अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1021, कुल 2600 में से
संदर्भ में पढ़ें८७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० २ सू० ८ संबन्धमेव वक्तव्यम् । तत्र, ब्रह्मवादिनो वदन्तीत्युपक्रम्य ब्रह्मविद्यैव निरू- पिता । तथापि पूर्वकाण्डे प्रणवादिमन्त्राणां नायं नियम इति प्रकृतेऽपि मता- न्तरवाचकस्यैव प्रकृतोपयोग इति शङ्का । 'ते ध्यानयोगानुगता अपश्यन् देवा- भाष्यप्रकाशः । सूर्योपस्थाने, तथात्रापि मन्त्रस्य कपिलमतसिद्धार्थवाचकस्यैव ब्रह्मविद्योपयोग इत्येष मन्त्रः स्वार्थनिरपेक्ष एवेति शङ्केत्यर्थः । किंचात्र यद्येक एव मन्त्र एतादृशोऽन्ये त्वन्यादृशा इति स्यात् तदा बहूनामनुग्रहो न्याय्य इत्यस्यैवार्योऽन्यथा कल्प्येतापि । यथा कठवल्ली मन्त्रस्य । इह तु मन्त्राणां बहूनां तादृशत्वात् तदपि न वक्तुं शक्यमित्याह ते ध्यानेत्यादि । रश्मिः । यत् किं चेदं वरुण दैव्ये जनेभिद्रोहं मनुष्याश्चरामसि अचित्ती यत्तव धर्मायुयोपिम मा नः तस्मादेनसो देव रीरिषः कितवासो यद्रिरिपुर्नदीवि यद्वा घा सत्यमुतन्न विद्म । सर्वा ता विष्यशिथिरे यदेवाथाते स्याम वरुणप्रियास इति । हे देव वरुण ते व्रतं त्वदीयपरिचर्चारूपं वविवधि दिवसे दिवसे प्रामिनि- मसि मिनीमः । मीञ् हिंसायां क्या. उ. अ. मीनातेर्निगमेति ह्रस्वः । यच्चिद्धि, चिद्दीति वा । यद्येवं तथापि विशो यथा, प्रजा इव, वयं तथा च सापराधः अपि प्रजाः स्वामिना यथानुगृह्यन्ते तथा वयमप्यनुग्राह्या इति भावः । यत्किंचेति । किं च हे वरुण दैव्ये देवसमूहरूपे जने यत् । किं च अभिद्रोहमपकारजातं वयं चरामसि चरामो मनुष्याः किं चाचित्ती अचित्या अज्ञानेन तव त्वदीयं यद्धर्मधारकं कर्म आयुयोपिम युप विमोहे दि. प. से. विमोहितवन्त हे देव तस्मादेनसः पापाञ्नो- स्मान् मा रीरिषः मा हिंसीः रिष् हिंसायां भ्वा. प. से. । कितवास इति कितवास्त्रील्याचक्षाणाः कितवा द्यूतकृतः कितवेत्यनुकरणादाख्याताण्यन्तं पचाद्यच् पृषोदरादित्वात् किमो मलोपः दिवीति ते वरुणस्य दीविनीति तान्छील्ये णिनौ प्राप्ते देवनमिव देवनं द्यौः तस्यां दिवि दिवेर्डिविः अन्येषामपीति दीर्घः । कितवास्सते मित्रीभूतस्य दिवि नरि रिपुः रप व्यक्तवाचि भ्वा. प. से. यन् नाम देवपूजादिकर्तृ व्यक्तमच्चुरिति यत् वाक् हा सत्यमिति छेदः यस्य देवपूजादिकर्तुः वाक् सत्यं हा जहाति उत वितर्के यत् यस्य न, न जहाति तन्न विद्म । यद्वा घा सत्यमिति छेदः ऋचि तु नुघ मद्यु तन् कुत्रो रुष्माखामिति संहितायां दीर्घः सर्वा सर्वाणि ता तानि विष्य विशेषेण व्य नाशय पोन्तकर्मणि दि. प. अ. विपूवार्छोटि मध्यमैकवचनम् । शिथिरेव शिथिलानीव । शिथिरेत्यत्र शेश्छन्दसि बहुलमिति शिलोपे 'न लोपः प्रातिपदिकान्तस्य' इति न लोपः । हे वरुण अथ अनन्तरं तव प्रियासः प्रियाः । आञ्जसेरसुगिति जसोऽसुगागमः । स्याम भवेम । अयमुपसंहारमन्त्रः । वि वा एतस्य यज्ञ ऋद्धयते यस्य हविरतिरिच्यते इत्युपक्रमः । प्रकरणमुन्नेयम् । न चात्र सूर्योपस्थानं न वरुणोपस्थानमिति शङ्कयम् । इमं मे वरुणेत्युपक्रमात् । वरुणप्रियास इत्युपसंहाराच्च । न च सूर्यो- पस्थानपरग्रन्थविरोध इति वाच्यम् । व्याख्याने सूर्यप्राधान्येन तत्परत्वात् । हेतुद्वयेनार्थद्वयव्यवस्था । प्रकृतमनुनानुसर्यते । एतादृश इति सांख्यप्रतिपादकः 'त्यदादिषु दृशोनोलोचने कञ्' इति कन् । अस्यैवेति अजामेकामित्यस्यैव । कठवल्ली मन्त्रस्येति 'इन्द्रियेभ्यः परा ह्यर्थाः, इत्या दिकं सकलमतसाधारणम् । अतो महतः परमव्यक्तमिति मन्त्रस्य । मन्त्राणामिति वक्ष्यमाणानां मन्त्राणाम् । तादृशेति कर्मकर्तरि प्रत्ययः रुज्वनुगुणत्वादिति मनोरमायां प्रत्ययस्तु, १. आज्जतीरसुगिति वा पाठः । 924