अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 101, कुल 2600 में से
संदर्भ में पढ़ें१४ | श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० १ सू० १ भाष्यप्रकाशः । 'उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते' ॥ इति स्मृतौ क्त्वाप्रत्ययेनोपनयनस्याध्यापनाङ्गताप्रतीतेस्तत् कथमध्यापनस्योपकरोतीत्यपे- क्षायां, 'शिष्यम्' इति, 'तमध्यापयेत्' इति च द्वितीयोक्तकर्मत्वलिङ्गादुपनेयात्मसिद्धिद्वारेति निधीयते । उपनीतोऽपि नाकिंचित्करोऽङ्गमिति तद्व्यापारापेक्षायां वाक्यान्तर उपनयनं प्रक्रम्य विहितं वेदाध्ययनमेवाध्यापनोपकारकत्वादुपनीतव्यापारतयाऽध्यवसीयते । तदेवं साङ्गमुपनयनं प्रयुञ्जा- नोऽध्यापनविधित्सुद्वारेणाध्ययनं प्रयुङ्क्ते । ततश्चाध्ययनस्यापि प्रयोजने विचार्यमाणे स्वसमवेत- त्वेनान्तरङ्गत्वार्दर्थज्ञानमेव तथात्वेन निधीयते, न त्वाचार्यत्वसिद्धिव्र्बहिरङ्गत्वत् । न च प्रथमा- वगतत्वेनाचार्यत्वसिद्धेरेवाध्ययनप्रयोजनं, न तु पश्चादवगतमर्थज्ञानमिति वाच्यम् । तत्सिद्धिं विनाऽप्यध्ययनानुष्ठानसंभवेन प्रथमं तदनवगमात् । न च शब्दादवगतो नियोग एव प्रयोजनम- स्त्विति वाच्यम् । अर्थज्ञानस्यापि प्रतीयमानत्वेन त्यागायोगात् । नचैवमध्ययनस्यार्थज्ञानार्थत्वे- ऽध्ययनविधिनेवार्थज्ञानप्राप्तिः किमिति नाद्रियत इति शङ्कथम् । अध्ययनविधेरधिकारशून्यत्वादा- चार्यकरणविधिप्रयुक्त्याऽऽत्मलाभानङ्गीकारे विश्वजिदादिवन्नियोज्यकल्पनापत्तेः । अतोऽध्या- पनविधिप्रयुक्तमेवाध्ययनमर्थज्ञानं च, नाध्ययनविधिप्रयुक्तमित्याहुः । एवं मीमांसकमतेऽप्यर्थज्ञानस्य वैधत्वात् तदाक्षिप्तविचारस्यापि वैधत्वम् । रामानुजाचार्यास्तु, अध्ययनविधिना स्वाध्यायाख्यस्य वेदस्याक्षरराशेर्ग्रहणं विधीयते । तत्रे- तिकर्त्तव्यताकाङ्क्षायामध्यापनविधिना, 'श्रावण्यां प्रौष्ठपद्यां वा उपाकृत्य यथाविधि । युक्तश्छन्दांस्यधीयीत मासान् विप्रोऽर्धपञ्चमान्' ॥ रश्मिः । मधिकरणं षष्ठस पठेस्ति । द्वितीयोक्तकर्मत्वलिङ्गादिति । तत्सामर्थ्यादित्यर्थः । स्वेत्यादि । स्वमात्मास्मन्मते मनस्तत्समवेतत्वेन स्वत्यापेक्षत्वरूपान्तरङ्गत्यादित्यर्थः । बहिरङ्गत्यादिति प्रयो- गोपाधित्वेन तथात्वादित्यर्थः । तथाहि, संमाननेत्यायुक्तसूत्रे उत्सञ्जनज्ञानव्ययविवगणनानि नयते- र्वाच्यानि । इतरे तु प्रयोगोपाधयः । उत्सञ्जने दण्डमुद्यम्यते उत्क्षिपतीत्यर्थः । 'ब्राह्मणमुपनयीत' विधिनात्मसमीपं प्रापयेदित्यर्थः । उपनयनपूर्वकेणाध्यापनेनोपनेतरि ह्याचार्यत्वं क्रियत इति । आत्मलाभानङ्गीकार इति अधिकारिरूपलाभानङ्गीकार इत्यर्थः । विश्वजिदादिवदिति । एतच्चतुर्थस्य तृतीयपादे 'चोदनायां फलाश्रुतेः कर्ममात्रं विधीयेत नह्यशब्दं प्रतीयते' इत्यधि- करणे 'विश्वजिता यजेत' इत्यत्र फलाश्रवणेपि अध्याहृतफलान्वयमङ्गीकृत्य तत्किमित्यपेक्षायां 'सः स्वर्गः स्यात् सर्वान् प्रत्यविशेषात्'इत्यधिकरणे स्वर्गः फलमिति चिन्तितं, तेन स्वर्गकामो नियोज्य इति सिद्धं, तद्वदित्यर्थः । अत इति । प्रयोगोपाधिनाप्याचार्यत्वकामात्मलाभेन लाघवादित्यर्थः । तदाक्षिप्तेति । अविचारिताश्च शब्दा नार्थं प्रत्याययन्तीति भाष्यात् । 'येन विना यदनुपपन्नं तद् तेनाक्षिप्यते' इति । प्रौष्ठपद्यामिति भाद्रपद्याम् । उपाकृत्येति उपकारं कृत्येत्यर्थः । उपाकर्म कृत्वेति वार्धः । अर्धपञ्चमानिति । अर्धपञ्चमः पौषो माघो वा येषु भाद्रपदाश्विनकार्तिकमार्गशीर्षेषु आश्विन- 14