अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1010, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete and accurate Devanagari text transcription of the provided image, line by line:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । [८५३] भाष्यप्रकाशः । यत्तु वरदानानुरोधेन ब्रह्मप्रश्नस्य जीवप्रश्नान्तर्गतत्वं शंकराचार्यैरङ्गीकृतं तदसङ्गतम् । वस्तुप्रसादस्यैवात्र प्रश्नकारणतादर्शनात् । नच त्रीन् वरान् वृणीष्वेति वाक्यबाधापत्तिः । स्वस्ति मेऽस्त्विति वाक्येोक्तस्य स्वाविनाशार्थणावरत्रयस्य सौमनसाग्निजीवप्रश्नाभ्यां च पूर्त्या तदभावात् । नच तृतीयप्रश्नस्य काल्पनिकत्वम् । वदेति श्रुत्यैव तन्निरासात् । नचाधिक्यं दोषः । दोषत्वाभावस्योपपादितत्वात् । अतोऽस्य भिन्नप्रश्नत्वेऽपि कल्पनाया अभावेन, यथा वरव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पनायामप्यदोष इति । साङ्गोक्तप्रतिबन्देरपि परिहारादू व्यर्थ एव प्रष्टव्यभेदमनादृत्य, रश्मिः । इत्यग्रिमश्लोचरमुक्तं तदपि शंकराचार्यैः 'लोकादिमग्निं तमुवाच तस्मै' इति तदग्रिमवाक्यस्यो- त्तरत्वमुक्तं तन्निरासितुम् । न च 'प्रति ब्रवीमि तदु मे निबोध स्वर्ग्यमग्निं नचिकेतः प्रजानन्' इत्यस्य प्रतिज्ञावचनत्वात् तदेवोत्तरमिति शङ्क्यम् । 'अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि त्वमेतं निहितं गुहा- याम्' इत्युत्तराधैनास्यैवोत्तरत्वात् । यदपि 'न जायते म्रियते वा विपश्चित्' इति तृतीयप्रश्नोत्तरमुक्तं तस्यात्रामिप्रायोऽभावाददर्शनाच्च 'सर्वे वेदा' इत्येवोत्तरम् । वरदानेति न वयमिह वरदानव्यति- रेकेण प्रश्नं कंचित्कल्पयामो वाक्येोपक्रमसामर्थ्यात् । वरदानोपक्रमा हि मृत्युनचिकेतःसंवादरूपा वाक्यप्रवृत्तिरासमाप्तेः कठवल्लीनां लक्ष्यते । मृत्युः किल नचिकेतसे पित्रा प्रहिताय त्रीन् वरान् ददौ । नचिकेताः किल तेषां प्रथमेन वरेण पितुः सौमनसं वव्रे, द्वितीयेनाग्निविद्यां, तृतीयेनात्मविद्यां 'येयं प्रेते' इति 'वराणामेष वरस्तृतीयः' इति लिङ्गात् । तत्र यदि 'अन्यत्र धर्मात्' इत्यपूर्वोऽन्यन्यः प्रश्न उत्थाप्यते ततो वरव्यतिरेकेणापि प्रश्नकल्पनाद्वाक्यं बाध्यतेति भाष्येण यत्स्वित्यादिः । प्रभेति वरप्रदानद्वारा प्रश्नकारणता । स्वस्तीति । मे नचिकेतसे । स्वेति नचिकेतोऽविनाशार्थकवरत्रयस्य । तदभावादिति तथा च वरप्रदानव्यतिरेकेण प्रश्नाङ्गीकारः श्रुतिं विरुणद्धीति श्रुत्यन्तरोक्तरूपो- ङ्गीकृत इति भावः । भाष्योपपादने समाहितमपि काल्पनिकत्वं मतान्तरे प्रश्नद्वयस्यैक्यसाधनप्रयासस्य व्यर्थत्वसाधने पुनराहुः न चेति । एतच्च पूर्वमुपपादितम् । पूर्वं वरत्रयान्तर्गततृतीयवरस्य काल्प- निकत्वमुक्तमत्र तु वरत्रयपृथगितिभेदः । ननु त्रीन् वरानित्युक्ते चतुर्थीयमाधिक्यं निग्रहस्थानदोषः । यथाह दिनकर्याम् । अधिकसाधिकहेत्वाद्यभिधानरूपस्य गुणेन्तर्भाव इति वाच्यम् । उपेति न च निर्हेतुकत्वमित्यादिनोपपादितत्वात् । अत इति उक्तोपपादनात् । यथाश्रुतग्रन्थव्याकरणपक्षेऽत्र तृतीयप्रश्ने वरप्रवेशाभावादाहुः वरव्यतिरेकेणेति । अत्रोच्यते नैव वयमिह वरदानव्यतिरेकेण प्रश्नं कंचित् कल्पयाम इति शंकरभाष्यं पूर्वोक्तयुक्त्याक्षिप्तं तेन च तेषामस्य पूर्वपक्षग्रन्थः । यथैष वरप्रदानव्यतिरेकेण प्रश्नकल्पनायामदोष एवं प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पनायामदोषः स्यादिति तत्रापि वरप्रदानव्यतिरेकेण प्रश्नकल्पना युक्तियुक्ता, प्रश्नव्यतिरेकेण प्रधानोपन्यासकल्पना युक्तियुक्ता न भवतीति दृष्टान्तदार्शन्तिकयोः वैषम्यं सूचितम् । पूर्वपक्षग्रन्थे न प्रतिबन्दिः । अपरीति । अत्रो- च्यते । नैव वयमित्यादेः सिद्धान्तग्रन्थस्योकरीत्या वैचित्र्येन पूर्वपक्षश्लोकस्यापरिहारात् । प्रष्टव्येति द्वितीयतृतीयप्रश्नयोः जीवब्रह्मणोर्भेदं स च ननु च ब्रह्मप्रमेदाद् द्वयोर्न प्रश्नो भवितुमर्हति । पूर्वो हि प्रश्नो जीवविषयः येयं प्रेते मनुष्येस्ति नास्तीति विचिकित्साभिधानात्, जीवस्य धर्मादिगोचरत्वात्, स
१. विम्बाय हिताम् । १०९ म० सू० २० 913