भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 1009, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 1009

८६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० ६ रश्मिः । ‘शतं चैका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्‍ङन्या उत्क्रमणे भवन्ति’ ॥ इति श्रुतिः । सर्वविद्यायोपसंहारार्थमाह । ‘अङ्गुष्ठमात्रः पुरुषोन्तरात्मा सदा जनानां हृदये संनिविष्टः । तं स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्येण । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतम्’ ॥ इति । मुञ्जादिति श्रीभागवते स्पष्टम् । शुक्रमिति शुच शोके भ्वा. प. से. शोचति ऋज्रेन्द्रेति रन् तमङ्गुष्ठमात्रं जीवसहितं शोचन्तं जीवं संचितकर्मसद्भावात् । अमृतमानन्दरूपमात्मानं विद्याज्जानी- यात् पुनर्वचनं कर्ममार्गीयजीवाङ्गुष्ठमात्रयोः ग्रहणाय । भक्तिमार्गे तु ‘ततः संसारदुःखस्य निवृत्तिर्ब्रह्म- बोधनम्’ इति न शोकान्वयः मनुष्यानधिकृत्येदं मृत्यूपाल्यानं प्रवृत्तम् । अतो मनुष्याणां हृदयस्या- ङ्गुष्ठमात्रत्वाद्रह्मण्यमङ्गुष्ठमात्र उपसंहार उक्त इति ‘शब्दादेव प्रमितः’ इत्यधिकरणे उक्तम् । ‘हृद्यपेक्ष- या तु मनुष्याधिकारत्वात्’ इतिसूत्रे मुक्तिप्रकारकथनानन्तरमङ्गुष्ठमात्ररूपोपिजीवस्य मुक्तिदशायां ब्रह्मा- विर्भावेन विरुद्धधर्माश्रयत्वे फलिष्यतीति वेदान्ताधिकरणमालायामभिप्राय उक्तः । सोपि साकारस्या- नन्तमूर्तेरनेकाखसाग्रहणे बाधकाभाव इत्यभिप्रायेण । नचिकेत उपास्यानावगतसाधनस्य फलमाह । मृत्युनोक्ता नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् । ब्रह्मप्राप्तो विरजोऽभूद्विमृत्युरन्योप्येवं यो विदध्यात्ममेव ॥ श्रुतेर्वचनान्नम श्रुतेरिव । अन्योर्थः । अन्योप्येवं यः सोध्यात्मविदेवेति । मनुष्याधिकारं ज्ञानकाण्डे निरूपयन्ती श्रुतिर्विमयांचकार निःश्वसितत्वेन वायुत्वात् । वायुः शब्दतामापद्यत इति । ततश्च गयादिन्द्रश्च वायुश्चेति श्रुतेर्धयमस्याः सा श्रुतिराह सं ह नाववतु इति स आत्मा ह प्रसिद्धः नौ वक्तृश्रोतारौ अवतु आमन्त्रणे लोट् अधीष्टे वा, न प्रार्थने ‘प्रार्थिते वा ततः किंस्यात् स्वाम्यभिप्राय- संशयात्’ इति वाक्यात् । ननु ज्ञानकाण्डीयस्याधिकारात्प्रच्यावनेन भगवान् मारयेदिति चेत्तन्नाह सह नौ भुनक्तु इति पालयतु अभ्यवहरतु वा । ‘यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ । सह वीर्यं करवावहै वीर्यं विद्याकृतं सामर्थ्यं तेन सह भावां करवावहै यथा न द्विप्यात् । तथा च तृतीयप्रश्नोत्तरे प्रधानीकृत्य वीर्यं करवावहै भावामिति भावः । तेजस्वि नावधीतमस्तु यथा तेजस्वि नौ आवयोः वक्तृश्रोत्रोरधीतमस्तु मा विद्विषावहै मा निषेधे आत्मानं सर्वप्रशस्तारं भावां मा विद्विषावहै इत्यर्थः । शान्तिः शान्तिः शान्तिरिति । ननु वीर्ये कृतेप्युपक्रमोपसंहारयोर्मनुष्याधिकाराद्विद्याया ज्ञानकाण्डे कोपयोग इत्यत आह शान्तिरिति । शम उपशमे दि. प. से. शम आलोचने चु. आ. से. लोमृदर्शने चु. प. से. उपालोचनं विद्याया ज्ञानकाण्डीयब्रह्मज्ञाने कर्तव्यम् । मार्गत्वये शान्तित्रयम् । अन्यभ्यास्याने शान्तिपदे योगरूढ्यापत्तिः । अत्र वेदान्ते योगमात्रादरणादेवं व्याकृतमिति । प्रकृतमनुसर्यते तथावसायादिति लीलालने य एषु सुप्तेष्वित्यादिषु पदार्थेष्वङ्गीकारावसायात् । अतो दैवेत्रापि इत्यत्र उत्तरम् । प्रश्नोत्तरयोः समान- विषयत्वस्य को घटः कम्बुग्रीवादिमान् घट इत्यादिषु दर्शनादिति भाष्यार्थः । तृत्राण व्युत्पत्तिः । संगतिः ग्रन्थ उक्ता । यद्धर्मप्रकारक्यद्विषयिणी जिज्ञासा तद्धर्मावच्छिन्नतदुद्देशकं लक्षणदि- निरूपणमिति नियमसासोदाहरणं को घटः कम्बुग्रीवादिमान् घटः इति । किंच मान्यं प्रति मधीमि 912