अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1013, कुल 2600 में से
संदर्भ में पढ़ें[Header] ८१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १
[भाष्यप्रकाशः] पूर्वं प्रणवमुखोपदेशेन प्रशंसंस च । ततो, न जायत इत्यादिना प्राप्तुः स्वरूपमुक्त्वा अणोरणीया- नित्यारभ्य, 'क इत्था वेद यत्र सः' इत्यन्तेन प्राप्यस्य विष्णोः स्वरूपं वदन् मध्ये, नायमात्मे- त्यनेन उपायभूतस्योपासनस्य भक्तिरूपतामप्याहेत्यादि चाहुः । तेन तन्मते प्रश्नद्वयस्य सामान्यविशेषभावेनैक्यादन्यत्र धर्मादिति प्रभोऽपि तृतीयं वरमनुरुन्धे । ज्ञेयमतेऽप्येवम् । अत्रोदासीना वयम् । भास्कराचार्यास्तु जीवपरयोर्गोपुरुषावदत्यन्तभेदो नास्ति । पररूपादर्शनमेव चाविद्या । सा च विद्यया निवर्त्यते । ततश्च स्वरूपं प्रतिपद्यत इति पूर्वसूत्र उक्त्वाऽस्मिन् सूत्रे सौमनसा- पेक्षया जीवप्रश्नस्य तृतीयत्वमुक्त्वा ब्रह्मप्रश्नस्य ततोऽतिरिक्तत्वं सूचयामासुः ।