अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1011, कुल 2600 में से
संदर्भ में पढ़ें८६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० ६ भाष्यप्रकाशः । ‘स्वप्नान्तं जागरितान्तं चोभौ येनानुपश्यति । महान्तं विभुमात्मानं मत्वा धीरो न शोचति’ ॥ इत्यादिश्रुत्युक्तं जीवब्रह्मणोर्धर्मभेदं चानादृत्य प्रश्नद्वयैक्यसाधनप्रयास इति दिक् । रामानुजाचार्यास्तु, उपायोपेयोपेतॄणां त्रयाणां प्रश्नोपन्यासमत्राङ्गीकुर्वन्ति । तथाहि । नचिकेता हि मुमुक्षुर्मृत्युना दत्ते वरत्रये प्रथमवरेणात्मनः पुरुषार्थयोग्यतापादनायात्मनि पितुः सौमनसं प्रतिलभ्य द्वितीयेन वरेणाग्निविद्यां वव्रे । सा च मोक्षोपायभूता प्रश्नवाक्ये, रश्मिः । नान्यत्र धर्मादिति प्रश्नमर्हति । प्राज्ञस्तु धर्माद्यतीतत्वात् ‘अन्यत्र धर्मात्’ इति प्रश्नमर्हति, प्रश्नच्छाया च न समाना लक्ष्यते । पूर्वस्यास्तित्वनास्तित्वविषयत्वात् । उत्तरस्य धर्माद्यतीतवस्तुविषयत्वात् । तस्मा-