भारतकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 102, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 102

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५

भाष्यप्रकाशः ।

इत्यादिभिरपेक्षितानि विधीयन्ते । तेनाचार्योच्चारणानूच्चारणरूपमध्ययनमक्षरराशिग्रहण- फलमित्यवगम्यते । तच्च चतुर्वर्गफलस्य विधिवाक्ये कर्मत्वेन बोधितस्य स्वाध्यायस्य कार्यान्तर- योग्यतासंपादनरूपः संस्कारः । तेनाध्ययनविधिरक्षरग्रहणमात्रपर्यवसायी । अध्ययनगृहीतं च स्वभाषादेवार्थबोधकमिति स्वाध्यायस्यापि तथात्वात् तत्रापाततोऽवगम्यमानानामर्थानां स्वरूप- प्रकारविशेषनिर्णयाय वेदवाक्यविचाररूपमीमांसाद्वयश्रवणेऽधीतवेदः पुरुषः स्वत एव प्रवर्तते । तत्र कर्मस्वरूपनिरूपणे तेषामल्पास्थिरफलत्वं दृष्ट्वाऽध्ययनगृहीतस्वाध्यायैकदेशोपनिषद्वाक्येषु चाऽमृतस्वरूपानन्तस्थिरफलापातप्रतीतेस्तन्निर्णयफलकवेदान्तविचाररूपशारीरकमीमांसायामधिकरो- तीत्याहुः । शैवास्तु, अध्ययनविधेरक्षरग्रहणमात्रपरत्वमङ्गीकृत्याध्ययनेनाऽऽपाततोऽर्थप्रतीतेस्तदनु ब्रह्म- स्थुलोपासनभूतज्योतिष्टोमादिविधायकानां सूक्ष्मोपासनभूतदहरादिविद्याविधायकानां चेतरेतर- विरोधाभासं पश्यंस्तद्विचारे पुरुषार्थाकाङ्क्षी पुरुषः स्वयमेव प्रवर्ततेऽतो नानिबन्धनो विचार इत्याह । भट्टभास्कराचार्यास्तु स्वाध्यायविधेरर्थावबोधपर्यवसितत्वेऽपि ब्रह्मज्ञानं तेनाक्षेप्तुं न शक्यम् । 'यज्ञेन दानेन' इति, 'शान्तो दान्त उपरतस्तितिक्षुः श्रद्धावित्तो भूत्वा आत्मन्येवात्मानं पश्येत्' इति श्रुत्या ब्रह्मज्ञानस्योपायान्तरसापेक्षत्वात् । कर्मावबोधनसमर्थेषु पुरुषेष्वध्ययनविधेः कृतार्थत्वेनो- पायान्तराक्षेपाक्षमत्वात् । 'श्रवणायापि बहुभिर्यो न लभ्यः' इत्यादिश्रुतेर्ब्रह्मणो दुर्ज्ञेयत्वाच्च । अतो ब्रह्मजिज्ञासा न तत्कारिता किंतु, 'श्रोतव्यो मन्तव्यः', 'सोऽन्वेष्टव्यः स विजिज्ञासितव्यः', 'तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्' इत्यादिवेदान्तविधिकारिता वास्त्वित्याहुः । तत्राध्ययनविधेरर्थज्ञानार्थत्वकल्पनमसंगतम् । 'यं यं क्रतुमधीते तेन तेनासेष्टं भवति' इतिवाक्येनाक्षरग्रहणमात्रेऽपि फलबोधने तदतिहाय फलान्तरकल्पनायायुक्तत्वात् ।

रश्मिः ।

कार्त्तिकमार्गशीर्षपौषेषु वा तादृशान् मासानित्यर्थः । चतुर्वर्गे त्वत्र बहुव्रीहिः । विधीति । 'स्वाध्यायोऽ- ध्येतव्यः' इति वाक्ये । गृहीतं चेति शास्त्रमित्यर्थः । इत्याहुरिति । तेनात्राक्षरग्रहणमधिक- मिति पूर्वस्माद्विशेषः । विरोधेत्यादि । 'आभासत्वे विरोधस्य विरोधाभास इष्यते' इत्यलंकारं लक्षयित्वा 'विनापि तन्वि हारेण वक्षोजौ तव हारिणौ' मनोहारिणौ इत्युदाहरणम् । 'घटाद्विना घटीयो धनेशः संराजतेऽधुने'ति चोदाहरणम्, तत्र श्लेषेपादाभासः । एवं चैकशाखाद्विरोधः । साधन- योरेकत्र सहानवस्थानलक्षणः आभासो विरोधस्तैवं कर्माणि ज्ञानप्रयोजकतया मोक्षे समुच्चीयन्त इति वक्ष्यन्ति । भगवांश्चैवाचार्य इति गुणकर्मत्वादङ्गत्वं ज्योतिष्टोमादीनामिति । इत्याहेति । तेनैतन्मते विचारसार्थक्यमात्रम्, न तु तस्य वैधत्वावैधत्वविवेचनमिति । ग्रामं गच्छतीत्यादौ ग्रामसंयोगोऽवान्त- रसंयोगान् गृह्णातीति तदनुसारेणाध्ययनस्याक्षरग्रहणमात्रं फलमित्याशयेनाहुः लभेति । दूरान्वयदीपोपि मीमांसकमते यः सोपि न । अक्षरग्रहणमात्र इति । दृश्यमाने इह इत्यर्थः । इदानीं 'लभ्यमाने फले दृष्ठे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नार्थक्यं भविष्यति' इति वाक्यात् । स्वर्गब्रह्मज्ञानादि तु साधनान्तरंयागविज्ञानादिभिरिष्टत्वेनोक्तं भवति ।

15