अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 1023, कुल 2600 में से
संदर्भ में पढ़ें८७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० २ सू० ९ इति मन्त्रे यथा न विशेषो विधातुं शक्यते । न हि कर्मविशेषं कल्पयित्वा तत्रावार्ग्बिलचमसं कल्पयित्वा तत्र यशोरूपं सोमं होतारो मन्त्रेण भक्षयेयुरिति कल्पयितुं शक्यते । तथा प्रकृते रोहितशुक्लकृष्णशब्देन रजःसत्त्वतमांसि कल्प- यित्वा न तद्दृशेन सर्वमेव मतं शक्यते कल्पयितुम् । कपिलकपिशवाक्यमप्यनित्य- संयोगभयान्नित्यपतेरेवानुवादकम् । तस्मान्न मन्त्रमात्रेण प्रकरणश्रुत्यन्तरनिरपेक्षेण विशेषः कल्पयितुं शक्यः ॥ ८ ॥ भाष्यप्रकाशः । विधातुं शक्येत । स च न शक्यते । शक्तित्वेन शक्तिमदधीनोदयतया तत्सापेक्षतयैव सिद्धत्वात् नच स्वगुणैर्निगूढत्वं तद्गमकम् । तत्र स्वपदेन ब्रह्मण एव ग्रहीतुं शक्यतया