोधिन्या योगमाह । 'यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टति तामाहुः परमां गतिम्' ॥ 'तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् । अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ' ॥ भवेति आत्मन्यवतिष्ठन्ते निरोधलक्षणोक्तरीत्या । बुद्धिश्च स्वव्यापारे न व्याप्रियते तां परमां गतिं फलरूपां सेवामाहुः । निरोधलीला इत्युक्तम् । अप्रमत्तस्तदा भवतीत्युक्त्या मन्यन्त इत्यत्र केचिदिति कर्तृपोषनात् विरलाः कर्तारः । अतः सकलसाधारणयोगमाह योग इति प्रभवत्वस्यादिति प्रभवः इति 'भुवः प्रभवः' इत्यत्र व्याकृतं मनोरमायां भट्टोजिदीक्षितेनात्रापि बोध्यम् । अपि अयः ब्रह्मणि गमनं संयोगो भवत्येव हि निश्चयेन यतः सर्वोपि वदति गच्छतीत्यत्र गमनं उत्तरदेशसंयोगं करोतीति न च फलानुकूलव्यापारो धात्वर्थ इति वाच्यम् मण्डनमिश्रवत्फलमात्रस्य धात्वर्थाङ्गी- कारादसामर्थ्यप्रयोगदशायां निर्गुणेप्ययः न च साकारेणन्तमूर्ती ब्रह्मणि कुतो नाप्ययः । भक्त्यैकलभ्यत्वात् ता नाविदन्निति वाक्यात् तथा चोभयोर्मुक्तसाधारणयोर्मध्येजीवयोश्च ब्रह्मण- कारणाभावादनुपलभ्यमाने न स्त एव जीवब्रह्मणी इति प्राप्त आह । 'नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति' ॥ इति नैव वागादिभिः प्राप्तुं शक्ये यद्यपि तथापि योगकाले आत्मद्वयमस्तीत्येवोपलब्धव्य आत्मा कस्मादस्तीति श्रुवतो भक्तिवादिन आगमार्थानुसारिणः श्रद्धानादन्यत्र नास्तिकवादिनि विपरीतदर्शिनि कथं तद् द्वयमुपलभ्यते न कथंचनेत्यर्थः । तस्मादपोढासहदिपक्षमासुरमस्तीत्येवो- पलब्धव्यः आत्मा तत्त्वभावेन तस्य चात्मनो भावस्तत्त्वं तस्य भावः सत्ता तयोपलब्धव्या जीवात्मा तत्राप्युभयोर्ज्ञानब्रह्मणोः । निर्धारणे षष्ठी । पूर्वमस्तीत्येवोपलब्धव्यः । आत्मा प्रसीदति तत्त्व- भावो जीवसत्ता प्रसीदति योग ऐक्यान्न चकारप्रयोगः । अधुना जीवन्मुक्तिप्रकार उच्यते । 'यदा सर्वे प्रमुच्यन्ते कामा येस्य हृदि स्थिताः । अथ मर्त्योऽमृतो भवति अत्र ब्रह्म समश्नुते' ॥ इति स्पष्टम् । जीवन्मुक्तिप्रकार एष सलिङ्गदेहस्य । 'यदा सर्वे प्रभिद्यन्ते हृदयस्येह ग्रन्थयः । अथ मर्त्योऽमृतो भवत्येतावद्धनुशासनम्' ॥ इति । हृदयस्य ग्रन्थयो लिङ्गदेहास्तेषां भेदनेऽमृतो भवति । इहेति पदाद्वयमपि जीवन्मुक्त- प्रकारौ द्वितीयः । मुक्तिप्रकारमाह शतमिति स्पष्टम् ।