अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1022, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ८७३ त्मशक्तिं स्वगुणैर्निगूढाम्' इति च । तथा 'ज्ञाज्ञौ द्वावजावीशानीशौ' अजा ह्येका भोक्तृभोग्यार्थयुक्ता । अग्रे च यो योनिं योनिमधितिष्ठत्येको विश्वानि रूपाणि योनीश्च सर्वाः । 'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' इत्यादि च । वाक्यानि कपिलतन्मतवाचकानि वर्तन्त इति सांख्य- मतमपि वैदिकमेवेत्येवं प्राप्ते, उच्यते—चमसवदविशेषात् । 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम् । तस्यासते ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना' ॥ भाष्यप्रकाशः। तथाचात्र स्वगुणैर्निगूढत्वम् । अग्रिमे मुक्तामुक्तात्मसंबंधैर्भोक्तृभिर्भोग्यार्थैर्धर्मादिकार्यैर्युक्ता अनादिः प्रकृतिः। तदग्र